SearchBrowseAboutContactDonate
Page Preview
Page 1000
Loading...
Download File
Download File
Page Text
________________ गोयरचरिया 976 - अमिधानराजेन्द्रः - भाग 3 गोयरचरिया ततः किं कर्तव्यमित्याहतम्हा च ण गंतव्वे, तहिं भोत्तव्वं ण वा वि भोत्तव्वं / इतरा मे ते दोसा, इति उदिते चोदगं भणति॥ तस्मादाचार्यसमीपे भक्तापानेन गृहीतेन नगन्तव्यं, किन्तु तत्रैव बर्हिग्रामे भोक्तव्यम्, एवं भाराऽऽदयोदोषा: परिहृता भवन्ति। (न वा वि भोत्तव्वं त्ति) वाशब्द: पक्षान्तरद्योतकः। अथ भवतो भणिष्यन्ति-नैव बहिामे भोक्तव्यं तत एवम्। इतरथा (भे) भवतां एव भारादयो दोषाः परिहृताः। एवमुदिते भणिते सति सुरिर्नोदकं भणति-यदि तत्र समुद्विशन्ति ततो मासलघु, भवतोऽप्येवं भणितो मासलघु, तैश्च तत्र प्रायोग्य समुद्दिशद्भिचार्यादय: परित्यक्ता:, तेषां प्रायोग्यमन्तरेण परितापनादिसंभवात्। आह-किमित्याचार्यमन्तरेण न सिद्ध्यति यदेवं तदर्थ प्रायोग्यमानीयते? इत्याहजइ एयविप्पहूणा, तवनियमगुणा भवे निरवसेसा। आहारमाइयाणं, को नाम कह पि कुवेज्जा ?|| यद्यतेनाऽऽचार्येण विप्रहीणाः, एनमन्तरेणेत्यर्थः / तपोनियमगुणा निरवशेषा भवेयुः,तत आचार्यप्रायोग्यानामाहारादीनामन्वेषणे को नाम कथामपि कुर्वीत? न कश्चित्। इदमत्र हृदयम सर्वोऽपि तपोनियमादिकः प्रयासोऽस्माकं संसारनिस्तरणार्थ, ते च तप:प्रभृतयो गुणा गुरूपदेशमन्तरेण न सम्यगगम्यन्ते, नवा निरवशेषा अपि यथावदनुगन्तुं शक्यन्ते, अतः संसारनिस्तरणार्थमाचार्याणां प्रायोग्यनयनादि कर्त्तव्यमेव वैयावृत्यमिति। अपि चजति ताव लोइयगुरू, से लहुय सागारिय पुढविमादी। आणयणे परिहरिया, पठमा आपुच्छ जतणाए। यदि तावल्लौकिकोऽपि यो गुरुः पिता ज्येष्ठबन्धुर्वा कुटुम्बं धारयति तस्मिन्नभुक्तेन भुञ्जते, यचोत्कृष्टं शाल्योदनादिकं तत्तस्य प्रयच्छन्ति, ततः किं पुनर्यस्य प्रभावेन संसारो निस्तीर्यतेतस्य प्रायोग्यमदत्त्वा एवमेव भुज्यते। यस्तु भुङ्क्ते, तस्य मासलघु। वसतेरभावात्तत्र भुञ्जानान् सागारिको यदि पश्यति तदा चतुर्लघु, आज्ञादयश्च दोषाः / अस्थण्डिले च समुद्दिशतां पृथिव्यादिविराधना, आनयने तु सर्वेऽप्येते दोषा: परिहता भवन्ति, अतो गुरुसमीपमानेतव्याः। द्वितीयपदे प्रथमालिका कुर्वन्तो गृरुमापृच्छय गच्छन्ति / यतनया च यथा संसृष्टं न भवति तथा प्रथमालिका कर्त्तव्या॥ चोदगवयणं अप्पा-ऽणुकंपिओ ते य भेय परिचत्ता। आयरिए अणुकंपा, परलोए इह पंससणया। नोदकवचनं नाम-पर: प्रेरयति-यावत्ते ततोग्रामात्प्रत्यागच्छन्ति तावत् तृषाक्षुधाक्लान्ता अतीव परिताप्यन्ते, एवं प्रस्थापयद्भिर्भवद्भिरात्मा अनुकम्पितः, ते च साधवः परित्यक्ता भवन्ति / गुरुराह-ननु मुग्ध ! त एवानुकम्पिताः / कथमित्याह-(आयरिए इत्यादि) ते यदाचार्यवैयावृत्यनियुक्ताः, एषा पारलौकिकी तेषामनुकम्पा, इहलोकेऽपि ते अनुकम्पिता:, यतो बहुभ्य: साधुसाध्वीजनेभ्य: प्रशंसामासादयन्ति। पर: प्राह एवं पि परिचत्ता, काले खमए असहुपुरिसे य। काले गिम्हे उ भवे, खमओ वा पढमवितिएहिं / / यतस्ते बुभुक्षितृषिता भाराक्रान्ता: शीतलवातातपैरभिहता: पन्थानं बहन्ति यूयं तु शीतलच्छायायां तिष्ठत, एवमपितेपरित्यक्ता:। सूरिराहतेषामपि कालं क्षपकमसहिष्णुपुरुषं च प्रतीत्य प्रथमालिकाकरणमनुज्ञातम्, तत्र कालो नमिलक्षणस्तस्मिन् प्रथमालिका कृत्वा पानकं पिवन्ति, क्षपको वा प्रथमद्वितीयपरीषहाभ्यामतीव बाधितःप्रथमालिका कुर्यात्। अत्र पर: प्राहजइएवं संसहूं, अप्पत्ते दोसियाइणं गहणं। लंवण भिक्खा दुविहा, जहण्णमुक्कोस तिय पणए। यद्येवमासौ बहिरेव प्रथमालिकां करोति ततो भक्तः संसृष्टो भवति, संसृष्टे च गुर्वादीनां दीयमानेऽभक्तिः कृता भवति? गुरुराह-अप्राप्ते देशकाले दोषात्तादेहणं कृत्वा येषु वा कुलेषु प्रभाते चालाभे पर्यटन्त: प्रथमालिकां कुर्वन्ति, भोजनस्य च कल्पं कुर्वन्ति। प्रथमालिकाप्रमाणं च द्विधा-लम्बनतो, भिक्षातश्च। तत्र जघन्येन त्रयो लम्बाना कवला:, तिसश्च भिक्षा:, उत्कर्षत: पञ्च लम्बना: पञ्च वा भिक्षाः / शेषं सर्वमपि मध्यमप्रमाणम्। अथ तैः कुत्र किं ग्रहीतव्यमिति निरूपयतिएगत्थ होइ भत्तं, वितियम्मि पडिग्गहे दवं होति। गुरुमादी पाउग्गं, भत्तं विइए उ संसत्तं / / साधुदयस्य द्वौ प्रतिग्रहौ,द्वौ च मात्रको भवतः, तत्रैकस्मिन् प्रतिग्रहे भक्तं प्रतिग्रहीतव्यं,द्वितीये द्रवं पानकं भवति / तथैकस्मिन् मात्रके आचार्यादीनां प्रायोग्यं गृहाते, द्वितीये तु ससक्तं भक्तं वा पानकं वा प्रत्यपेक्षतो यदि शुद्धः ततः प्रतिगृहे प्रक्षिप्यते। जति रिक्को तो दवम-त्तगम्मि पढमालियाऐं गहणं तु / संसत्तगहण दवदुल्लभे य तत्थेव जं पंता / / यदि रिक्तोऽसौ द्रवमात्रकः, ततः तत्र प्रथमालिकाया ग्रहणं वक्तव्यम, एवं संसृष्टं न भवति। अथवा-तस्मिन्द्रवमात्रके संसक्तंद्रवंगृहीतं, द्रवं वा तत्र क्षेत्रे दुर्लभ, ततस्तत्रैव भक्तप्रतिग्रहे यत्प्रान्तं, तदेकेन हस्तेनाकृष्यान्यस्मिन् हस्ते कृत्या समुद्दिशति ,एवं संसृष्टं न भवति। विइयपयं तत्थेव, सेसं अहवा वि होज्ज सव्वं पि। तम्हा तं गंतव्वं,संसह जति वितहवि सुद्धो / द्वितीयपदमत्रोच्यते-अतीव बुभुक्षितास्तत्रैवात्मन: सविभागं भुञ्जते, शेषं सर्वमप्यानयन्ति। अथवा-तत्रैव सर्वमात्मपरमं भागं भुञ्जते, यत एष एवंविधो विधिस्तस्माद्विधिना गन्तव्यम्, विधिना आनेतव्यं, विधिना वा तत्रैव भोक्तव्यम् / एवं सर्वत्र विधिं कुर्वन् यद्यपि दोषैः स्पृष्टो भवति तथाऽपि शुद्धः। कथं पुनः सर्वं वा भिक्षाचर्यागतेन भोक्तव्यमित्याहअंतरपल्लीगहितं, पढमागहियं य मुंजए सव्वं / संखडिघुवलंभेवा, जंगहियं दोसिणं वा वि। यदन्तरपल्लिकायां गृहीतं, प्रथमपौरुषीगृहीतं वा, तत्सर्वमपि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy