SearchBrowseAboutContactDonate
Page Preview
Page 989
Loading...
Download File
Download File
Page Text
________________ गोयमकेसिज्ज 165 - अभिधानराजेन्द्रः - भाग 3 गोयमकेसिज्ज जरामरणवेगेणं, वुडमाणाण पाणिणं / धम्मो दीवो पइट्ठा य, गई सरणमुत्तमं // 6|| हे केशिमुने! जरामरणजलप्रवाहेण वुडतां च वहतां प्राणिनां संसारसमुद्रे श्रुतधर्मचारित्रधर्मरूपं द्वीपं वर्तते, मुक्तिसुखहेतुधर्मो-ऽस्तीति भावः / कीदृशः स धर्मः? प्रतिष्ठा निश्चलं स्थानम्, पुनः कीदृशो धर्मः? गतिर्विदेकिनाम् आश्रयणीय: स धर्म उत्तम प्रधानं स्थानं शरणमस्ति इति भावः // 6 // साहु गोयम ! पण्णा ते, छिन्नो मे संसओ इमो। अन्नो वि संसओ मज्झं, तं मे कहसु गोयमा !||6|| अर्थस्तु पूर्ववत्॥६६॥ अन्नवंसि महोहंसि, नावा वि परिधावई। जंसि गोयम ! मारूढा, कह पारं गमिस्ससि ?||70 / / हे गौतम ! महौघे अर्णवे महाप्रवाहे समुद्रे (नावा इति) नौ परिधावति इतस्ततः परिभ्रमति, यस्यं नौकायां त्वम् आरूढः सन् कथं पारं गमिष्यसि कथं पारं प्राप्स्यसि ?||7|| जाउ अस्साविणी नावा, नसा पारस्स गामिणी। जाय निस्साविणी नावा, सा उपारस्स गामिणी // 71 / / हे केशिमुने ! या नौः आश्राविणी छिद्रसहिताऽस्ति, आश्रववति आगच्छति पानीयं यस्यां सा आश्राविणी, सानौः पारस्य गामिनी नास्ति, या निश्राविणी निश्छिद्रा नौः, सा तु पास्य गामिनी // 71 // अथ केशी पृच्छतिनावा य इइ का वुत्ता, केसी गोयममव्ववी? तओ केसिं वुवंतं तु. गोयमो इणमव्ववी 172|| सरीरमाहु नावि त्ति, जीवो वुचइ नाविओ। संसारो अन्नवो वुत्तो, जंतरंति महेसिणो // 73 // नौ इति का उक्ता? केशी गौतमम् अब्रवीत्। ततः केशिं ब्रुवन्तं तिम इदम् अब्रवीत् / / 72 / / हे केशिमुने ! शरीरं नौवर्तते, जीवो नाविकः नौखेटक उच्यते / संसारोऽर्णवः समुद्र उक्तः / यं संसारं समुद्र महर्षयस्तरन्ति, एतावता महर्षयः स्वजीवं तपोऽनुष्ठानक्रियावन्तं नौवाहाकं नाविकं कृत्वा चतुर्गतिभ्रमणरूपे भवार्णवे स्वशरीरं धर्माधारकत्येन नावं कृत्वा पारं प्राप्नुवन्ति, मोक्षं व्रजन्तीति भावः।।७३।। साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो। अन्नो वि संसओ मज्झं,तं मे कहसु गोयमा ! 74|| अर्थस्तु प्राग्वत्॥७॥ अंधकारे तमे घोरे, चिट्ठति पाणिणो बहु / को करिस्सइ उञ्जोयं, सवलोगम्मि पाणिणं ?||7|| अथ पुनः केशिश्रमणो गौतमं पृच्छतिन्हे गौतम ! अन्धकारे तमसि प्रकाशाभावे बहवः प्राणिनस्तिष्ठन्ति, अन्धकारतम: शब्दयोर्यधप्येक एव अर्थस्तथाऽप्यत्र अन्धकारशब्दस्तमसो विशेषणत्वेन प्रतिपादितम्। कीदृशे तमसि ? अन्धकारे अन्धं करोति लोकमित्यन्धकार तस्मिन् अन्धकारे, पुनः कीदृशे तमसि? घोरेरौद्रे भयोत्पादके, हे गौतम ! एतादृशे सर्वस्मिन् लोके सर्वेषां प्राणिनां सर्वजीवानांकः पदार्थ उद्द्योतं करिष्यते प्रकाशं करिष्यति ?||75 // उग्गओ विमलो माणू, सव्वलोगप्पभंकरो। सो करिस्सइ उज्जोयं, सटालोगम्मि पाणिणं // 76|| गौतमः प्राह-हे केशिमुने / सर्वलोकप्रभाकरो विमलो भानुरुद्गतः, स भानुः सर्वस्मिन् लोके सर्वेषां प्राणिनामुयोतं करिष्यति, सर्वस्मिन् लोके प्रभां करोतीति सर्वलोकप्रभाकरः, सर्वलोकालोकप्रकाशको निर्मलो वार्दलादिना अनाच्छादितभानुरेव सर्वेषां प्राणिनां सर्वत्रोद्योतं करोति, नान्यः कोऽपि तेजस्वी पदार्थ इति भावः // 76|| भाणू य इइ के वुत्ते, केसी गोयममव्ववी? तओ केसिं दुवंतं तु, गोयमो इणमव्ववी / / 77 / / तदा केशिमुनिर्गौतमं पृच्छति-हे गौतम ! भानुरिति क उक्तः? केशिमुनिरौतमम् इत्यब्रवीत्, ततः केशिमुनिमितिQवन्तं गौतम इदम् अब्रवीत् // 77 // उग्गओ खीणसंसारो, सव्वन्नू जिणभक्खरो। सो करिस्सइ उज्जोयं, सव्वलोगम्मि पाणिणं // 78|| हे केशिमुने ! क्षीण: संसारो भवभ्रमणं यस्य स क्षीणसंसार क्षयीकृतसंसारः, सर्वज्ञः सर्वपदार्थवेत्ता, जिनो रागद्वेषयोविजेता, स भास्कर: सूर्यः, सर्वस्मिन् लोके चतुर्दशरज्ज्वात्मकलोके सर्वेषां प्राणिनामुद्द्योतं करिष्यति प्रकाशं करिष्यति // 78|| साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो। अन्नो वि संसओ मज्झं,तं मे कहसु गोयमा ! |7 अर्थस्तु प्राग्वत्।।७।। सारीरमाणसे दुक्खे, वज्झमाणाण पाणिणं / खेमं सिवं अणावाह, ठाणं किं मन्नसी मुणी!?||८|| अथ पुन: केशिश्रमणो गौतम पृच्छति- हे गौतम मुने! शारिरिकैः शरीरात् उत्पन्नैः, तथा मानसैः मनस उत्पन्नैर्दुःखैर्वाध्यमानानां पीड्यमानानां प्राणिनां त्वं क्षेमं व्याध्यादिरहितं, शिवं जरोपद्रवरहितम्, अनावाधं शत्रुजनाभावात्स्वभावेन पीडारहितम् , एतादृर्श स्थानं किम् मन्यसे ?, मां वदेति शेष:।।८।। अत्थि एगं धुवट्ठाणं, लोगग्गम्मि दुरारुहं / जत्थ नत्थि जरामचू, वाहिणो वेयणा तहा ||1|| हे केशिमुने ! लोकाग्रे लोकस्य चतुर्दशरज्ज्वात्मकस्य अग्रं लोकाग्रं तस्मिन लोकाग्रे, एकं ध्रुवं निश्चलं स्थानम् अस्ति, कथम्भूतं तत्स्थानम्?"दुरारुहं" दु:खेन आरुह्यते यस्मिन् तत् दुरारेराह दुष्प्राप्यमित्यर्थ / पुनर्यत्र यस्मिन् स्थाने जरामृत्यून स्तः जरामरणे न विद्येते, पुनर्यस्मिन् व्याधयः, तथा वेदना था, वातपित्तकफलेष्मादयोन विद्यन्ते॥१॥ ठाणे य इइ के वुत्ते, केसी गोयममध्ववी? तओ केसिं वुवंतं तु, गोयमो इणमव्ववी / / 2 / / ततः केशिश्रमणो गौतमम् इदम् अब्रवीत्? हे गौतम ! स्थानम् इति किमुक्तम् ? ततः केशिकुमारमिति ब्रुवन्तं गौतम इदम् अब्रवीत्॥८२|| निव्वाणं ति अवाहं ति, सिद्धि लोगग्गमेवय। खेमं सिवमणावाहं,जंचरंति महेसिणो / / 63||
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy