________________ गोयरचरिया 968 - अमिधानराजेन्द्रः - भाग 3 गोयरचरिया अर्थतान्येव पदानि गाथाद्वयेन भावयतितिक्खछुहाओ पीडा, उड्डा निवारणम्मि निक्खिवया। इय जुयलसिक्खरोसुं, पओस भेओ य एकतरो।। सुचिरेण वि गीयत्थो, न होहिई न वि सुयस्स आभागी। पम्गहिएसणचारी, किमहीउ धरेउ वा अबलो?|| अभिगृहीतयैवैषणया भक्तपानग्रहणे प्रतिज्ञाते तया वा लब्धे स्तोके वा। लब्धे सति बालवृद्धशैक्षकाणां तीक्ष्णया दुरधिसहया क्षुधा, उपलक्षणत्वात् तृषा च महती पीडा भवति, उड्डाहो वा भवेत् / स हि बालादिरित्थं लोकपुरतो ब्रूयात- एते साधवो मा क्षुधा तृषा वा मारयन्तीति / तथा निवारणे विवक्षितामेकामेषणां विमुच्यान्यासां प्रतिषेधे विधीयमाने सति बालादयश्चिन्तयेयुः-अहो! निक्षिपत्यमीषां, ततः प्रद्वेषं गच्छेयुः, भेदोवा एकतर: जीवस्य चारित्रस्य वा विनाशोऽमीषां भवेत् इति बालवृद्धयुगले शैक्षके वा नियन्त्र्यमाणे दोषा मन्तव्याः। तथा अगीतार्थः सुचिरेणापि कालेन गीतार्थो न भविष्यति, नापि श्रुतस्याचारादेः, उपलक्षणत्वाद्दर्शनप्रभावकशास्त्राणां वा, अभागी, कीदृश इत्याह-प्रगृहीतैषणाचारी प्रग्रहीता अभिग्रहवती या एषणा तचारी तत्पर्यटनशीलधरोवा, अबलो दुर्बलसंहनन: संप्रणीताहाराधुपष्टम्भाभावे किं सूत्रमर्थं वा अधीता, धारयिता वा,अतएतेषामनुग्रहार्थ गच्छे प्रकीर्णा एषणा दृष्टा / / बृ०१ उ० गोचरचर्यायां विधि:संपत्ते मिक्खकालम्मी, असंभंतो अमुच्छिओ। इमेण कमजोगेण, भत्तपाणं गवेसए।।१।। (संपत्ते इति) संप्राप्ते शोभनेन प्रकारेण स्वाध्यायकरणादिना प्राप्ते, भिक्षाकाले भिक्षासमये, अनेनासंप्राप्ते भक्तपानैषणाप्रतिषेधमाह, अलाभाज्ञाखण्डनाभ्यां दृष्टादृष्टविरोधादिति / असंभ्रान्तोऽनाकुलो यथावदुपयोगादि कृत्वा, नान्यथेत्यर्थः / अमूर्छितः पिण्डे शब्दादिषु वा अगृद्धो विहितानुष्ठानमिति कृत्वा, न तु पिण्डादावेवासक्त इति। अनेन वक्ष्यमाणलक्षणेन क्रमयोगेन परिपाटीव्यापारण, भक्तपानं यतियोग्यमोदनाऽऽरनालादि, गवेषयेत् अन्वेषयेदिति सूत्रार्थः।।१॥ दश०५ अ०१ उ०। अथास्या एव विधिमभिधित्सुरगाथामाहपमाण काले आवस्सएय संघाडगे अउवगरणे। मत्तग काउस्सग्गो, जस्सय जोगो सपडिवक्खो। प्रमाणं नाम कतिवारान् पिण्डपातार्थं गृहपतिकुलेषु प्रवेष्टव्यमिति / (काले त्ति) कस्या वेलायां भिक्षार्थं निर्गन्तव्यम् / (आवस्सग त्ति) आवश्यकं संज्ञाकायिकीलक्षणं, तस्यशोधनं कृत्वा निर्गन्तव्यम् (संघाडगे त्ति) संघाटकेन साधुयुग्मेन निर्गन्तव्यं नैकाकिना (उवगरिणि त्ति) सर्वोपकरणमादाय भिक्षायामवतरणीयम्, (मत्तग त्ति) मात्रकं गृहीतव्यम् (काउस्सग्गि त्ति) उपयोगनिमित्तं कायोत्सर्गः कर्त्तव्य: (जस्स य जोगो त्ति) यस्य च सचित्तस्य वा योगः संबन्धो भविष्यति, लाभ इत्यर्थः; तदप्यहं गृहीष्यामिति भणित्या निर्गन्तव्यम् / (सपडिवक्खो त्ति) एष प्रमाणादिको द्वारकलाप: सम्प्रति- पक्षस्यापवादो वक्तव्य इति द्वारगाथासमासार्थः / बृ०१ उ०। (4) सम्प्रति भिक्षाटनविधिप्रदर्शनार्थमाह तत्र यथा गवेषयेत्तदाहसे गामे वा णगरे वा, गोयरगगओ मुणी। चरे मंदमणुव्विग्गो, अव्वक्खित्तेण चेयसा ||2|| (से इति) असंभ्रान्तोऽमूर्छितो ग्रामे वा नगरे वा, उपलक्षणत्वादस्य, कर्वटादौ वा, गोचराग्रगत इति / गोरिव चरणं गोचर उत्तमाधममध्यमकुलेष्वरक्तद्विष्टस्य भिक्षाटनम्, अग्रः प्रधानोऽभ्याहृताधाकर्मादिपरित्यागेन तद्गतस्तद्वर्ती, मुनिर्भावसाधुश्चरेत् गच्छेत्, मन्दं शनैः शनैः, न द्रुतमित्यर्थः। अनुद्विग्नः प्रशान्तः परीषहादिभ्योऽबिभ्यत् अव्याक्षिप्तेन चेतसा वत्सवणिग्जायादृष्टान्तात् शब्दादिष्वगतेन चेतसा अन्तःकरणेन एषणोपयुक्तनेति सूत्रार्थः।।२।। यथा चरेत् तथैवाहपुरओ जुगमायाए, पेहमाणो महिं चरे। वजंतो वीयहरियाई, पाणे य दगमट्टियं // 3 // पुरतोऽग्रतो युगमात्रया शरीरप्रमाणया शकटोर्द्धवसंस्थितया, दृष्ट्येति वाक्यशेषः / प्रेक्षमाणः प्रकर्षण पश्यन्, महीं भुवं चरेत्यायात्, केचिन्नेति योजयन्ति, न शेषदिगुपयोगेनेति गम्यते, न प्रेक्षमाण एव, अपितु वर्जयन् परिहरन् वीजहरितानि, अनेनानके-भेदस्य वनस्पतेः परिहारमाहा तथा प्राणिनो द्वीन्द्रियादीन्, तथोदकम् अप्कायं, मृत्तिकां च पृथवीकार्य, चशब्दात् तेजोवायुपरिग्रहः / दृष्टिमानं त्वत्र लघुतरयोपलब्धावपि प्रवृत्तिलो रक्षणायोगात्, महत्तरया तु देशविप्रकर्षणानुपलब्धेरितिसूत्रार्थः। उक्तः समयविराधनापरिहारः // 3 // अधुनाऽऽत्मसंयमविराधनापरिहारमाहओवायं विसमंखा', विजलं परिवजए। संकमेण न गच्छेज्जा, विजमाणे परक्कमे॥४|| अवपातं गादिरूपं, विषमं निम्नोन्नतं, स्थाणुमूर्द्धवकाष्ठ, विजलं विगतजलं कईम परिवर्जयेत्, एतत्सर्व परिहरेत् / तथा संक्रमण जलग-परिहाराय पाषाणकाष्ठरचितेनन गच्छेत, आत्मसंयमविराधनासंभवात् / अपवादमाह-विद्यमाने पराक्रमे, अन्यमार्ग इत्यर्थः। असतितु तस्मिन् प्रयोजनमाश्रित्य यतनया गच्छेदिति सूत्रार्थः।।४।। अवपातादौ दोषमाहपवडते व से तत्थ, पक्खलंते व संजए। हिंसेज पाणभूयाई, तसे अदुव थावरे / / 5 / / प्रपतन्वा असौ तत्रावपातादौ गर्तादौ प्रस्खलन् वा संयत: साधुर्हिस्यात् व्यापादयेत् प्राणिभूतानि, प्राणिनो द्वीन्द्रियादयः, भूतान्येकेन्द्रियाः / एतदेवाह-त्रसानथवा स्थावरान् प्रपातेनात्मानं चेत्येवमुभयविराधनेति सूत्रार्थः।।५॥ तम्हा तेण न गच्छेज्जा, संजए सुसमाहिए। सइ अनेण मग्गेण, जयमेव परक्कमे // 6 // तस्मात्तेनावपातादिमार्गेण न गच्छेत् संयतः सुसमाहितो भगवदाज्ञावर्तीत्यर्थः। न गच्छेत् न यायात् सत्यन्येनेन्यस्मिन् समादौ मार्गेणेति मार्गे, छान्दसत्वात् सप्तम्यर्थ तृतीया, असतित्वन्यस्मिन्मार्गतेनैवावपातादिना यतमेव पराक्रमेत, यतमिति क्रियाविशेषणं, यतमात्मसंयमविराधना परिहारेण यायादिति सूत्रार्थः।।६|| दश०५ अ०१ उ०)