________________ तिहि 2328 - अभिधानराजेन्द्रः - भाग 4 तिहि एकत्रिंशदिनानि, एकविंशत्युत्तरशतं चतुर्विशत्युत्तरशतभागानां दिनस्य (प्रथमभागे 'अभिवड्डिय' शब्दः 727 पृष्ठे द्रष्टव्या।) न चैतद्वालिशा जानते, केवलं चान्द्रो मासोऽस्ति, तदपेक्षया चिन्त्यमाने परिपूर्णत्रिंशत्तिथ्यात्मकत्वात् लोके व्यवहारपथं चरतीति। तिथिपरिमाणज्ञापनार्थमिदमुपक्रम्यते, तत्र तिथिरवरूपज्ञानार्थ यन्निमित्ता अहोरात्राः, यन्निमित्ताश्च तिथयस्तदेतत्प्ररूपयतिसूरस्स गमणमंडलविभागनिप्फाइया अहोरत्ता। चंदस्स हाणिवुड्डी-कएण निप्फञ्जए उ तिही। सूर्यस्याऽऽदित्यस्य गमनयोग्यानि यानि मण्डलानि तेषां प्रत्येकं यो विभागो, विशिष्टः समभागतया भाग इत्यर्थः / तेन निष्पादिता अहोरात्राः / किमुक्तं भवति?-एकैकस्मिन् मण्डले यावता कालेन मण्डलार्द्ध गमनेन पूरयति तावत् कालप्रमाणेनाहोरात्राः / / चन्द्रस्य चन्द्रमण्डलस्य पुनः हानिवृद्धिकृतेन कालपरिमाणेन निष्पद्यते तिथिः / अत्राय भावार्थ:-चन्द्रमण्डलस्य कृष्णपक्षे यावता कालेनैकै कः षोडशभागो द्वाषष्टिभाग-चतुष्टयप्रमाणो हानिमुपपद्यते, यावता च कालेन शुक्लपक्षे एकः षोडशभागः प्रागुक्तप्रमाणः परिवर्द्धते, तावत्कालप्रमाणास्तिथयः / एतावांश्वाहोरात्राणां तिथीनां च परस्पर कालविशेषःअहोरात्रो द्वाषष्टिभागपरिच्छिन्नो विधीयते / तस्य सत्का ये एकषष्टिभागाः, तावत्प्रमाणा विथिः / इहेदमुक्तम्-चन्द्रस्य वृद्धिहानिकृतेन निष्पद्यते तिथिः / तत्र शिष्याणामुपपादि संमोह:--कथं चन्द्रस्य शाश्वतिकतयोपवर्ण्यमानस्य, वृद्धिहानी घटे ते इति? ततः शिष्याणां संमोहमपनेतुकामो यथोक्तस्वरूपप्ररूपणार्थमाहचंदस्स नेव हाणी, न वि वुड्डी वा अवढिओ चंदो। सुक्किलभावस्स पुणो, दीसइ वुड्डी य हाणी य / / चन्द्रस्य चन्द्रमण्डलस्य स्वरूपतो नैव हानिर्नाऽपि वृद्धिः, कि त्ववस्थित एव सदा चन्द्रः, चन्द्राऽऽदिविमानानां शाश्वतिकत्वात्। यद्येवं कथं साक्षात् प्रत्यक्षत उपलभ्येते वृद्धिहानी? ततआह-(सुक्किलेत्यादि) शुक्लभावस्य शुक्लतायाः, दर्शनपथप्राप्तस्यैव कृता दृश्यते वृद्धिानिर्वा, न तु स्वरूपतश्चन्द्रमण्डलम्। किमत्र कारणम्? अत आहकिण्हं राहुविमाणं, हेट्ठा चउरंगुलं च चंदस्स। तेणोवड्डइचंदो, परिवड्डइ वा विनायव्वो।। इह द्विविधो राहुः / तद्यथा-पर्वराहुः, ध्रुवराहुश्च। तत्र यः पर्वराहु-स्तद्गता | चिन्ता क्षेत्रसमासटीकायां कृता / यस्तु ध्रुवराहुस्तस्य विमान कृष्ण, तच चन्द्रमण्डलस्याधस्तात् चतुरड्गुलमसंप्राप्तं सत् चारं चरति। तच कृष्णपक्षे आत्मीयेन पञ्चदशेन भागेन प्रतिदिवस मेकै कं भाग द्वाषष्टिभागीकृतस्य चन्द्रमण्डलस्य सत्का ये चत्वारो भागास्तावत् प्रमाणमातृणोति। शुक्लपक्षे च प्रतिदिवसं तावन्तमेकैकं भागमात्मीयेन | पञ्चदशेन (पञ्चदशेन) भागेनापसरत् प्रकटीकरोति। तेन कारणेन चन्द्रः कृष्णपक्षे अपवर्द्धत हीयते, शुक्लपक्षे परिवर्द्धत इति ज्ञातव्यः / किमुक्तं भवति?-तेन कारणेन चन्द्रमण्डलस्य वृद्धिहानी प्रतिभासेते, न तु ते / तात्त्विक्यौ स्त इति एतदेव स्पष्ट भावयति तं रययकुडुयसरिसप्पहस्स चंदस्स राइसुभगस्स। लोए तिहि त्ति निययं, भण्णइ हाणीऍ वुड्डीए।। यत एवं चन्द्रमण्डलस्य राहुविमानकृताऽऽवरणानावरणजनिते वृद्धिहानी, तत् तस्मात् कारणात् चन्द्रस्य रजतकुमुदपुष्पतुल्यप्रभस्य रात्रिसुभगस्य रजन्यामतिमनोहारितया प्रतिभासनशीलस्य, हानौ वृद्धी यथोदितस्वरूपायां, यथोदितभागप्रमाणायां च लोके तिथिरिति नियत निश्चितं भण्यते। सम्प्रति भागप्रमाणमेव निर्दिदिक्षुराहसोलसभागे काऊण उडुवई हायतेऽत्थ पन्नरसे। तत्तियमेत्ते भागे, पुणो वि परिवड्डई जोण्हे / / उडुपतिं चन्द्रमण्डलमित्यर्थः, षोडशभागोनं राहुदेवः कृत्वा बुद्ध्या परिकल्प्य, तथाजगत्स्वाभाव्यात् कृष्णपक्षे, अत्र एषु षोडशसु भागेषु मध्ये प्रतिदिवसमेकैकभागहानिकरणेन सकले कृष्णपक्षे पञ्चदश भागान् हापयति / ज्योत्स्न्ये ज्योत्स्नासमन्विते, शुक्लपक्षे इत्यर्थः, प्रतिदिवसमेकैकभागपरिवर्द्धनेन परिपूर्णपक्षेतावन्मात्रान्, पञ्चदशसंख्यानित्यर्थः / भागान,पुनरपि परिवर्द्धयति। इयमत्र भावना-इह चन्द्रविमान द्वाषष्टिसंख्यैर्भागः परिकल्प्यते, परिकल्प्य च तेषां भागानां पञ्चदशभिभर्भागो ह्रियते, हृते च भागे लब्धाश्वत्वारो द्वाषष्टिभागाः, शेषौ द्वौ भागी तिष्ठतः, तौ च सदाऽनावृतौ / एषा किलचन्द्रमसः षोडशीकलाप्रसिद्धिः / तत्र कृष्णपक्षे प्रतिपदि धुवराहुविमानं चन्द्रमण्डलस्याधो भागेन चतुरङलगसंप्राप्तं सत् चारं चरदात्मीयेन पञ्चदशेन भागेन द्वौ द्वाषष्टिभागी सदाऽनावरणस्वभावो मुक्त्वा शेषद्वाषष्टि सत्क भागाऽऽत्कस्य चन्द्रमण्डलस्य सत्कं चतुर्भागाऽऽत्मकं पञ्चदशभागमावृणोति। द्वितीयायामात्मीयाभ्यां(?) पञ्चदशभागानावृणोति / ततःशुक्लपक्षे प्रतिपदि पञ्चदशभागान् अनावृतान् करोति, तदा च सर्वाऽऽत्मना परिपूर्ण चन्द्रमण्डल लोके प्रकटं भवति। उक्तं च-"कइविहेणं भंते ! राहू पन्नते? गोयमा ! दुविहे राहू पन्नत्ते / तं जहा-धुवराहू य, पव्यराहू य। तत्थ णं जे से धुवराहू, सेणं बहुलस्स पक्खस्स पाडिवए पन्नरसतिभागेण पन्नरसभागं चंदलोगमावरमाणे आवरमाणे चिट्ठइ / तं जहा-पढमाए पढम भाग, विइयाए विइयं भागंजाव पन्नरसेसु पन्नरसं भागं / चरमसमए चंदे रत्ते भवइ, अवसेसे समए चंदे रत्ते वा विरत्ते वा भवइ, तं चेव सुझपक्खस्स उवदं सेमाणे उवदंसेमाणे चिट्ठा। तं जहा-पढमाए पढम भाग, विड्याए विइयभार्ग० जाव पन्नरसेसु पन्नरसं भाग।" इति। (भ० 12006 उ०) तत्रकालेण जेण हायइ, सोलसभागो य सा तिही होइ। तं चेव य वुड्डीए, एवं तिहिणो समुप्पत्ती।। यावता कालेन कृष्णपक्षे षोडशो भागो द्वाषष्टिभागः सचतुर्भागाऽऽत्मको हीयते हानिमुपगच्छति, स एतावान् कालविशेषस्तिथिर्भवति / तथा चैवं वृद्धयाऽपि तिथिर्भवति / किमुक्तं भवति?-यावता कालेन शुक्लपक्षे षोडशभाग प्रागुक्तक्रमेण परिवर्द्धते, तावत्प्रमाणः कालविशेष-- स्तिथिरिति अहोरात्रस्य द्वाषष्टिभागाः, तावत्प्रमाणा तिथिरित्यर्थः / एवंविधैर्भगवद्भिस्तीर्थकरगणधरैः समुत्पत्तिराख्याता। कियत्संख्याकास्तास्तिथय इति तत्सङ्घयानिरूपणार्थमुपप तिमाहजावइए परिहायइ, भागे बड्ड य आणुपुवीए।