________________ तेउक्काइय 2346 - अभिधानराजेन्द्रः - भाग 4 तेउक्काइय मुपलब्धमिति / अत्र च यत्नग्रहणादीर्यासमित्थादयो गुणा गृह्यन्ते। अप्रमादग्रहणात्तु मद्याऽऽदिनिवृत्तिरिति। तदेवमेतत्प्रधानपुरुषप्रतिपादितमग्निशस्त्रमपायदर्शनादप्रमत्तैः साधुभिः परिहार्यमिति / / एवं प्रत्यक्षीकृतानेकदोषजालमप्यग्निशस्त्रमुपभोगलोभात्प्रमादवशगाये न परिहरन्ति, तानुद्दिश्य विपाकदर्शनायाऽऽहजे पमत्ते गुणट्ठीए से हु दंडे त्ति पवुच्चइ / / 34 / / यो हि प्रमत्तो भवति मद्यविषयाऽऽदिप्रमादैरसंयतो 'गुणार्थी रन्धनपचनप्रकाशाऽऽतापनाऽऽद्यग्निगुणप्रयोजनवान् स दुष्प्रणिहितमनो - वाक्कायोऽग्निशस्त्रसमारम्भकतया प्राणिनां दण्डहेतुत्वाद्दण्डः, प्रकर्षणोच्यते प्रोच्यते,आयुर्घताऽऽदिव्यपदेशवदिति। यतश्चैवं ततः किं कर्त्तव्यमित्यत आहतं परिण्णाय मेहावी, इयाणिं णो जमहं पुख्यमकासी पमाएणं // 35 / / (त परिण्णाय मेहावी) तमग्निकायसमारम्भं दण्डफलं परिज्ञाय ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभ्यां मेधावी मर्यादाव्यवस्थितो वक्ष्यमाणप्रकारेण व्यवच्छेदमात्मन्याचिनोतीति। तमेव प्रकार दर्शयितुमाह(इयाणीत्यादि) यमहमग्निसमारम्भं विषयप्रमादेनाऽऽकुलीकृतान्त:करणः सन् पूर्वमकार्ष, तमिदानी जिनवचनोप-लब्धाग्निसमारम्भदण्डतत्त्वः नो करोमीति॥ अन्ये त्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाहलज्जमाणा पुढो पास-अणगारा मो त्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थे हिं अगणिकम्मसमारंभेणं अगणिसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसंति, तत्थ खलु भगवता परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव अगणिसत्थं समारंभइ, अण्णे हिंवा अगणि सत्थं समारंभावेइ, अण्णे वा अगणिसत्थं समारंभमाणे समणुजाणइ, तं से अहियाए तं से अबोहियाए से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोचा भगवओ अणगाराणं इहमेगेसिंणायं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु णरए, इचत्थं गड्डिए लोए जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्मसमारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ॥३६।। (लज्जमाणेत्यादि) यावत्-(अन्ने अणेगरूवे पाणे विहिंसइत्ति) अस्य ग्रन्थस्योक्तार्थस्याऽयमर्थों लेशतः प्रदर्श्यतेलज्जमानाः स्वाऽऽगमोक्तानुष्ठानं कुर्वाणाः सावद्यानुष्ठानेन वा लज्जां कुर्वाणाः, पृथग्विभिन्नाः शाक्याऽऽदयः, पश्येति संयमानुष्ठाने स्थिरीकरणार्थं शिष्यस्य चोदना, अनगारा वयमित्येके प्रवदमानाः, किं तैर्विरूपमाचरितं येनैव प्रदान्त इति दर्शयति-यदिदं विरुपरूपैः शस्त्रैरग्निकर्मसमारम्भेण अग्निशस्त्रं समारंभमाणः सन्नन्याननेकरूपान् प्राणिनो विहिनस्ति, तत्र खलु भगवता परिज्ञा प्रवेदिता,यथाऽस्यैव परिफल्गुजीवितस्य परिवन्दनमाननपूजनार्थ जातिमरणमोचनार्थं दुःखप्रतिघातहेतुं यत्करोति तदर्शयति स परिवन्दनाऽऽद्यार्थी स्वत एवाग्निशस्त्रं समारंभंते, तथा अन्यैश्चाग्निशस्त्र समारम्भयति, तथाऽन्याँश्च अग्निशस्त्रं समारंभमाणान् समनुजानीते। तचाग्नेः समारम्भणं से' तस्स सुखलिप्सोरमुत्रान्यत्र चाहिताय भवति। तथा-तदेव च तस्याबोधिलाभाय भवति / स इति यस्यैतदसदाचरणं प्रदर्शितं स तु शिष्यस्तदनिसमारम्भणपापायेत्येवं संबुध्यमान आदानीय ग्राह्य सम्यग्दर्शनाऽऽदिसम्यगुत्थायाभ्युपगम्य श्रुत्वा भगवदन्तिकेऽनगाराणा वा इहैकेषा साधूनां ज्ञातं भवति। किं तद्दर्शयति? एषोऽग्निसमारम्भः ग्रन्थः कर्महेतुत्वात्. एष एव मोह एष एव मार एष एव नरकस्तद् हेतुत्वादिति भावः / इत्येवमर्थं च गृद्धो लोको यत्करोति तदर्शयति-यदिदं विरूपरूपैः शस्त्रैरग्निकर्म समारंभते, तदारम्भेण चाग्निशस्त्रं समारंभते तचाऽऽरभमाणोऽन्याननेकरूपान् प्राणिनो विहिनस्तीति / / कथं पुनरग्निसमारम्भप्रवृत्ता नानाविधान प्राणिनो विहिंसन्तीति दर्शयितुमाहसे बेमि-संति पाणा पुढविणिस्सिया तणणिस्सिया पत्तणिस्सिया कट्ठणिस्सिया गोमयणिस्सिया कयवरणिस्सिया, संति संपातिमा पाणा आहच संपयंति, अगणिं च खलु पुट्ठा एगे संघायमावज्जंति, जे तत्थ संघायमावजंति ते तत्थ परियावजंति, जे तत्थ परियावजंति ते तत्व उद्दायंति // 37 / / (से बेमीत्यादि) तदहं ब्रवीमि यथा नानाविधजीवहिंसनमग्निकायसमारम्भेण भवतीति। यथाप्रतिज्ञातार्थ दर्शयतिसन्ति विद्यन्तेप्राणा जन्तवः, पृथिवीकायनिश्रिताः पृथिवीकायत्वेन परिणता इत्यर्थः / तदाश्रिता वा कृमिकुन्थुपिपीलिकागण्डूपदाहिमण्डूकवृश्चिकर्कटकाऽऽदयः / तथा-वृक्षगुल्मलतावितानाऽऽदयः / तथा तृणपत्रनिश्रिताः पतड़े लिकाऽऽदयः / तथा-काष्टनिश्रिता घुणोद्देहिकापिपीलिकाइण्डाऽऽदयः / गोमयनिश्रिताः-कुन्थुपनकाऽऽदयः। कचवरः पत्रतृणधूलिसमुदायः, तनिश्रिताः कृमिकीटपतङ्गाऽऽदयः / तथा सन्ति विद्यन्ते संपतितुमुत्प्लुत्योत् प्लुत्य गन्तुमागन्तुं वा शीलं येषां ते संपातिनः प्राणिनोजीवा मक्षिकाभ्रमरपतङ्गमशकपक्षिवाताऽऽदयः, एते च संपातिन आहत्योपेत्य स्वतएव।यदिवा अत्यर्थ कदाचिद्रा अनिशिखाया संपतन्ति च। तदेवं पृथिव्यादिनिश्रिताना जीवानां यद्भवति तदर्शयितुमाह-(अगणि चेत्यादि) रन्धनपचनतापनाऽऽद्यग्निगुणार्थिभिरवश्यमग्निसमारम्भो विधेयः; तत्समारम्भे च पृथिव्यादिनिश्रितानां जीवानामेता वक्ष्यमाणा अवस्था भवन्ति, छान्दसत्वात् तृतीयाऽर्थे द्वितीया। ततश्चायमर्थः-अग्रिना स्पृष्टाः छुप्ता एके केचन संघातमधिकं गात्रसंकोचनं मयूरपिच्छवदापद्यन्ते. चशब्दस्याऽऽधिक्यार्थत्वात्, खलुशब्दोऽवधारणे, अग्नेरेवाय प्रतापो नापरस्येति / यदि वा सप्तम्यर्थे द्वितीया / स्पृष्टशब्दश्च पतितवचनः / ततश्चायमर्थो भवति–अग्रावेव स्पृष्टाः पतिता एके शलभाऽऽदयः, संधात समेकीभावेनाधिकं गात्रसंकोचनमापद्यन्ते प्राप्नुवन्ति, ये च तत्राग्नी पतिताः संघातमापद्यन्ते ते प्राणिनः, तत्राग्नौ पर्यापद्यन्ते। पर्यापत्तिःसंमूर्छनम्, ऊष्माभिभूता मूर्छामापद्यन्ते इत्यर्थः / अथ किमर्थ सूत्रकृता विभक्ति परिणामोऽकारीति? उच्यते-मागधदेशीसमनुवृत्तेः, व्याख्याविकल्पप्रदर्शनार्थ वा / अध्याहाराऽऽदयोऽपि व्याख्याङ्गानीत्यनेन