________________ गोयरचरिया 966 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया - क्षेत्रयतनामाहतहे वुद्यावया पाणा, भत्तट्ठाए समागया। तं उज्जुयं न गच्छिज्जा, जयमेव परकमे // 7 // तथैवोच्चावचा: शोभनाऽशोभनभेदेन नानाप्रकाराः, प्राणिनो भक्तार्थ समागता: बलिप्राभृतिकादिष्वागता भवन्ति, तदृजुकं तेषामभिमुखं न गच्छेत्, तत्संत्रासेनान्तरायाधिकरणादिदोषात्। किन्तु यतमेव पराक्रमेत् तदुद्वेगमनुत्पादयन्निति सूत्रार्थः॥७॥ किञ्चगोयरग्गपविट्ठोय, न निसीइज्ज कत्थइ। कहं च न पवंधिज्जा, चिट्ठित्ता ण व संजए|८|| गोचराग्रप्रविष्टस्तु भिक्षार्थं प्रविष्ट इत्यर्थः / न निषीदेत् नोपविशेतः क्वचिद् गृहदेवकुलादौ, संयमोपघातादिप्रसङ्गात् / कथां च धर्मकथादिरूपान प्रबध्नीयात्प्रबन्धेनन कुर्यात्, अनेनैकव्याकरणैकज्ञातानुज्ञामाह / अत एवाह-स्थित्वा कालपरिग्रहेण संयत इत्यनेषणाद्वेषादिदोषप्रसङ्गादिति सूत्रार्थ' / उक्ता क्षेत्रयतना। दश०५ अ०२ उ०। भिक्खू मुयचे कयदिट्ठधम्मे, गामंच णगरं च अणुप्पविस्सा। से एसणं जाणमणेसणं च, अन्नस्स पाणस्स अणाणुगिद्धे / / 17 / / स एवं मदस्थानरहितो भिक्षणशीलो भिक्षुः / तं विशिनष्टि-मृते च स्नानविलेपनादि संस्काराभावाद; तनुः शरीरं यस्य स मृतार्च: / यदि वा मोदनं मुत, तद्भूता शोभनाऽर्चा पद्मादिका लेश्या यस्य स भवति मुदर्चः, प्रशस्तदर्शलेश्यः तथा दृष्टोऽवगतो यथावस्थितो धर्मः श्रुतधर्मचारित्राख्यो येनस तथा चैवंभूतः कचिदवसरे ग्राम नगरमन्यद्वा मठादिकमनुप्रविश्य भिक्षार्थमसावुत्तमधृतिसंहन-नोपपन्न: सन्नेषणां गवेषणग्रहणैषणादिका जानन् सम्यगवगच्छन्ननेषणां चोदमदोषादिका तत्परिहारं विपाकं च सम्यगवगच्छन्नन्नस्य पानस्य वा, अनागृद्धोऽनध्युपपन्न: सम्यग् विहरेत् / तथाहि-स्थविरकल्पिका द्विचत्वारिंशदोषरहितां भिक्षां गृह्णीयुर्जिनकल्पिकानां तु पञ्चस्वभिग्रहः। ताश्चेमा:"संसट्ठमसंसट्ठा, उद्धड तह होति अप्पलेवा य / उम्गहिया पग्गहिया, उज्झियधम्मा य सत्तमिया'॥१॥ अथवा-यो यस्याभिग्रहः स तस्यैषणा, अपरा त्वनेषणेत्येवमेषणाऽनेषणाभिज्ञ: क्वचित्प्रविष्टः सन्नाहारादावमूर्च्छितः सम्यक् शुद्धां भिक्षां गृहीयादिति॥१७॥ सूत्र०१ श्रु०१३ अ०। (आचार्य्याज्ञा 'पज्जु (जो) सवणाकप्प' शब्दे वक्ष्यते) (5) वर्षासु दिशमापृच्छय गन्तव्यम्वासावासं पजोवसियाणं निग्थाण वा निग्गंथीण वा कप्पड़, अन्नयरिं दिसिं वा अणुदिसिं वा अवगिज्झिय भत्तं वा पाणं वा गवेसित्तए, से किमाहु भंते !? उस्सन्नं समणा भगवंतो वासासु तवसंपत्ता भवंति, तवस्सी दुव्वले किलंते मुच्छिज्ज वा पवमिज्ज वा, तमेव दिसिं वा अणुदिसिं वा समणा भगवंतो पडिजागरंति॥६१॥ "वासेत्यादितः पडिजागरंति त्ति" यावत् / तत्र 'अन्नयरे' इत्यादि। अन्यतरां दिशं पूर्वादिकाम्, अनुदिशम् आग्नेय्यादिका विदिशतम् (अवगिज्झिय त्ति) अवगृह्य उद्दिश्य, अहमेनां दिशम् आग्नेय्यां वा यास्यामीत्यन्यसाधुभ्यः कथयित्वा भक्तपानं गवेषयितुं कल्पते। "से किमित्यादि" तत्कुत इति शिष्यप्रश्ने, गुरुराह (ओसन्नं ति) प्राय: श्रमणा भगवन्तो वर्षासु तप:संप्रयुक्ताः प्रायश्चित्तवहनार्थं संयमार्थं स्निग्धकाले मोहजयार्थं वा षष्ठादितपश्चारिणो भवन्ति। ते च तपस्विनो दुर्बलास्तपसैव कृशाङ्गाश्च, अत एव क्लान्ता: सन्तः कदाचिन्मूछेयुः, पतेयुर्वा, ततः श्रमणास्तान् तत्रैव दिगादौ प्रतिजाग्रति गवेषयन्ति, अथाकथयित्वा गताँस्तु कुत्र गवेषयन्ति? // 61 // (6) गच्छतो धार्याधार्याणि कार्यकारिणि च / अथावश्यकद्वारम् यदाऽऽवश्यकमशोध्य निर्गच्छति तदा मासलघु, आज्ञादयो दोषश्च, विराधना च प्रवचनादीनाम् / तद्यथा-भिक्षामटतः संज्ञा समागच्छेत्, ततो यद्युद्ग्राहितपात्रकः पानकं वा विनाव्युत्सृजति तदा प्रवचनविराधना-"अहो ! अशुचयोऽमी''। अथैतद्दोषभयात् न व्युत्सृजति तत आत्मविराधना / अथ प्रतिश्रयमागत्य पानकं गृहीत्वा संज्ञाभूमौ व्रजति ततो देशकाले स्फिटिते सति भिक्षमलभमान एषणां प्रेरयेत्, ततः संयमविराधना, यत एवमत आवश्यकं शोधयित्वा निर्गन्तव्यम् / गतमावश्यकद्वारम् / बृ०१ उ०। अनाभोगतो ग्लानादिषु कार्येषु व्यापृतः सन्नावश्यकमप्यशोध्य निर्गच्छतश्च संज्ञया वाध्यमानो यदि प्रतिश्रय: प्रत्यासन्नस्ततो निवर्तते, अथ दूरे, ततो यदि कालो न पूर्यते, तदा तयोरेकः पात्रकाणि धारयति, इतर: संज्ञा व्युत्सृजति। अथ सागारिकास्तत्र पश्यन्ति, ततः समनोज्ञानां प्रतिश्रयं गत्वा व्युत्सृजति, तदभावे अमनोज्ञानां संविनानां, तेषामलाभे पार्श्वस्थादीनां, तेषामप्यभावे सारूपिकाणां, तदभावे सिद्धपुत्रकाणां, तेषामप्राप्तौ श्रावकाणां वैद्यस्य वा गृहे, एतेषामभावे राजमार्गे, गृहद्वयमध्यभागे वा, गृहस्थसत्के वा अवग्रहे कायिकीवर्ज व्युत्सृजति / ततो यद्यसौ गृहपतिस्तां संज्ञा त्याजयति तदा राजकुले व्यवहारो लभ्यते / तथा"त्रय: शल्या महाराज ! अस्मिन् देहे प्रतिष्ठिता: / वायुमूत्रपुरीषाणां, प्राप्त ववेगं न धारयेत् ||1|| बृ०१ उ०। (7) अथोपकरणद्वारम् सर्वमप्युपकरणमादाय भिक्षायामटितव्यम्, यदिसर्वोपकरणं न गृह्णाति तदा मासलघु, उपधिनिष्फनवा, तथा तेषां भिक्षमटितुं गतानां स प्रतिश्रयस्थापित उपधिरनिकायेन दह्येत, दण्डकक्षोभो वा भवेत्, स्तेनक्षोभो वा तेषां भिक्षामटतां सहसा समापतित इतिकृत्वा तत एवते पलायिता:, ततो यदुपधिं विना तृणग्रहणादि कुर्युः, तन्निष्पन्नं प्रायश्चित्तमिति। गतमुपकरणद्वारम् / बृ०१ उ०। से भिक्खू वा भिक्खुणी वा गाहावतिकुलं पविसिउकामे सवं भंडयमायाए गाहावतिकुलं पिंड वायपडियाए पविसेज वा णिक्खमेज वा / से भिक्खू वा भिक्खुणी वा वहिया विहारभूमि वा वियारभूमि वा णिक्खममाणे वा पविसमाणे वा सव्वं भंडगमायाए वहिया विहारभूमिं वा वियारभूमि वा णिक्खमेज वा पविसेना वा। से भिक्खू वा