SearchBrowseAboutContactDonate
Page Preview
Page 998
Loading...
Download File
Download File
Page Text
________________ गोयरचरिया 674 - अभिधानराजेन्द्रः- भाग 3 गोयरचरिया अमूनितानि वक्ष्यमाणकारणानिसज्झायलेवसीव्वण-भायणपरिकम्मसट्टरादीहिं। सहस अणाभोगेण व, उवादियं होज जा चरिमा।। स्वाध्याये अतीवोपयोगाद्विस्मृतम्, एवं लेपपरिकर्मणं कुर्वतो, वस्त्रंवा सीवतो, भाजनं वा परिकर्मयतो, देशकथादिकं वा सट्टरमालजालं कुर्वतः, आदिशब्द: सट्टरस्यानेकभेदसूचकः / एतेषु यदन्त्यं पठ्यग्रत्वं सहसाकारः, अनाभोगाऽत्यन्तविस्मृतिः। एवं सहसाकारणाना-भोगेन वा चरमां चतुर्थी यावदतिक्रमितं भवति। आहचुवाइणाविय, विगिचण परिण्णऽसंथरंतम्मि। अन्नस्स गेण्हणं मुं-जणं च असतीऍ तस्सेव।। एतैः कारणैराहत्य कदाचिदतिक्रामितं भवेत्ततो विगिध्य परित्यज्य परिज्ञा दिवसचरमं प्रत्याख्यानं कर्तव्यम्। अथन संस्तरति, ततः काले पूर्यमाणे अन्नस्याशनादेहणं भोजनं च कर्तव्यम्। अथ कालोन पूर्यत, न वा तदानीं पर्याप्तं लभ्यते, ततो यतनया, यथा-अगीतार्थाः तदेववेदमशनादिकमिति न जानन्ति, तथा तस्यैव परिभोगः कर्तव्यः। विइयपएण गिलाणस्स कारणा अधव वातिणे ओमे। अद्धाण पविसमाणो, मज्झे अहवा वि उत्तिण्णे / / द्वितीयपदे ग्लानस्य कारणात्प्रायोग्यं भक्तादिकमतिरिक्तमपि कालं धारयेत्, ग्लानकृत्ये वा तावद् व्यापृतः यावच्चरमपौरुषी, अथवा अवमे पर्यटने एव चतुर्थी संजाता, अध्वनि वा प्रविशन् सार्थवशगोऽतिक्रमयेत् / एवमध्वनोमध्ये वर्तमानः, ततो वा उत्तीर्णोऽसंस्तरन्नातिक्रमयेत्भुञ्जीत वा, न कश्चिद्दोषः / व्याख्यातं कालातिक्रान्तसूत्रम्। अथ क्षेत्रातिक्रान्तसूत्रंव्याख्यानयतिपरमद्धजोयणाओ, उजाणपरेण चउ गुरू होति। आणादिणो य दोसा, विराहणा संजमाताए। अर्धयोजनं द्विगव्यूतं, ततः परमशनादिकमतिक्रमयतश्चतुर्गुरुका: स्युः / अग्रोद्यानादपि परेणातिक्रमयतश्चतुर्गुरुका:, आज्ञादयश्च दोषा:, संयमात्मनश्च विराधना।। तामेवाहभारेण वेदणाए, ण पेहती खाणुमादि अभिघाओ। इरिया पगलिय तेणग, भायणभेदो य छक्काया || भारेणाऽऽक्रान्तो वेदनाऽभिभूतः स्थाणुकण्टकादीनि न प्रेक्षते तैः कीलकादिभिर्वा अभिहन्यते। अथवा-(अभिघाओ त्ति) वटशाखादिना शिरसि घट्यते, ईर्या वा न शोधयति, दूरनयनेन च भक्तपाने पतिते पृथिव्यादिविराधना, स्तेनैर्वा स समुद्देशो ह्रियेत, क्षुधापिपासाऽऽर्तस्य वा क्षीणपलस्य भाजनभेदो भवेत्। तत्र षट्कायविराधना, आत्मन: परस्य च, तेन विना परिहाणिः। पर: प्राहउजाणआरएणं, तर्हि किं ते ण जायते दोसा? परिहरिया ते होजा, जंति वितहिं खेत्तमावज्जे / / उद्यानादारतो ग्रामादेरानीयमाने भक्तपाने किं ते दोषा न जायन्ते, यदेवमुद्यानात्परत इत्याभिधीयते? सूरिराह-ते दोषास्तीर्थकरवचनप्रामाण्येन परिहृता भवन्ति, तथाऽप्यननुज्ञातक्षेत्रे तान् | दोषानापद्यन्ते। पुनरपि पर: प्रेरयतिएवं सुत्तं अफलं, सुत्तनिवातो इमो तु जिणकप्पो। गच्छम्मि अद्धजोयण, केसिंची कारणे तं पि॥ ननु यद्युद्यानात् परतो नातिक्रामयितव्यं, ततो यत् “परमद्धजोयणे मेराउ ति" सूत्रं भणितं, तदफलं प्राप्नोति / आचार्यः प्राहयदग्रोद्यानात्परतो नातिक्रमयितव्यमित्युच्यते स एष सूत्रार्थनिपातो जिनकल्पिकविषयो मन्तव्यः / यत्पुनरर्द्धयोजनात् परत इत्यादि सूत्रं, तद्गच्छवासिविषयम् / केषाश्चिदाचार्याणा-मयमभिप्राय:- यथा गच्छवासिभिव्युत्सर्गत उद्यानात्परतो नातिक्रामणीयम्, कारणात्तु तदप्यर्द्धयोजनं नेतव्यम् / एवमापन्नादिकं सूत्रम्-यथा "केसिंचि कारणे तं पित्ति" / अन्यथा व्याख्यायते-केषाञ्चिदाचार्यबालवृद्धादीनां कारणे तदप्यर्धयोजनं गम्यते। इदमेव भावयतिसखेत्ते जहण लब्मति, भत्तो दूरे वि कारणे जतति। गिहिणो वि चिंतमाणा-ऽऽगतम्मि गच्छे किमंग ! पुण ?|| स्वक्षेत्रे स्वग्रामे यदा न लभते तदा दूरेऽप्याचार्यादीनां कारणे भक्तपानग्रहणार्थं यतते, अर्द्धयोजनमपि गच्छतीति भावः / अपि चयद्यपि स्वग्रामे प्राचुर्येण लभ्यते, तथाऽप्युत्सर्गत स्तत्र न हिण्डनीयम्। कुतः? इत्याह-यदि तावद् गृहिणोऽपि क्रयविक्रय-सम्प्रयुक्ता अनागतं प्राघूर्णकाद्यर्थं घृतगुडलवणातन्दुलादीनां चिन्तां कुर्वन्ति, किमङ्ग ! पुनर्गच्छे सबालवृद्धे, येषां क्रयविक्रयः, संचयश्च नास्ति, तैः प्राघुर्णकाद्यर्थमनागतं न चिन्तनीयम् ? ततःसंघाडेगे ठवणा-कुलेसु सेसेसु वालवुड्डादी। तरुणा वाहिरगामे, पुच्छा दिटुंतऽगारीए॥ स्वग्रामे यानि दानश्रद्धादीनि स्थापनाकुलानि, तेषु गुरूणां संघाटक एकः प्रविशति, यानि स्वग्रामे शेषाणि कुलानि, तेषु बालवृद्धासहिष्णुप्रभृतयो हिण्डन्ते, ये तुतरुणास्तेबहिग्राम पर्यटन्ति। शिष्य: पृच्छतिकिमादरेण क्षेत्रं प्रत्यपेक्षा रक्षते? गुरुराह-अगार्या दृष्टान्तोऽत्र क्रियतेपरिमियभत्तपदाणे, णेहादवहरति थोव थोवं तु। पाहुण वियाल आगत, विसण्ण आसासणा दाणं॥ "एगो किविणवणिओ, अगारीए अविस्ससंतो तंदुलघतलवणकट्ठभंडादियं दिवसपरिचायपरिमितं देति, आवणतो घरे ण किंचि तंदुला धारेति। अगारीए चिंता-जदि एयरस अडभरहितो, मित्तो वा, अन्नो वा पदोसादिअवेलाए आगितिस्सति,तो किंदाह? तओअप्पाणो वुद्धिपुव्वगेण वणियस्स अजाणतो णेहतंदुलादियाणं थोक्थोवं फेडिति / कालेण बहु संपण्णं। अन्नया तस्स मित्तो पदोसकाले आगतो, आवणं आरक्खियभया गंतुं न सकति, वणियस्स चिंता जाया, विसन्नो, कहमेतस्स भत्तं दाहाभीति? अगारी वणियस्स मणोगतं भावं जाणित्ता भणतिमा विसाद करेहि, सव्वं से करेमि / तीए अभंगादिणा व्हावउएं विसिट्ठमाहारं भुजाविओ, तुह्रो मित्तो पभाए पुणो जेमेउ गतो। वणिओ वि तुह्रो भारियं भणइ-अहंतेपरिमियं देमि, कति? तीएसव्वं कहियं। तुट्टेण वाणिएण सा.
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy