________________ गोयरचरिया 672 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया अस्य सूत्रद्वयस्य संबन्धमाहभावस्स उ अतियारो, मा होज्ज इती तु पत्थुते सुत्ते। कालस्स य खेत्तस्स य, दुवे उ सुत्ता अतीयारो॥ भावस्य ब्रह्मव्रतस्य परिणामस्यातिचार: अतिक्रमो मा भूदित्यनन्तरप्रस्तुते सूत्रे प्रतिपादिते।अथकालस्य च क्षेत्रस्य चातिचारोऽतिक्रमो मा भूदिति द्वे सूत्रे प्रारभ्यते / अनेन संबन्धेऽऽयातस्यास्य सूत्रद्वयस्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निग्रन्थीनां वा अशनं वा पानं वा खादिमं स्वादिमं वा प्रथमायां पौरुष्यां प्रतिगृह्य पश्चिमां पौरुषीं (उवाइणावित्तए ति) उपानाययितुं संप्रापयितुमिति (नेव आहच) कदाचिदुपानाययितुं स्यात्, ततस्तदशनादिकं स्वयं नो भुञ्जीत, नवा अन्येषां साधूनामनुप्रदद्यात्; किं पुतस्तर्हि विधेयमित्याह-एकान्ते बहुप्राशुके स्थण्डिले प्रत्यवेक्ष्य चक्षुषा प्रमृज्य रजोहरणेनपरिष्ठापयितव्यं स्यात्, तदाऽऽत्मना भुजानोऽन्येषां वा ददान आपद्यते चातुर्मासिकं परिहारस्थानमुद्धातिकम् / एवं क्षेत्रातिक्रान्तसूत्रमपि वक्तव्यं, नवरमर्द्धयेजनलक्षणाया मर्यादाया अतिक्रामयितुमशनादिकं न कल्पते स्यात्तदुपानायितं भवेत्ततो य: स्वयं पद्भङ्क्ते अन्येषां वा ददाति, तस्य चतुर्लधुकमिति सूत्रद्वयार्थः॥ अथ नियुक्तिविस्तर:वितियाउ पढम पुट्विं, उवातिणे चउगुरुंच आणादी। दोसा संचएँ संस-त्त दीह साणो य गोणी य॥१॥ अगणिगिलाणुत्तारे, अब्मुट्ठाणे य पाहुणणिरोधे / सज्झायविणयकाइय, पयलंतपलोट्टणे पाणा।।२।। आस्तां तावत् पश्चिमा चतुर्थी पौरुषी, किन्तु द्वितीयया: पौरुष्याः प्रथमाऽपि पूर्वी भण्यते। प्रथमायाश्च द्वितीया पाश्चात्या, एवं तृतीयाया द्वितीया पूर्वा, द्वितीयाया: पाश्चात्या चतुस्तृितीया पूर्वा, तृतीयस्याः चतुर्थी पश्चिमा // ततः प्रथमायाः पौरुष्या द्वितीयायामशनादिकमतिक्रामयतश्चतुर्गुरुका:, आज्ञादयश्च दोषाः, तथा संचयो भवति, चिरं वाऽवतिष्ठमानंतदशनादिकं प्राणिभिः संशक्तं भवति, दीर्घजातीयो वाश्वा वा समागच्छेत्, तत: स द्रवभाजनव्यग्रहस्त उत्थातुमशक्नुवन्ताभ्यां खाद्येत, गौलीवर्दस्तेन वा आहन्येत्, अत्राऽऽत्मविराधनानिप्पन चतुर्गुरु, तद्भयेन वा इतस्ततः स्पन्दमानो भाजनं भिन्द्यात् तत्र चतुर्लघु, तेन विनयपरिहाणिस्तन्निष्पन्नम्,अर्थतेषां भयान्निक्षिपति ततश्चतुर्लघु (अगिणि त्ति) अग्नावुत्थिते भारव्यापृतत्वेनाऽनिर्गच्छन् दह्येत, तत्प्रतिबन्धेन वा उपधेर्दाही भवेत्, तत उपधिनिष्पन्नं प्रायश्चित्तं, ग्लानस्य वैयावृत्यमुद्वर्तनादिकं भारव्याप्तो न करोति, अक्रियमाणे परितापनादिकं स प्राप्नुयात्, तन्निष्पन्नं चतुर्लघुकादि पाराञ्चिकान्तम्, ग्रन्थिं निक्षिप्य करोति ततो मासलघु, तेन गृहीतेन तावुत्सृजति प्रचलायमानस्य वा भोजनं भुञ्जीत तस्य च प्रलोटने पानकादिना प्लाव्यमाना: प्राणिनो विपद्यन्ते। ___ अथामूनेव संचयादिदोषान् व्याचष्टेनिस्संचया उसमणा, संचयितु गिही व होति धारेता। संसत्तेऽणुवभोगा, दुक्खं च विगिंचिउं होति।। निःसञ्चयाः श्रमणा उच्यन्ते, ततो यदि तेऽपि ग्रहीत्वा धारन्ति तदा गृहिण इव संचयिनो भवन्ति, चिरं वाऽवतिष्ठमानं तद्भक्तपानं संसज्येत, संसक्तं च साधूनामुपभोक्तुं न कल्पते, विवेक्तुं च परिष्ठापयितुं तद् दुःखं भवति, यतस्तत्र परिठाप्यमाने यैः प्राणिभिः संसक्तान्नं विनाशमाप्यते। एमेव सेसएसु वि, एगतरविराहणा उभयतो वि। असमाहि विणयहाणी, तप्पचयणिज्जराए य॥ एवमेव शेषेष्वपि दीर्घादिषुद्वारेषुभावना कर्त्तव्या, सा च प्रागेव कृता, न वा एकतरस्य साधो जनस्य वा विराधना दीर्घजातीयादिषु भवति, उभयमात्मा संयमश्चेति द्वयम् / तस्य विराधना उभयविराधना। (असमाहि ति) अग्निना दह्यमानस्यासमाधिमरणं, भारेणाक्रान्तस्य वा असमाधिदुःखेनावस्थानं भवेत्, गुरुप्रभृतीनां च विनयहानि कुर्वतस्तप्रत्ययनिर्जराया अपि हानिर्भवति / / पच्छित्तपरूवणता, एतेसि ठवेतिए य जे दोसा। गहितकरणे य दोसा, दोसा य परिहवेंतस्स॥ एतेषां संचयादीनां सर्वेषामपि प्रायश्चित्तप्ररूपणा कर्त्तव्या। सा च प्रागेवलेशतः कृता, स्थापयतो निक्षिपतश्च ये दोषा:,ये च गृहीतेन कार्याणि कुर्वतो भाजनभेदप्रभृतयो दोषाः, ये च परिष्ठापयतो दोषास्तेऽपिच वक्तव्या इति। यत एतावन्तो दोषा:तम्हाउ जहिं गहितं, तहिं भुजाण वञ्जिया भवे दोसा। एवं सोधिण वज्जति, गहणे विय पावती वितियं / / तस्माद्यस्यामेव पौरुष्यांग्रहीतं तस्यामेव भोक्तव्यम्, एवं कुर्वतोदोषा: पूर्वोक्तावर्जिता भवन्ति।परःप्राह-नत्वेवं शोधिनं विद्यते यतो (गहणे वियत्ति) यावद्भिक्षां गृह्णाति तावदेव द्वितीयां पौरुषीं प्राप्नोति। सूरिराहएवं ता जिणकप्पे, गच्छम्मि व उज्झियाइ जे दोसा। इतरासि किं ण होती, दव्वे सेसे पिजतणाए। एवं तावजिनकल्पिकानामुक्तं तच्चयस्यामेव गृहीतं तस्यामेव भोक्तव्यम् गच्छवासिनस्तुप्रथमायां गृहीत्वा यदितदुरितमतिक्रामयन्ति, तदा य संचयादयो दोषा उक्तास्तान्प्राप्नुवन्ति, द्वयोरपि परः प्रेरयति-इतरयोर्द्वितीयतृतीययोः पौरुष्योरशनादि द्रव्यं धारयतां किमेते दोषान भवन्ति? गुरुराह-भवन्ति,परं द्रव्ये भुक्तशेषे कसरणे यतनया धार्यमाणा दोषान भवन्ति। कथं पुनस्तदुद्वरितं भवति? इत्याहपडिलाभणा बहुविहा, पढमाए विणसिमविणासि। तत्थ विणासिं भुंजेऽजिण्णपरिन्ने य इतरं पि॥ अभिगतश्राद्धेन दानश्राद्धेन वा क्वचित् कारणैः प्रथमपौरुष्यां बहुविधा: प्रतिलाभनाः, ततो बहुभिर्भक्ष्यभोज्यद्रव्यरित्यर्थः। तच द्रव्यद्रव्यं विनाशि, अविनाशि च / क्षीरादिकं विनाशि, अवगाहनादिकमविनाशि / तत्र यद्विनाशि द्रव्यं तन्नमस्कारपौरुषीप्रत्याख्यानं कुर्वतो भुञ्जते, शेषसाधूनां यद्यजीर्ण , यदि वातैः परिज्ञानं, तस्या विकृतेः प्रत्याख्यानं कृतम्। अभक्ता वा प्र