SearchBrowseAboutContactDonate
Page Preview
Page 997
Loading...
Download File
Download File
Page Text
________________ गोयरचरिया 673 - अभिघानराजेन्द्रः - भाग 3 गोयरचरिया त्याख्यातः, आत्मार्थिका वा ते, तत इतरदविनाशि द्रव्यं भुञ्जते। अमुमेवार्थं व्याचष्टेजइ पोरसिं पवन्ना, गति तो सेसागाण ण विसज्जे / अगताऽजिण्णे वा, धरति ते मत्तगादीसुं। यदि पौरुषीप्रत्याख्यानवन्तस्तद् द्रव्यं सर्वमपि गमयन्ति निर्वाहयितुं शक्नुवन्ति, ततः शेषाणां पूर्वार्द्धप्रत्याख्यानिनां न विसर्जयेयुर्न दधुः / अथ ते सर्वमपिन गमयन्ति, ततः पूर्वार्द्धप्रत्याख्यानिनामपि दीयते अथ तेषामप्यजीर्ण, ततो मात्रकादिके धारयन्ति। अथवा अमुना कारणेन धारयेत्तं काउ कोइ न तरइ, गिलाणमाईण दाउमबुण्हे। नाउं व बहुं वियरइ, जहासमाहिं चरिमवजं // तदशनादिकं कृत्वा भुक्त्वा कशिचत् ग्लानादीनां प्रायोग्यमादाय दातुमत्युष्णे अतीवाऽऽतपेचटितेन शक्रोति,एतेन कारणेनधारयेत्। यदा-बहु प्रभूतं भैक्षं लब्धं ततो न परिष्ठापयितव्यं भवेदिति ज्ञात्वा गुरवोऽशनादेर्धारणं वितरन्ति, अनुजानन्तीत्यर्थः। (जहासमाहि ति) प्रथमपौरुष्यां लब्धं परमथाप्यजीर्ण , ततो यावजीर्यते तावत् धारयेदपि, एवं यथा यथा समाधिर्भवति तथा तथा ?भुञ्जीत, परं चरमवर्ज चतुर्थी पौरुषी नातिक्रमयेदिति भावः। तत्रावधार्यमाणा इयं यतनासंसजिमेसु छुब्मइ, गुलाइ लेवामें इयरे लोणइं। जं च गमिस्संति पुणो, एमेव य भुत्तसेसे वि।। (संसजिमेसु) संसक्तियोग्येषु लेपकृतेषु गोरसादिद्रव्येषु गुडादिकं प्रक्षिप्यते येन न संसज्यते, इतरत्रामत्रे लेपकृतं, तद्यपि स संक्तियोग्य, तदा लवणादिकं प्रक्षिपेत्, न गुड,यच प्रथमपौरुष्यां द्वितीयपौरुष्यां वा भुक्त्वा पुनर्गमिष्यन्ति, कियतीमपि वेलांप्रतीक्ष्य भूयो भोक्ष्यन्त इत्यर्थः। तत्रापि भुक्तशेषे धार्यमाणे एष एव गुडादिप्रक्षेपणरूपो विधिर्भवति। चोएइ धरिजंते, जइ दोसा गिण्हमाणि किं न भवे ? उस्सग्ग वीसमंते, उन्मामादी तु उदिक्खंते॥ नोदयति प्रेरयति-प्रागेव यद्येवं भक्तपाने धार्यमाणे दोषाः, ततो भक्तादौ गृह्यमाणे किमिति श्वानगवादयो दोषा न भवन्ति ? भवन्त्येव / तथा कायोत्सर्ग कुर्वतोऽपि त एव बहुपरितापनादयश्च दोषाः / एवं विश्राम्यतोऽपि त एव दोषाः / उद्भ्रामकभिक्षाचर्या ये गतास्तदादीनपि (उदिक्खंते ति) प्रतीक्षमाणस्य त एव दोषा:? पर एवं प्राहएवं अवातदंसी, थूले वि कहंण पासह अवाए? हंदी णिरंतरोऽयं, भरिता लोगो अवायाणं // यद्येवं यूयमपायदर्शिन: सूक्ष्मानपायानपि प्रेक्षध्वे, ततः स्थूलानपि भिक्षाचादिविषयानपायान् कथं न पश्यथ? 