________________ गोयमकेसिज्ज 962- अभिधानराजेन्द्रः - भाग 3 गोयमकेसिज्ज तदा ते ऋजुजडा: पञ्चमहाव्रतानि पालयन्ति, नो चेत्ते व्रतभङ्ग कुर्वन्ति, ते तुयावन्मात्रमाचारं शृण्वन्ति तावन्मात्रमेव कुर्वन्ति, अधिकंस्वबुद्ध्या किमपिन विदन्ति। महावीरस्य साधवोऽपि चेत्पञ्चमहाव्रतानि शृण्वन्ति तदैव पालयन्ति, तेऽपि वक्रा जडाश्च, चेत् चत्वारि महाव्रतानि शृण्वन्ति तदा चत्वार्येव पालयन्ति, न तु पञ्चमं पालयन्ति / वक्रजडादिकदाग्रहग्रस्ता: अतीव हठधारिणः, द्वाविंशतितीर्थकृत्साधवः ऋजव: प्राज्ञाश्चत्वारि श्रुत्वा सुबुद्धित्वात् पञ्चापि व्रतीनि पालयन्ति / / तस्माचत्वारि व्रतानि प्रोक्तानि, तस्मात्धर्मो द्विविधा कृतः चातुतिकः, पञ्चव्रतात्मकश्च / स्वस्वारकपुरुषाणाम् अभिप्राय विज्ञाय तीर्थकरैर्धर्म उपदिष्ट इति भावः // 27 // साहु गोयम ! पन्ना ते, छिन्नो मे सेसओ इमो। अन्नो वि संसओ मज्झं,तं मे कहसु गोयमो !|28|| इति श्रुत्वा केशिकुमार: श्रमणो वदति-हे गौतम! ते तवसाधु प्रज्ञाऽस्ति सम्यक् बुद्धिरस्ति, मे मम अयं शंसयस्त्वया छिन्नो दूरीकृतः अन्योऽपि मम शंसयोऽस्ति, तमिति तस्योत्तरं हे गौतम ! त्वं कथयस्व। इदं वचनं हि शिष्यापेक्षं, नतुतस्य केशिमुनेनित्रयवत एवं विध: शंसयसम्भवः // 28 // अचेलगो य जो धम्मो, जो इमो संतरुत्तरो। देसिंओ वद्धमाणेण, पासेण य महायसा // 26 // एककजपवन्नाणं, विसेसे किं नु कारणं। लिंगे दुविहे मेहावी!, कहं विप्पचओ न ते?॥३०॥ वर्द्धमानेन चतुर्विशतितमतीर्थकरेण यो धर्मोऽचेलकःप्रमाणोपेतजीर्णप्रायो धवलवस्त्रधारणात्मकः साध्वाचारो दिष्टः, च पुन: पार्थेन महायशसा त्रयोविंशतितमतीर्थकरेण योऽयं धर्मः सान्तरुत्तर: पञ्चवर्णबहुमूल्यप्रमाणरहितवस्त्रधारणात्मक: साध्वाचार: प्रदर्शितः, हे मेधाविन् ! एककार्यप्रतिपन्नयोः श्रीवीरपार्श्वयोर्विशेषे भेदे किं कारणं को हेतुः?, हे गौतम! द्विविधे लिङ्गे द्विप्रकारके साधुवेषभेदे तव कथं विप्रत्ययो न उत्पद्यते कथं सन्देहो न जायते ? उभी अपि तीर्थकरौ मोक्षकार्यसाधको कथं ताभ्यां वेषभेद: प्रकाशितः ? इति कथं तव अयं संशयो न भवति? ||30|| केसिं एवं वुवंताणं, गोयमो इणमट्ववी। विनाणेण समागम्म, धम्मसाहणमिच्छियं // 31 // गौतम एवं वुवाणं केशिकुमारं मुनिम् इदम् अब्रवीत् हे केशिमुने ! तीर्थकरैर्विज्ञानेन विशिष्टज्ञानेन केवलज्ञानेन समागम्य यत् यत् यस्य उचितं तत्तथैव ज्ञात्वा धर्मसाधनं धर्मोपकरणं वर्षाकल्पादि इदम् ऋजुप्राज्ञयोग्यम्, इदं वक्रजड़योग्यम् इति ईप्सितम् अनुमतम् इष्टं कथितमिति यावत्, यतो हि शिष्याणां रक्तवर्णादिवस्त्रानुज्ञाने वक्रजडत्वेन रञ्जनादिषु प्रवृत्तितर्दुर्निवारा एव स्यात्, पार्श्वनाथशिष्यास्तु ऋजुप्राज्ञत्वेन शरीराच्छादनमात्रेण प्रयोजनं जानन्ति, न च ते किञ्चित्कदाग्रहं कुर्वन्ति // 31 // पञ्चयत्थं च लोगस्स, नाणाविहविगप्पणं। जत्तत्थं गहणत्था च, लोगे लिंगप्पओयणं // 32|| हे केशिमुने ! नानाविधं विकल्पनं नानाप्रकारोपकरणपरिकल्पनम् | अनेकप्रकारोपकरणचतुर्दशोपकरणधारणं