SearchBrowseAboutContactDonate
Page Preview
Page 988
Loading...
Download File
Download File
Page Text
________________ गोयमकेसिज्ज 964 - अभिधानराजेन्द्रः - भाग 3 गोयमके सिद्ध हे के शिमुने ! महामेघप्रसूतात् महामेघसमुत्पन्नात् अर्थाद् / महानदीप्रवाहात् वारि पानीयं गृहीत्वा तान् अग्नीन् सततं निरन्तरं सिञ्चामि, ते अनेयो जलेन सिक्ताः सन्तो मां नैव दहन्ति, कथम्भूतं तत् वारि? "जलुत्तमं "जलेषु उत्तमं सर्वेषु जलेषु मेघोदकस्यैव उत्तमत्वात् / / 51 / / अग्गी य इइ के कुत्ते, केसि गोयममध्ववी। तओ केसिं वुवंतं तु, गोयमो इणमध्ववी।।५२।। तदा केशिश्रमणो गौतमम् इदम् अब्रवीत् हे गौतम ! ते अग्नय इति के | उक्ता: ? इति उक्तवन्तं केशिकुमारं मुनि गौतम इदम् अव्रवीत्।।५२।। कसाया अग्गिणो वुत्ता, सुयसीलतवो जलं। सुयधाराभिहया संता, मिन्ना हुन महंति मे // 53 // हे केशमुने ! कषाया अग्रय उक्ता:, श्रुतं शीलं तपश्च जलं वर्तते, तत्र श्रुतं च श्रुतमध्योपदेश: महामेघस्तीर्थकरः, महाभातश्चागमः, ते कषायाग्नयः श्रुतधाराभिहताः श्रुतस्य आगमवाक्यस्य, उपलक्षणत्वात् शीलतपसोऽपि, धारा इव धारास्ताभिरमिहता विध्यापिता: श्रुतधाराभिहता: सन्तो, भिन्ना: विध्यापिताः। 'हु' निश्चयेन,'मे' इति मां न दहन्ति मान ज्वलयन्ति // 53|| साहु गोयम ! पन्नाते, छिन्नो मे संसओ इमो। अन्नो वि संसओ मज्झं, तं मे कहसु गोयमा ! // 54|| अर्थस्तुपूर्ववत्॥५४॥ अइसाहसिओ भीमो, दुट्ठस्सो परिधावई। जंसि गोयम !मारूढो, कहं तेण न हीरसी ?||5|| हेगौतम! अतिसाहसिको दुष्टाश्व: परिधावति, यस्मिन् दुष्टश्वे हे गौतम! त्वम् आरूढोऽसि, तेन दुष्टाश्वेन कथं न हियसे कथम् उन्मार्ग ननीयसे ?, सहसा अविचार्य प्रवर्तते इति साहसिकः अविचारिताध्वगामी, पुनः कीदृशो दुष्टाश्व: ? भीमो भयानकः // 55 // पहावंतं निगिण्हामि, सुयरस्सीसमाहियं। न मे गच्छइ उम्मग्गं, मग्गं च पडिवजई॥५६|| अथ गौतमो वदति-हे केशिमुने! तंदुष्टाश्वं प्रधावन्तम् उन्मार्गव्रजन्तम् अहं निगृण्हामि वशीकरोमि, कीदृशं तं दृष्टाश्वं ?, श्रुतश्मिसमाहितं सिद्धान्तवल्गया बद्धं, ततः स मे मम दुष्टाश्व: उन्मार्ग न गच्छति, स दुष्टाश्वो मार्ग च प्रतिपद्यते अङ्गीकरोति // 56|| . अस्से य इइ के वुत्ते, केसी गोयममध्ववी?। तओ केसिं वुवंतं, तु गोयमो इणमव्ववी / / 57 / / केशी पृच्छति-हे गौतम! अश्व इति क उक्त:? तत इति ब्रुवन्तं केशिमुनि गौतम इदमब्रवीत् / / 57 / / मणो साहसिओ भीमो, दुहस्सो परिधावई। तं च सम्म निगिण्हामि, धम्मसिक्खऍ कंथगं / / 18 / / हे केशिमुने! मनो दुष्टाश्वः साहसिकः परिधावति इतस्ततः परिभ्रमति, तं मनोदुष्याश्वं धर्मशिक्षायै धर्माभ्यासनिमित्तं कथकमिव जात्याश्वमिव, निगृह्णामि वशीकरोमि, यथा जात्याश्वो वशीकियते, तथा तं मनोदुष्टाश्वं वशीकरोमि // 5 // साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो। अन्नो वि संसओ मज्झं,तं मे कहसु गोयमा ! ||5 अर्थस्तु पूर्ववत्॥५६॥ कुप्पहा वहवा लोए, जेहिं नासंति जंतवो। अद्धाणे कह वट्टतो, तं न नासिसि गोयमा !?||6|| हे गौतम ! लोके बहवः कुपथा: कुमार्गाः सन्ति, यैः कुमार्गजन्तवो नश्यन्ति दुर्गतिवने व्रजन्तो विलीयन्ते, ते मार्गात् च्यवन्ते इत्यर्थः। हे गौतम ! त्वम् अध्वनि वर्तमान: सन् कथं न नश्यसि नाशं न प्राप्नोषि सत्पथात् त्वं न च्यवसे? // 60 // जे य मग्गेण गच्छंति, जे य उम्मग्गपट्ठिया। ते सव्वे वेइया मज्झ, तो ण णस्सामि हं मुणी // 1 // हे केशिमुने ! ये भव्यजना मार्गेण वीतरागोपदेशेन गच्छन्ति, च पुनर्येऽभव्या: उन्मार्गप्रस्थिता: भगवदुपदेशाद्विपरीतं प्रचलितास्ते सर्वे मया विदिताः, भव्याभव्ययो: सन्मार्गासन्मार्गयोनिं मम जातम् इति भावः / 'तो' इति, तस्मात्कारणात् अहं न नश्यामि अपथपरिज्ञानात् नाशं न प्राप्नोमि // 61|| मग्गे य इइ के वुत्ते, केसी गोयममव्ववी। तओ केसिं दुवंतं तु, गोयमो इणमव्ववी ?||62 / / अस्यार्थः पूर्ववत्॥६२ कुप्पवयणपासमी, सव्वे उम्मग्गपट्ठिया।। सम्मग्गं तु जिणक्खायं, एस मग्गेहि उत्तमे // 63 / / हे केशिमुने ! कुत्सितानि प्रवचनानि कुप्रवचनानि कुदर्शनानि, तेषु पाखण्डिनः कुप्रवधनपाखण्डिनः एकान्तवादिनः, से सर्वे उन्मार्गप्रस्थिता उन्मार्गगामिनः सन्ति, सन्मार्ग तु पुनर्जिनाख्यातं विद्यते, एष जिनोक्तः सर्वमार्गेषु उत्तमः सर्वमार्गेभ्यः प्रधानो, दयाविनयमूलत्वात् इत्यर्थः / / 63 / / साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो। अन्नो वि संसओ मज्झं, तं मे कहसु गोयमा !||6|| अर्थस्तुपूर्ववत्॥६॥ महाउदगवेगेणं, वुडमाणाण पाणिणं। सरणं गई पइट्ठा य, दीवं कं मन्नसी मुणी !?||6|| केशी गौतमंप्रति पृच्छति-हे गौतममुने! महोदकवेगेन महाजलप्रवाहण ब्रह्यमानानां प्लवतां प्राणिनां त्वं द्वीपं कं मन्यसे? इति प्रश्नः कीदृश द्वीपम्?, शरणं रक्षणक्षमम्, पुनः कीदृशम् ? गतिम् आधारभूमिम, पुनः कीदृशं प्रतिष्ठां स्थिरावस्थानहेतुम् / द्वीपं निवासस्थान जलमध्यवर्ति // 65 // अस्थि एगो महादीवो, वारिमज्झे महालओ। महाउदगवेगस्स, गई तत्थन विजइ॥६६॥ हे केशिमुने ! वारिमध्ये पानीयान्तरे महालयो विस्तीर्णः एको द्वीपोऽस्ति, द्विर्गता आपो यस्मिन् स द्वीपः, तत्र तस्मिन् दीपे महोदकवेगस्य गतिर्न विद्यते पातालकलशवातैः क्षुभितस्य जलवेगस्य गमनं नास्ति। अपरत्र द्वीपे प्रलयकाले समुद्रजलस्य गतिरस्ति, परं द्वीपे सति तत्र नास्ति॥६६॥ दीवे इइ के वुत्ते, केसी गोयममव्ववी। तओ केसिं वुवंतं तु, गोयमो इणमध्ववी ? // 67 // केशी गौतमं पृच्छति-हे गौतम! द्वीपम् इति किमुक्तम् ?, इत्युक्तवन्तं केशिश्रमणं प्रति गौतम इदम् अब्रवीत्॥६७।।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy