________________ गोयमकेसिज्ज 967 - अभिधानराजेन्द्रः - भाग 3 गोयमकेसिज्ज (3) विषयसूची(१) कथं गोचरचर्या कर्तव्या। (2) गोचरचर्यानिरूपणम्। भिक्षाद्वारम्। भिक्षाऽटनविधिः / वर्षासु दिशमापृच्छय गन्तव्यम्। (6) गच्छतो धार्याधार्याणि कार्यकार्याणि तत्रावश्यकद्वारम्। (7) उपकरणद्वारम्। (8) कायोत्सर्गद्वारम्। (E) कस्मिन् काले प्रविशेदिति कालद्वारम् / (10) नित्यभक्तिकादेः प्ररूपणम्। (11) कालातिक्रान्तक्षेत्रातिक्रान्तपानभोजने वक्तव्यता। (12) रात्रौ भिक्षा न ग्रहीतव्या। (13) कतिवारान् गच्छेदिति प्रमाणद्वारम्। (14) मात्रकं गृहीत्वा गन्तव्यमिति मात्रकद्वारम्। (15) यस्य च योगद्वारम्। (16) संघाटकं कृत्वा गन्तव्यम्। (17) उच्चावचकुलेषु चरेत् सामुदानिकः / (18) मा यथा गच्छति तथा निरूपणम्। (16) स्थाणुकण्टकादिवक्तव्यता, गृहपतिद्वारे स्थाणुकणएटकादिव क्तव्यता च। (20) षट्काययतना। (21) वृष्टिकाये निपतति यत्कर्तव्यं तन्निरूपणम्। (22) प्रवेशवक्तव्यता। (23) काकादीन् संनिपतितान् प्रेक्ष्य न गच्छेत्। (24) गांदुह्यमानां प्रेक्ष्य न गच्छेत्। (25) गृहावयवानालम्ब्य न तिष्ठेत्, नवाऽङ्गुल्यादिदर्शयेत्। (26) अगार्या सहन तिष्ठेत् / (27) ब्राह्मणादिकं प्रविष्टं दृष्ट्वा प्रवेशविचारः। (28) ग्रामपिण्डोलकादि प्रविष्टं दृष्ट्वा प्रवेशविचारः। (26) परग्रामे हिण्डनविधिः / (30) आहारे क्षुण्णे गोचराटनम्। (31) ग्रहणविधिः / (32) याच्यं वस्तु दृष्टा याचेत, नान्यथा याचेत। (33) वन्दमानं नयाचेत। (34) भुञ्जानाद्याचनम्। (35) ग्राह्यवस्तूनामत्युष्णग्रहणे विधिः / (36) आधाकर्मिकादिविचारः। (37) आकरखन्यादौ विचार:। (38) आरण्यकादीनाम् विचारः / (36) उत्सवेषु अर्द्धमासिकादिषु विचारः। (40) इक्ष्वादिखण्डादिवक्तव्यता। (41) औषधविषयो विधिः / (42) क्रीतप्रायमित्यादिविचारः / (43) नौकागतम्। (44) तण्डुलप्रलम्बादिवक्तव्यता। (45) पर्युषिताहारो न ग्राह्यः / (46) बहिर्निर्हतम। (47) भिलिङ्गसूपो न ग्राह्यः। (48) लवणग्रहणम्। (46) वनस्पतिप्रतिष्ठितम्। (50) बहन्नग्रहणे तत्परिष्ठापनम्। (51) सुरभिंगृह्णाति असुरभिं परिष्ठापयति। (52) अन्नगन्धः। (53) आचार्याद्यर्थे विधिः / (54) ग्लानार्थं गृहीत्वा स्वयं नाश्रीयात्। (55) गोचरे भोजनम्। (56) गोचरादागमनम्। (57) गोचरातिचारालोचनम्। (58) गोचरातिचारे प्रायश्चित्तम्। (56) निर्ग्रन्थीनां भिक्षाविधिः / (60) सर्वसंपत्कर्यादिभिक्षानिरूपणम्। (61) भ्रमरदृष्टान्तेन भिक्षायां निर्दोषत्वसिद्धिः / (1) कथं गोचरचर्या कर्तव्या"जहा कवोतोय कपिंजलो य, गावो चरंती इव पागडाओ। एवं मुणी गोयरियं चरेजा, नो हीलए मो विय संथवेज्जा"॥ "लाभालाभे सुहदुक्खे सोभणासोभणे भत्ते वा पाणे वा समणो तुण्हिक्को चरति'| आ०चू००४ अ० (2) गोचरचर्यानिरूपणम्"जधा वा सो वच्छओ दिवसनिसाए छुहाए य परितावितो बितीए अविरतियाए पंचविहविसयसंपउत्ते एतेणं पाणिए दिज्जमाणे तम्मि इच्छियम्मिन तुच्छं गच्छति, नवाऽन्नेसु चित्तं देति० किंतु चारियाणि एव एगग्गमणो सो आलोएति; एवं साधू वि पंचविहेसु विसएसु असजंतो भिक्खायरियाए उवउत्तो चरति, तेण गोचरातीते य गोचरचरियातीए गोचरचरियाए य भिक्खादिया भिक्खेसणा"|| आ०चू०४ अ० स्था०। ('भिक्खाग' शब्दे घुणदृष्टान्तेन भिक्षाप्ररूपणा) (3) अथ भिक्षाद्वारमभिधित्सुराहतत्र गोचरUया: सर्वोऽधिकारोऽत्रैव प्रदर्श्यते, नवरमेषषणोत्पादनोद्गमदोषाणां स्वस्वस्थाने व्याख्या, इह तु जिनकल्पिकानां स्थविरकल्पिकानां निर्ग्रन्थीनां च भिक्षणविधिरुपदर्श्यते - जिणकप्पिअभिग्गहिए-सणाऐं पंचण्हमन्नतरियाए। गच्छे पुण सव्वाहिं, सावेक्खो जेण गच्छो उ॥ जिनकल्पिका: अभिगृहीतया पञ्चानामुद्धतादीनामन्यतरया एषणया भक्तम् एकधा पानकं गृह्णन्ति, गच्छे गच्छवासिन: पुन: सर्वाभिरप्यसंसृष्टादिभिरेषणाभिर्भक्तपानं गृह्णन्ति, कुत इत्याह-सापेक्षो बालवृद्धाद्यपेक्षायुक्तो येन कारणेन गच्छ इति। आह - किमिति गच्छवासिन: सर्वाभिरष्येषणाभिर्गृह्णन्ति, किं तेषां निजरया न कार्यम् ? उच्यतेबाले वुड्ढे सेहे, अगियत्थे नाणदंसणप्पेही। दुव्वलसंघयणम्मि उ,गच्छि पइण्णेसणा भणिया।। षष्ठी सप्तम्योरथ प्रत्यभेदाद् बालस्य वृद्धस्य शैक्षस्य अगीतार्थस्य ज्ञानदर्शनप्रेक्षिणो ज्ञानार्थिनो, दर्शनप्रभावकशास्त्रार्थिनश्चेत्यर्थः। दुर्बलसंहननस्य वा समर्थशरीरस्यानुग्रहार्थं गच्छे प्रकीर्णा अप्रतिनियता एषणा भणिता भगवद्भिरिति।