SearchBrowseAboutContactDonate
Page Preview
Page 994
Loading...
Download File
Download File
Page Text
________________ गोयरचरिया १७०-अभिधानराजेन्द्रः - भाग 3 गोयरचरिया भिक्खुणी वा गामाणुगामं दूइज्जमाणे सव्वं भंडगमायाए गामाणुगामं दूइजेजा। स भिक्षुर्गच्छनिर्गतो जिनकल्पिकादि: गृहपतिकुलं प्रवेष्टुकामः सर्व निरवशेष भण्डकं धर्मोपकरणमादाय गृहीत्वा गृहपतिकुलं पिण्डपातप्रतिज्ञाया प्रविशेद्वा ततो निष्क्रामेद्वा, तस्य चोपकरणमनेकं भवति। तद्यथा - तत्र जिनकल्पिको द्विविधः / छिद्रपाणिरच्छिद्रपाणिश्च / तत्राच्छिद्रपाणे: शक्त्यनुरूपाभिग्रह विशेषाद् द्विविधमुपकरणम्। तद्यथारजोहरणं, मुखवस्त्रिका च / कस्यचित् त्वक्त्राणार्थं क्षौमपटपरिग्रहात् विविधम्, अपरस्योदकविन्दुपरितापादिरक्षणार्थमौर्णिकपटपरिग्रहाचतुर्धा / तथा सहिष्णुतरस्य द्वितीयक्षौमपटपरिग्रहात् पञ्चासति छिद्रपाणेस्तु जिनकल्पिकस्य सप्तविधपात्रनिर्योगसमन्वितस्य रजोहरणमुखवस्त्रिकादिग्रहणक्रमेण यथायोगं नवविधो दशविध एकादश द्वादशविधश्चोपधिर्भवति / पात्रनिर्योगश्च-"पत्तं पत्ताबंधो, पायढवणं च पायकेसरिया। पडलाई रयताणं, च गच्छओ पायणिजोगो // 1 // अन्यत्रापि गच्छता सर्वमुपकरणं गृहीत्वागन्तव्यमित्याह-"से भिक्खू" इत्यादि / स भिक्षुर्गामादेर्बहिर्विहारभूमिं वा स्वाध्यायभूमि, तथा विचारभूमि वा विष्ठोत्सर्गभूतिं सर्वमुपकरणमादाय प्रविशेन्निष्क्रामेद्वेति द्वितीयम्। एवं ग्रामान्तरेऽपि तृतीयं सूत्रम् / साम्प्रतं गमनाभावे निमित्तमाहसे भिक्खू वा भिक्खुणी वा अह पुण एवं जाणेज्जा तिव्वदेसियं वा वासं वासमाणे पेहाए तिय्वदेसियं वा महियं सण्णिवयमाणे पेहाए महावाएण वा रयं समुद्धयं पेहाए तिरिच्छसंपातिमा वा तसा पाणा संथडा सण्णिवयमाणा पेहाए से एवं णचा णो सव्वभंडगमायाए गाहावइकुलं पिंडवासपडियाए पविसेज वा, णिक्खमेज वा, वहिया विहारभूमि वा वियारभूमि वा पविसेज वा णिक्खमेज वा गामाणुग्गामं दूइज्जेता / / (से भिक्खू इत्यादि) स भिक्षुरथ पुनरेवं विजानीयात् / तद्यथा-तीव्र बृहत्द्वारोपेतं देशिकं बृहत्क्षेत्रव्यापि, तीव्र च तद्देशिकं चेति समासः / वृहद्वारं महति क्षेत्रे वर्षन्तं प्रेक्ष्य, तथा तीव्रदेशिका महति देशे अन्धकारोपेतां महिकां वा धूमिकां संनिपतन्ती प्रेक्ष्योपलक्ष्य, तथा महावातेन वा समुद्धतं रजः प्रेक्ष्य, तिरश्चीनं च संनिपततो गच्छतः प्राणिन: पतङ्गादीन् संस्कृतान् घनान् प्रेक्ष्य, स भिक्षुरेवं ज्ञात्वा गृहपतिकुलादौ उद्दिष्ट सर्वमादाय न गच्छेनापि निष्क्रामेद्वेति / इदमुक्तं भवति-सामाचारी एषा-यथा गच्छता साधुना गच्छनिर्गतेन तदन्तर्गतेन वा उपयोगो दातव्यः / तत्र यदिवर्ष महिकादिकं जीनीयात्ततो जिनकल्पिको न गच्छत्येव, यतस्तस्य शक्तिरेषा-यथा षण्मासं यावित् पुरीषोत्सर्गनिषेधं विदध्यात् / इतरस्तु सति कारणे यदि गच्छेत्तदा सर्वमुपकरणं गृहीत्वा गच्छेदिति तात्पर्यार्थः / आचा०२ श्रु०१ 03 उ०॥ द्वितीयपदम्-या श्वानगवादयो दुष्टा भवन्ति, तद् गृहं यद्यनाभोगतः प्रविष्टः, ततः कुट्यकनिकं याति, दण्डकेन वा तान् वारयति, यदि काचिदविरतिका तमुपसर्ग येत् ततो धर्म कथा कर्त्तव्या, तया यधुपशाम्यति, ततः सुन्दर, नो चेदभिधातव्यम्-एतानिव्रतानि गुरुसमीपे स्थापयित्वा समागच्छामीति, यदि प्रत्यनीकगृहमनाभोगतः प्रविष्टस्ततो महता शब्देन तथा बोलं करोति, यथा भूयान् लोको मिलति, त्रयाणां गृहाणां वा मध्यस्थितः सन्नुपयोगं कृत्वा भिक्षा गृह्णीयात् / पञ्चानामपि महावतानामतिक्रमं महता प्रयत्नेन परिहरेत्, सर्वोपरकरणमपि स्तेनप्रत्यनीकाद्युपद्रवभयाद् वृद्धत्वादधुनोस्थितग्लानत्वाद्वा न गृह्णीयात् / इयत्पुनरवश्यमेव ग्रहीतव्यम पात्रभागडकं, चोलपट्टको, रजोहरणं, मुखवस्त्रिका चेति / बृ०१ उ०। (स्थविरः किमुपकरणमादाय गोचरचर्यायै गच्छतीति'अइमुंतय' शब्देऽपि प्रथम भागे७ पृष्ठे द्रष्टव्यम्) "कक्खपडिग्गह-रयहरणमायाए" कक्षायां प्रतिग्राहकं रजोहरणं चादायेत्यर्थः / भ०५ श०४ उ० (8) कायोत्सर्गद्वारम्कायोत्सर्गमकृत्वा व्रजतिमासलघु। दोषश्चात्र-कश्चित् योगप्रतिपन्न:, तस्य तद्विवसमाचाम्लं, स चोपयोगकायोत्सर्गमकृत्वागतो, दध्न: करम्यं गृहीत्या समायातः, पश्चादपरैः साधुभिस्तस्याचाम्ल्लं स्मारितं, ततः स यदि तं समुद्दिशति तदा योगविराधना / ततः कायोत्सर्ग कृत्या निर्गच्छेत् / तत्र च कायोत्सर्गे चिन्तयेत्। यथा-अद्य क्रि मे आचाम्लम्, उत निर्विकृतिकम्, उताहो अभक्तार्थम् आहोश्विदेकासनक इति इत्थमुपयोगं गत्वा प्रत्याख्यानानुगुणमेवाऽऽहारं गृह्णाति / ब्र०१ उ०। द्वितीयपदम्। कायोत्सर्गादीन्यपिग्लानादिकार्येषु त्वरमाणो न कुर्यात् / बृ०१ उ० (E)अथ कालद्वारम् - कस्मिन् काले भिक्षार्थं निर्गन्तव्यम्। उच्यते-य: क्षपको बालो वृद्धो वा पर्युषितेन प्रथमालिका कर्तुकामः स सूत्रपौरुषी कृत्या निर्गच्छति, अध तावती वेला न प्रतिपालयितुं क्षमः, ततोऽर्द्धपौरुष्यां निर्गच्छति, यद्यतिप्रभाते पर्यटतितदा; मासलघु, भद्रकप्रान्तकृताश्च दोषा भवन्ति / तत्र साधुरतिप्रभात एव कस्यापि गृहं गत्वा भिक्षां याचितवान्, सच गृहपतिर्भद्रकः सुतामविरतिकामुत्थापयेत् ततस्तस्यामुत्थितायामधिकरणं भवेत्; यस्तु प्रान्तो भवति, स ब्रूयात् -"किमुन्मत्तो वर्तसे, यदेवमतिप्रभाते पर्यटसि, सुखरात्रिकं वा प्रष्टुं समायासीरिति"? यद्वाकोऽपि ग्राभान्तरं प्रस्थितः प्रथममेव तं साधुं दृष्ट्वाऽपशकुनं मन्यमानः प्रद्वेषं यायात्,प्रद्विष्टश्चाहननादि कुर्यात्। अथैतद्दोषभयादतिक्रान्तायां वेलायामटति तदाऽपि मासलघु।"अकाले चरसी भिक्खू" (दश०५ अ०) इत्यादि गाथोक्ताश्च दोषाः / एवमुष्णस्यापि भक्तस्थाप्राप्तेऽतिक्रान्ते वा एत एव दोषा मन्तव्याः / बृ०१ उ०। कालेण निक्खमे भिक्खू, कालेण य पडिक्कमे / अकालं च विवजित्ता, काले कालं समायरे ||4|| (कालेनेति) यो यस्मिन् ग्रामादौ उचितो भिक्षाकाल:, तेन करणभूतेन निष्क्रामेद्रिक्षुः वसतेर्भिक्षायैकालेन चोचितेनैवयावता स्वध्यायादि निष्पाते तावता प्रतिक्रामेत् निवर्तेत / भणितं च-"खेत्तं, कालो, भायणं, तिन्नि यि प्पहुप्पंति हिंडउत्ति अट्टभंगा।" अकालं च वर्जयित्वा, येन स्वाध्यायादिन संभाव्यते सखल्वकालः, तमपास्य, काले कालं समाचरेदिति सर्वयोगोपसंग्रहार्थनिगमनम्। भिक्षावेलायांभिक्षांसमाचरेत्, स्वाध्याध्यादि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy