________________ गोयमकेसिज्ज 163 - अमिधानराजेन्द्रः - भाग 3 गोयमकेसिज्ज अथ केशी पृच्छतिसत्तू य इइ के वुत्ते, केसी गोयममव्ववी। तओ केसिं वुवंतं तु, गोयमो इणमव्ववी॥३७॥ हे गौतम! शत्रय: के उक्ता? केशिकुमारो मुनिरौतमम् इदम् अब्रवीत्, / ततोऽनन्तरं केशिमुनिम् एवं ब्रुवन्तं गौतम इदम् अब्रवीत॥३७॥ एगप्पा अजिए सत्तू, कसाया इंदियाणि य। ते जिणित्तु जहानायं विहरामि अहं मुणी ! ||38|| हे मुने ! एक आत्मा चित्तं, तस्य अभेदोपचारात् आत्ममनसोरेकीभवे मनस: प्रवृत्ति: स्यात् ,तस्मात् एक आत्मा अजितः शत्रुर्दुर्जयो रिपुः, अनेकदुःखहेतुत्वात्। एवं सर्वेऽप्येते उत्तरोत्तरभेदात्एकस्मिन् आत्मनि जिते चत्वारः कषायास्तेषां मीलनात् पञ्चपञ्चसु आत्मकषायेषु जितेषु इन्द्रियाणि पञ्च जितानि, तदा दश शत्रवो जिता:। आत्मा, कषायाश्चत्वारः, एवं पञ्च, पुन: पञ्चेन्द्रियाणि एवं दशैव आत्मकषाया:, नोकषाया इन्द्रियाणि। एते सर्वे शत्रवोऽजिता: सन्ति, तान् सर्वान् शत्रून् यथान्यायं वीतरागोक्तवचसा जित्वा अहं विहरामि, तेषां मध्ये तिष्ठन्नपि अप्रतिबद्धविहारेण विचरामि। अत्रपूर्वं हि प्रश्नकाले अनेकेषां सहस्राणां अरीणांमध्ये तिष्ठसि इत्युक्तम्, उत्तरसमये तुकषायाणाम् अवान्तरभेदेन षोडशसंख्या भवति, नोकषायाणां नवानां मीलनाच्च पञ्चविंशतिभेदा भवन्ति, तथा आत्मेन्द्रियाणामपि सहस्र संख्या न भवति, परंतु एतेषां दुर्जयत्वात् सहस्रसंख्या उक्तेति भावः // 38 // साहु गोयम ! पन्ना ते , छिन्नो मे संसओ इमो। अन्नो वि संसओ मज्झं, तं मे कहसु गोयमा ! // 39 // अस्यार्थस्तु पूर्ववत्॥३॥ दीसंति बहवे लोए, पासवद्धा सरीरिणो। मुक्कपासो लहुब्भूओ, कहं तं विहरसी मुणी !||40|| पुन: केशी वदति-हे गौतम मुने!लोकेसंसारे बहवः शरीरिण: पाशबद्धा: दृश्यन्ते, त्वं मुक्तपाशः सन् लघुभूतः सन् कथं विचरसि हे मुने!11४011 ते पासे सव्वसो छित्ता, निहंतूण उवायओ। मुक्कपासो लहुन्भूओ, विहरामि अहं मुणी ! ||1|| तान् पाशान् सर्वान् छित्त्वा पुन: उपायेन बुझ्या निहत्य मुक्तपाशो लघुभूतोऽहं विहरामि / / 41 // पासा य इइ के वुत्ते, केसी गोयममव्ववी। तओ केसिं वुवंतं तु, गोयमो इणमव्ववी॥४२॥ इति गौतमवाक्यादनन्तरं केशिश्रमणो गौतममब्रवीत्-हेगौतम! पाशा: के उक्ता बन्धनानि कानि उक्तानि ? / तत इति पृच्छन्तं केशिकुमारमुनि गौतम इदमुत्तरम् अब्रवीत् // 42 // रागदोसादओ तिव्वा, नेहपासा भयंकरा।। ते छिंदित्तु जहानायं, विहरामि जहक्कम // 43 // हे केशिमुने ! जीवानां रागद्वेषादयस्तीवा: कठोरा: छेत्तुमशक्या: स्नेहपाशा मोहपाशा उक्ताः / कीदृशास्ते स्नेहपाशा:? भयंकरा: भयं कुर्वन्तीति भयङ्कराः, रागद्वेषौ आदौ येषां ते रागद्वेषादयः, रागद्वेषमोहा एव जीवानां भयदाः, तान् स्नेहपाशान् यथान्यायं वीतरागोक्तोपदेशेन छित्त्वा, यथाक्रमं साध्वाचारानुक्रमेण, अहं विहरामि साधुमार्गे विचरामि // 43 // साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो। अन्नो वि संसओ मज्झं, तं मे कहस गोयमा !||4|| अस्यार्थस्तुपूर्ववत्॥४४॥ अंतोहिययसंभूया, लया चिट्ठइ गोयमा!। फलेइ विसमक्खीणं, साउ उद्धरिया कहं?||५|| हे गौतम ! सा लता सा वल्ली त्वया कथं केन प्रकारेण उद्धृता उत्पाटिता? सा का? या लता अन्तर्हृदयसम्भूता सती तिष्ठति, अन्तर्हृदयं मन उच्यते, एतावता मनसि उद्गता पुनर्या वल्ली विषभक्ष्याणि फलानि फलति-विषवद्भक्ष्याणि विषभक्ष्याणि विषफलानि उत्पादयति, पर्यन्तदारुणतया विषोपमानि फलानि यस्या लताया भवन्ति // 45 // तं लयं सव्वसो छित्ता, उद्धरित्ता समूलियं। विहरामि जहानायं, मुक्को मि विसभक्खणा / / 46|| गौतमो वदति-हे मुने! तां लता सर्वतःसर्वप्रकारेण छित्त्वाखण्डीकृत्य, पुनः समूलिका मूलसहिताम् उद्धृत्य उत्पाट्य, यथान्यायं साधुमार्गे विहरामि, ततोऽहं विषभक्षणात् विषोपमफलाहारात मुक्तोऽस्मि॥४६।। लया य इइ का वुत्ता, केसी गोयममव्ववी !! तओ केसिं दुवंतं तु, गोयमा इणमय्ववी // 47|| हे गौतम ! लता इति का उक्ता? इति पृष्ट सति इति त्रुवन्तं केशिमुनि, गौतम इदम् अब्रवीत् // 47 // भवतण्हा लया वुत्ता, भीमा भीमफलोदया। तमुद्धित्तु जहानायां, विहरामि महामुणी! ||4|| हे केशिमुने! भवे संसारे तृष्णा लोभप्रकृतिलता वल्ली उक्ता, कीदृशी सा? भीमा भयदायिनी, पुनः कीदृशी ?भीमफलोदया भीमो दुःखकारणानां फलानां दुष्टकर्मणाम् उदयो विपाको यस्या: सा भीमफलोदया दु:खदायककर्मफलहेतुभूता, "लोभमूलानि पापानि' इत्युक्तत्वात् / तां तृष्णावल्लीं यथान्यायम् उद्धृत्य अहं विहारं करोमि // 48 // साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो। अन्नो वि संसओ मज्झं, ते मे कहसु गोयमा ! ||4|| अर्थस्तुपूर्ववत्॥४६॥ संपजलिया घोरा, अम्गी चिट्ठइ गोयमा !! जे महंति सरीरत्था, कहं विज्झाविया तुमे ? // 50 // हे गौतम ! संप्रज्वलिता जाज्वल्यमाना घोरा भीषणा अग्नय: संसारे तिष्ठन्ति, ये अग्रय: शरीरस्थान् अर्थात् प्राणिनो जीवान् दहन्ति ज्वालयन्ति, तेऽग्नयस्त्वया कथं विध्यापिता:? कथं शमिता इत्यर्थः।।५०|| महामेहप्पसूयाओ, गिज्झ वारि जलुत्तमं / सिचामि सययं ते उ, सित्ता नेव महंति मे ||51 //