वर्षाकल्पादिकं च यत् / पुननर्लोकलिङ्गस्य प्रयोजनं साधुवेषस्य प्रवर्तनं यत्तीर्थकरुक्तं तत् लोकस्य प्रत्ययार्थ लोकस्य गृहस्थस्य प्रत्ययाय, यतो हि साधुवेषं लुचनाद्याचारं च दृष्ट्वा अमी व्रतिन इति प्रतीतिरुत्पद्यते / अन्यथा विडम्बका: पाखण्डिमनोऽपि पूजाद्यर्थ वयं व्रतिन इति व्रवीरन, ततश्च व्रतिषु अप्रतीतिः स्यात्, अतो नानाविधविकल्पनं, लिङ्गप्रयोजनं च पुनर्यात्रार्थ संयमनिर्वाहार्थ, यतो हि वर्षाकल्पादिकं विना वृष्ट्यादिना संयमनिर्वाहो न स्यात्, तेन वर्षाकल्पादिकं वर्षर्तुयोग्य: आचार उपकरणधारणं चदर्शितम्, पुनर्ग्रहणं ज्ञानंतदर्थम् इति ग्रहणार्थ, ज्ञानाय इत्यर्थः / यदि कदाचित् चित्तविप्लवोत्पत्तिः स्यात् परीषहोत्पत्तौ संयमे अरतिरुत्पद्यते, तदा साधुवेषधारी मनसि एतादृशं ज्ञानं कुर्यात्-यतोऽहं साधोर्वेषधारी अस्मि, यतो "धम रक्खइ वेसो" इत्युक्तत्वात् इत्यादिहेतोर्लिङ्गधारणं ज्ञेयम् // 32 // अह भवे पइन्नाओ, मोक्खसब्भूयसाहणे। नाणं च दंणणं चेव, चरित्तं चेव निच्छए॥३३॥ पुनातमो वदति-हे केशिकुमारश्रमण ! निश्चयेन येन ये मोक्षसद्भूतसाधनानि ज्ञानदर्शनचारित्राणि सत्यानि साधनानि निश्चयनये वर्तन्ते, अथ प्रतिज्ञा भवेत् श्रीपार्श्वनाथमहावीरयोः इयम् एका एव प्रतिज्ञा भवेत्, श्रीपार्श्वनाथस्याऽपि मोक्षस्य साधनानि ज्ञानदर्शनचारित्राण्येव, श्रीवीरस्यापि मोक्षस्य साधनानि ज्ञानदर्शनचारित्राण्येव; श्रीपनार्श्ववीरयोरेषा प्रतिज्ञा भिन्ना नास्ति इत्यर्थः। वेषस्य अन्तरम् ऋजुजडवक्रजडाद्यर्थः, मोक्षस्य साधने वेषो व्यवहारनये ज्ञेयः, न तु निश्चयनये वेषः / निश्चये तु ज्ञानदर्शनचारित्राण्येव तत्र, ज्ञानं मतिज्ञानादिकम्, दर्शनंतत्त्वरुचिः, चारित्रं सर्वसावधविरतिरूपं, तस्मात् निश्चयव्यवहारनयौ ज्ञातव्यौ इत्यर्थः।।३३।। साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमा। अन्नो वि संसओ मज्झं, तं मे कहसु गोयमा !||34 // अस्या अर्थस्तु पूर्ववत्, नवरं प्रसङ्गतः शिष्याणां व्युत्पत्यर्थ जाननपि अपरमपि वस्तुतत्त्वं गौतमस्य स्तुतिद्वारण पृच्छन्नाऽपि संशयोत्पादी आह // 34 // अणेगाणं सहस्साणं, मज्झे चिट्ठसि गोयमा !! ते य ते अभिगच्छंति, कहं ते निजिया तुमे ?||35|| केशी वदति-हे गौतम ! अनेकेषां शत्रुसम्बन्धिनां सहस्राणां मध्ये त्वं तिष्ठसि, ते च अनेकसहस्रसंख्या: शत्रवस्ते इति त्वाम् अभिलक्षीकृत्य गच्छन्ति संमुखं धावन्ति, ते शत्रवस्त्वया कथं निर्जिता:?॥३५॥ अथ गौतम उत्तरं वदतिएगे जिए जिया पंच, पंचे जिये जिया दस। दसहा उ जिणित्ता णं, सव्वसत्तू जिणामि हं॥३६|| हे केशिमुने! एकस्मिन् शत्रौ जिते पञ्च शत्रयो जिता:, पञ्चसु जितेषु दश शत्रवो जिता:, दशैव वैरिणो वशीकृताः, दशप्रकारान् शत्रून् जित्वा सर्वशत्रून् जयाम्यहम्। यद्यपि चतुर्णा कषायाणाम् अवान्तरभेदेन षोडश संख्या भवति, नोकषायाणां नवानां मीलनात् पञ्चविंशतिभेदा भवन्ति, तथापि सहस्रसंख्खा न भवति , परंतु तेषां दुर्जयत्वात् सहस्रसंख्या प्रोक्ता // 36 //