'हदि' इत्युपदर्शने, पश्यन्तु भवन्तः-यदेवं निरन्तरोऽप्ययं लोकोऽपायानां भृतः। कथमिति चेत्? उच्यतेमिक्खादिवियारगते, दोसा पडिणीयसाणमादीया। उप्पज्जंते जम्हा, ण हुलब्मा हिंडितुं तम्हा।। भिक्षाविचारादौ गतानां प्रत्यनीक श्वानगवादयो बहवो दोषा यस्मादुत्पद्यन्ते तस्मान्न हि नैव साधुना हिण्डितुं लभ्यम्। अहवा आहारादी, णेव णिययं हवंति घेत्तवा। णेवाऽऽहारेयव्वा, तो दोसा वजिया होति॥ अथवा-आहारादयो नियतं सर्वदा न गृहीतव्या भवन्ति, किन्तु चतुर्थषष्ठादिकं कृत्वा सर्वथैवाऽशक्तेनाऽऽहारो ग्राह्यः / यद्वा-नैव कदाचिदप्याहारयितव्यम्, एवं दोषा अपाया: सर्वेऽपि वर्जिता भवन्ति। एवं परेणोक्ते सूरिराहभण्णति सज्झमसज्झं, कजं सज्झं तु साहए मतिमं / अविसज्झं साधेतो, केलिस्सतिण तं च साधेति / / भण्यते अत्र प्रतिवचनम्-कार्य द्विविधम्-साध्यमसाध्यं च, तत्र मतिमान् साध्यमेव कार्य साधयति, नासाध्यं, तुशब्द एवकारार्थः। यस्तु युष्मादृशोऽविसाध्यं साधयति, स केवलं क्लिश्यति; न च तत्कार्य साधयति / यथा मृत्पिण्डेन पटादिसाधनाय प्रवर्तमानः पुरुष इति असाध्यं चात्र भिक्षाचर्यादावपर्यटनम्। कुतइति चेत्?उच्यतेजति एयविप्पहूणा, न च णियमगुणा भवे निरवसेसा। आहारमादियाणं, को नाम कहं पि कुम्वेज्जा ? यद्येतैराहारदिभिर्विविधं प्रकर्षेण हीना रहितास्तपोनियमगुणा निरवशेषा भवेयुः, तत आहारादीनां को नाम कथामपि कुर्यात्? अत आहारग्रहणार्थ भिक्षामटनीयमिति प्रक्रमः, एतेन ''अहवा आहारादि' इत्याद्यपि प्रत्युक्तं द्रष्टव्यम्। इदमेव सविशेषमाहमोक्खपसाहणहेऊ,णाणातीतप्पसाहणो देहो। देहट्ठा आहारो, तेण तु कालो अणुण्णातो॥ इह मोक्षप्रसाधनहेतवो ज्ञानादीनि ज्ञानदर्शनचारित्राणि, तेषां च प्रसाधनो देहा भवति, अतो देहार्थमाहार इष्यते, स च काले गृह्यमाणो धार्यमाणश्चारित्रस्यानुपधातको भवति, तेन कारणेन कालोऽनुज्ञातः / कथमित्याहकाले अ अणुण्णाए, जति वि हु लग्गेज तेहि दोसेहिं / सुद्धो उवादिणंतो, लगते उ विवजऐं परेणं / / आद्यप्रहरत्रयलक्षणो द्वितीयादिपौरुषीत्रयात्मको वा कालो भक्तपानादेर्धारिण अनुज्ञातः, एवंविधे अनुज्ञाते काले यद्यपि तैः पूर्वक्तैर्दोषैर्लग्येत स्पृशेत्, तथापि शुद्धः / अनुज्ञातकालात्परेणातिक्रामयन् विपर्यय:, अविद्यमानेष्वपि दोषेषु स प्रायश्चित्तो मन्तव्यः। पढमाए घेत्तूणं, पच्छिमपोरिसि उवादिणति जो तु। ते चेव तत्थ दोसा, वितियाए जे भणिऍ पुव्दिं / / प्रथमायां पौरुष्यां गृहीत्वा पश्चिमां पौरुषी योऽतिक्रामयति, तत्र ते दोषाः, ये पूर्व प्रथमायां गृहीत्वा द्वितीयामतिक्रामयतो जिनकल्पिकस्य भणिता:।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy