SearchBrowseAboutContactDonate
Page Preview
Page 1007
Loading...
Download File
Download File
Page Text
________________ तिहि 2326 - अभिधानराजेन्द्रः - भाग 4 तिहि तावइया होति तिही,तेसिं नामाणि वोच्छामि। इह यावता कालेनैकश्चन्द्रमण्डलस्य षोडशो भागो द्वाषष्टिभागसत्कचतुर्भागाऽऽत्मकः परिहीयते, वर्द्धते वा, तावत् कालप्रमाणा एका तिथिरिति प्रागुपपादितम् / ततो यावतो भागान् चन्द्रमसो राहुविमानं कृष्णपक्षे हापयति, यावतश्च भागानानुक्रि मे ण शुक्लपक्षे परिवर्द्धयति, तावत् प्रमाणाः शुक्लपक्षे कृष्णपक्षे च तिथयो भवन्ति। तत्र पञ्चदश भागान् कृष्णपक्षे हापयति, पञ्चदशैव भागान् शुक्लपक्षे परिवर्द्धयति; ततः पञ्चदश कृष्णपक्षे तिथयः, पञ्चदश शुक्लपक्षे च / सम्प्रति तासां तिथीनां नामानि वक्ष्यामि। प्रतिज्ञातमेव निर्वाहयतिपाडविग बिइय तइया, य चउत्थी पंचमी य छट्ठीय। सत्तमि अट्ठमि नवमी, दसमी एगारसी चेव / / बारसि तेरसि चाउद्दसीय निट्ठवणिगा य पन्नरसी। किण्हम्मि य जोण्हम्मि य, एसेव विही मुणेयव्वा / / कृष्णपक्षे प्रथमा तिथिः प्रतिपद्, द्वितीया द्वितीया, एवं यावन्निष्ठापनिका परिसमाप्तिकारिका पञ्चदशी, अमावस्या इत्यर्थः / ज्योत्स्न्येऽपि, पक्षे इत्यर्थः / एष एवानन्तरोदितो नाम्ना विधितियः। तद्यथा-प्रथमा प्रतिपत, द्वितीया द्वितीया, तृतीया तृतीया। एवं यावत् परिसमाप्तिकारिका पञ्चदशी, पौर्णमासी इत्यर्थः / इह विचित्रो विधिर्नाम्नामागर्म मासाऽऽदीनां तिथिपर्यन्तानामुक्तः, ततस्तिथिनाम्नां प्रस्तावाद् मासोऽपि विनेयजनानुग्रहार्थमुपवर्ण्यते-इह च एकैकस्मिन् संवत्सरे द्वादश मासाः, तेषां च नामधेयानि द्विविधानि / तद्यथालौकिकानि, लोकोत्तराणि च। तत्र लौकिकान्यमूनिः। तद्यथा-श्रावणः, भाद्रपदः, आश्वयुजः, कार्तिकः, मार्गशीर्षः,पौषः, माघः, फाल्गुनः, चैत्रः, वैशाखः,ज्येष्ठः, आषाढ इति। लोकोत्तराण्यमूनि / तद्यथा-प्रथमः श्रावणे अभिनन्दितः द्वितीयः प्रतिष्ठितः प्रतिपत्तव्यः, तृतीयो विजयः, चतुर्थः प्रीतिवर्द्धनः, पञ्चमः श्रेयान्, षष्ठः शिवः, सप्तमः शिशिरः, अष्टमो हेमवान्, नवमो वसन्तमासः, दशमः कुसुमसंभवः एकादशो निदाघः, द्वादशो वर्णविरोहः / तथा चोक्तं जम्बूद्वीपप्रज्ञप्तौः-''एगमेगस्स णं भंते ! संवच्छरस्स कति मासा पन्नत्ता? गोयमा ! दुवालस मासा पन्नत्ता। तेसि णं दुविहा नामधिज्जा पन्नत्ता / तं जहा-लोइया, लोउत्तरिया य / तत्थ लोइया नामा इमे। तं जहा--सावणे, भद्दवएजाव आसाढे। लोगुत्तरिया नामा इमे। तं जहा"अभिणंदिते पइवे य, विजए पीइवड्णे। सेयंसे य सिवे चेव, सिसिरे य सहेमयं / / 1 / / नवमे वसंतमासे, दसमे कुसुमसंभवे। एकारसे निदाहे य, वण्णविरोहे य वारसमे।।२।।" (ज०७वक्ष०) एकैकस्मिश्च मासे द्वौ पक्षौ, तयोश्च नामधेये गुणनिष्पन्ने इमे। तद्यथाबहुलः पक्षः, शुक्लपक्षश्च / तत्र योऽन्धकारबहुलः पक्षः स बहुलपक्षः / यस्तु ज्योत्स्नाधवलिततया शुक्लः पक्षः स शुक्ल-पक्षः / उक्त च"एगमेगस्स ण भंते ! मासस्स कइ पक्खा पन्नत्ता? गोयमा ! दो पक्खा पण्णत्ता / तं जहा- बहुलपक्खेय, सुक्कपक्खेयं ।"(ज० ७वक्ष०) एकैकस्मिश्च पक्षे पञ्चदश दिवसाः / तद्यथा-प्रथमः पूर्वाङ्गो, द्वितीयः सिद्धमनोरमः, तृतीयो मनोहरः, चतुर्थो यथोभद्रः, पञ्चमो यशोधरः, षष्ठः सर्वकामसमृद्धः, सप्तम इन्द्रमूर्द्धाभिषक्तः, अष्टमः सौमनसः, नवमो धनञ्जयः दशमोऽर्थसिद्धः, एकादशोऽभिजातः, द्वादशोऽव्यसनः, त्रयोदशः शतञ्जयः, चतुर्दशोऽग्निवेश्म, पञ्चदश उपशमः / तथा चोक्तं जम्बूद्वीपप्रज्ञप्तौ-"एगमेगस्सणं भंते ! पक्खस्स कइ दिवसा पन्नत्ता? गोयमा ! पन्नरस दिवसा पन्नत्ता / तं जहा-पडिवादिवसे, विइयादिवसे० जाव पन्नरसीदिवसे। एएसिणं भंते ! पन्नरसण्हं दिवसाणं कइ नामधिज्जा पन्नत्ता? गोयमा !पण्णरस नामधेजा पण्णत्ता। तं जहा"पुव्वंगे 1 सिद्धमणो-रमे अ२ तत्तो मणोहरे चेव 3 / जसभढे य 4 जसहरे 5, छठे सव्यकामसमिद्धेय 6 // 1 // इंदमुद्धाभिसित्ते य 7, सोमणस पधणंजए य बोधव्वे / अत्था सिद्धे 10 अभिजाए 11, अव्वसणे 12 सयंजए चेव 13 / 2 / अग्गिवसे 14 उवसमे 15, दिवसाणं नामधिज्जाई।" (जं०७ वक्ष०) एकैकस्मिश्च पक्षे पञ्चदश रात्रयः / तद्यथा-प्रतिपत् रात्रिः,द्वितीयारात्रिः, यावत्पञ्चदशीरात्रिः / तासां च रात्रीणां क्रमेणामूनि नामानि / तद्यथा-प्रथमा उत्तमा, द्वितीया सुनक्षत्रा, तृतीया ऐलापत्या, चतुर्थी यशोधरा, पञ्चमी सौमनसा, षष्ठी श्रीसम्भूता, सप्तमी विजया, अष्टमी वैजयन्ती, नवमी जयन्ती,दशमी अपराजिता,एकादशी इच्छा,द्वादशी समाहारा, त्रयोदशी तेजाः,चतुर्दशी अतितेजाः, पञ्चदशी देवानन्दा / तथा चोक्तम्-''एगमेगस्स णं भंते ! पक्खस्स कइ राईओ पण्णत्ताओ? गोयमा ! पण्णरसराईओपण्णत्ताओ। तं जहा-पडिवाराई, वीयाराई-जाव पण्णरसीराई। एएसि णं भंते ! पण्णरसण्हं राईणं कइ नामधेजा पण्णत्ता? गोयमा ! पन्नरस नामधेजा पण्णत्ता। तं जहा"उत्तमा य सुनक्खत्ता, एलावच्चा जसोधरा। सोमणसा चेव तहा, सिरिसंभूया य बोधव्वा / / 1 / / विजया य वेजयंती. जयंति अपराजिया य इच्छा य। समाहारा चेव तहा, तेआ य तहाऽइतेया य॥२॥ देवाणंदा राई, रयणीए नामधिलाई।"(जं०७वक्ष०) एकैकस्मिश्च पक्षे पञ्चदश तिथयः / ताश्च द्विधा / तद्यथा-दिवसतिथयः, रात्रितिथयश्च। तत्र दिवसतिथीनाममूनि नामानि। तद्यथा-प्रथमा नन्दा, द्वितीया भद्रा, तृतीया जया, चतुर्थी तृच्छा, पञ्चमी पूर्णा / ततः पुनरपिषष्टी नन्दा, सप्तमी भद्रा,अष्टमी जया, नवमी तुच्छा, दशमी पूर्णा / ततः पुनरप्येकादशी नन्दा, द्वादशी भद्रा, त्रयोदशी जया, चतुर्दशी तुच्छा, पञ्चदशी पूर्णा / तथा चोक्तं चन्द्रप्रज्ञप्तौ- ''ता कहं ते तिहीओ आहिया ति वएजा? तत्थ खलु इमा दुविहा तिही पण्णत्ता / तं जहादिवसतिही, राइतिही य / ता कहते दिवसतिही आहिया ति वएज्जा? ता एगमेगस्स पक्खस्स पन्नरस दिवसतिही पण्णत्ता। तं जहा-"नंदे भद्दे जए तुच्छे, पुण्णे पक्खस्स पंचमी। पुणरवि नंदे भद्दे जए तुच्छे, पुण्णे पक्खस्स दस्समी।।१।। पुणरविनंदे भद्दे जए तुच्छे, पुण्णे पक्खस्स पण्णरसी। एवं तिगुणा तिगुणा, तिहीउ सव्वेसि दिवसाणं // 2 // " (च०प्र०१०पाहु०) यास्तु रात्रितिथयस्तासामेतानि नामानि / तद्यथा-प्रथमा उगवती, द्वितीया भोगवती, तृतीया यशोमती, चतुर्थी सर्वसिद्धा, पशमी शुभनामा / पुनरपि षष्ठी उग्रवती,सप्तमी भोगवती,
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy