SearchBrowseAboutContactDonate
Page Preview
Page 999
Loading...
Download File
Download File
Page Text
________________ गोयरचरिया 675 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया घरचिंतिय ति सव्वो घरसारो समप्पिओ" अथाक्षरार्थ:परिमितभक्तप्रदाने सति स्नेहादेर्मध्यादगारी स्तोकस्तोकमपहरति, प्राघूर्णकस्य च विकाले आगमनं, ततो गृहपतिर्विषण्णः, तया तस्याऽऽश्वासना कृता, ततः प्राघूर्णकस्य भक्तपानदानमकारि।। एवं पीईवुड्डी, विवरीयऽण्णेण होइ दिटुंतो। लोगुत्तरे विसेसो, असंचया जेण समणाओ॥ एवं क्रियमाणे तयोः सुहृदोः परस्परं प्रीतिवृद्धिरुपजायते, विपरीतश्चान्येन प्रकारेण दृष्टान्तो भवति / तत्र यदि परमितभक्तमध्यादगारी स्तोकस्तोकं नापहरति ततः सुहृदादेः प्राघूर्णकस्य स्नेहच्छेदो भवति, एवं यदि गृहस्था आगमनं चिन्तयन्ति, ततः कुक्षिशम्बलैः साधुभिः सुतरामनागतं चिन्तनीयम् / अपि चलाकोत्तरे येन असंचयाः श्रमणास्तेन कारणेन विशेषतः क्षेत्रं रक्षणीयम्॥ जणलावो परगामे, हिंडमाणेति वसहि इह गामे। देजह वालादीणं, कारणजाते य सुलभं तु॥ जनस्याऽऽत्मीयगृहेषुग्राममध्ये वा मिलितस्याऽऽलापः प्रवादो भवतिअमी साधवः परग्रामे हिण्डित्वा भिक्षामिहानयन्ति, ततः केवलं वसतिरेवेह ग्रामे अमीषाम्। एवं श्रुत्वा गृहपतय: स्वस्वमहेला आदिशन्तिये बालादयोऽत्र हिण्डन्ते, तेषामादरेण सविशेषं / प्रयच्छत एवंविधायां चिन्तायां, प्राघूर्णकादिकारणजातेच सुलभंतु, यदि देशकाले अदेशकाले वा हिण्डन्ते तदासुलभं भवति॥ पाहुणविसेसदाणे, णिजर कित्तीय इहर विवरीयं / पुट्विं चमढणसिग्गा, न देंति संतं पि कजेसु // प्राघूर्णकस्य विशेषेणाऽऽदरेण भक्तपाने दीयमाने परलोके निर्जरा, इहलोके च कीर्तिर्भवति / चशब्दात्प्रीतिवृद्धिः, परस्परोपकारिता च भवति / इतरथा प्राघूर्णकस्याक्रियमाणे एतदेव विपरीतं भवति, निर्जरादिकं न भवतीत्यर्थः / कथं पुनस्तद्दानं न भवतीत्याह-पूर्व चमढतया दिने 2 प्रविशद्भिः साधुभिः 'सिग्रानि' परिश्रान्तानि स्थापनाकुलानि सदपि गृहे विद्यमानमपि घृतादिकं द्रव्यं प्राघूर्णकादिकार्येषु उत्पन्नेषु न प्रयिच्छन्ति। एवं गुणदोषान् विज्ञाय क्षेत्रं प्रयत्नेन रक्षणीयमिति प्रक्रमः।। अयं चापरस्तद्गुणो भवतिदोरी इह दिट्टतो,गच्छे वायामों वहिं च पतिरिक्कं / केइ पुण तत्थ भुंजण, आणेमाणे भणिय दोसा / / बहिग्रामे भिक्षाटने क्रियमाणे प्राभृतं दुग्धदध्यादिकं प्रायोग्यं प्राप्यते। तथा चात्र वदरीदृष्टान्तो भवति / अपि च-गच्छे एषैव सामाचारी गणधरभणिता-यदहिग्रामे तरूणैर्भिक्षायामटनीयं, व्यायामश्च मोहचिकित्सानिमित्तं तैः कृतो भवति / तत्र बहिमि, चशब्दादिह वा परग्रामे 'पइरिक्क एकान्तं भवति मुत्कलमित्यर्थः। यद्वा (पतिरिकं ति) प्रचुरंभक्तपानंतत्रावाप्यते। केचित्पुनराचार्यदेशीया ब्रुवते-तत्रैव बहिामे भोजनं कर्तव्यं, यतो ये पूर्वमानयतो भारवेदनाऽऽदयो दोषा भणितास्ते एव परिहृता भवन्ति। (एतत्परमतमुत्तरत्र निराकरिष्ये) अथवदरीदृष्टान्तमाह गामब्भासे वदरी, नीसंद कडुप्फला य कुन्जाय। पक्कामालसचेडा,खायंतियरे गता दूरं। सिग्घयरं ते आगा, तेसिऽण्हेसिं च दिति सयमेव / खायंति एव इह इ, आयपरसुहावहा तरुणा / / कस्याऽपि ग्रामस्याभ्यासे प्रत्यासत्तौ वदरी, सा ग्रामनिस्यन्दपानीयेन संवर्द्धिता, ततः कटुकफला सुवृत्ता। अन्यच्च-सा स्वभावत एव कुब्जा, तेन सुखारोही, तस्यां च कानिचित् फलानि पक्कानि, कानिचित्कटुकानि। अथवा (पक्कमेति) मन्दपक्कानि, तत्र ये अलसाश्चेटका बालका:,ते तां वदरी सुखारोहमारुह्य कटुकान्यपि वदराणि भक्षयन्ति, तान्यपि स्वल्यतया न पर्याप्तानि भवन्ति, इतरे नाम अनलसा उत्साहवन्तश्चेटका बालकाः, ते दूरमटवीं गताः तत्र महावदरीवनेषु परिपक्वानि वदराणि यथेच्छं खादन्तिाततो याक्त्ते अलसास्तस्यां कटुकवदर्या क्लिश्यमाना आसते, तावत्ते दूरगामिनो बालका आत्मन: पर्याप्तं कृत्वा वदरीपोट्टलकभाराऽऽक्रान्ता: शीघ्रतरमागताः, तेषामलसानामन्येषां च गृहे स्थितानां स्वजनानां वदराणि पर्याप्त्या ददति, स्वयमेव च भक्षयन्ति। एवमिहापि गच्छवासे तरुणा भिक्षयो वीर्यसंपन्ना उत्साहवन्तो बहिर्गामे हिण्डमाना आत्मनः परेषां च बालवृद्धादीनां सुखावहा भवन्ति। कथम्? इतिचेत,उच्यतेखीरदहिमादियाण य, लम्भो सिग्धतर पढम पइरिके। उम्गमदोसा विजढा, भवंति अणुकंपिया वितरे।। यथा ते अलसाश्चेटकास्तथा बालवृद्धादयोऽपि कटुवदरीकल्पे तस्मिन् मूलग्रामे प्रत्यहमुद्वेज्यमानतया चिरमपि हिण्डमाना: कोद्रवकूरादिकमेव लभन्ते, तदपि न पर्याप्त, ये तु तरुणा बहिर्गामे गच्छन्ति, ते अनलसचेटककल्पाः, ततः क्षीरदध्यादीनां प्रायोग्यद्रव्याणां लाभस्तेषां बहिर्गामे भवति, शीघ्रतरं च ते स्वग्रामे आगच्छन्ति, (पढम त्ति) प्रथमालिकां च स्वयं कुर्वन्ति, बालादिभ्य: प्रथमतरं वा समागछन्ति (पइरिकं ति) प्रचुरभक्तपानमुत्पादयन्ति, उद्गमदोषाश्च 'विजढा' परित्यक्ता भवन्ति, इतरे च बालाऽऽदयो अनुकम्पिता भवन्ति। अमुमेवार्थ सविशेषमाहएवं उग्गमदोसा, विजढ पइरिक्कया अणोमाणं। मोहतिगिच्छा य कता, विरियायारो य अणुचिण्णो / / एवं बहिमिं गच्छद्भिस्तैरुद्रमदोषा आधाकर्मादयः परित्यक्ता भवन्ति, (पइरिक्कय त्ति) प्रचुरस्य भक्तपानस्य लाभो भवति, अनपमानत्वं पक्षापमानेन भवति / मोहचिकित्सा च परिश्रमाऽऽतपोवैयावृत्यादिभिर्मोहस्य निग्रहात्कृतो भवति। वीर्याचारश्चानुचीर्णोऽनुष्ठितो भवति। अथ पर: प्राहउग्घायतो परेणं, उवातिणं तम्मि पुटव जे भणिता। मारादीया दोसा, तचेव इहं तु सविसेसा / / ननुशोभनमिदं यदधयोजनंगम्यते, किन्तु तेषां भरितभाराणामाचार्यसकाशमागच्छतां ये पूर्वमुद्धातात्परेणामिकामयति भारादयो दोषा भणितास्त एवेह सविशेषा भवन्ति।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy