SearchBrowseAboutContactDonate
Page Preview
Page 985
Loading...
Download File
Download File
Page Text
________________ गोयमकेसिज्ज ६६१-अमिधानराजेन्द्रः - भाग 3 गोयमकेसिज केशिकुमारश्रमणो गौतमम् आगतं दृष्टा सम्यक् प्रतिरूपाम् आगतानां योग्यां, प्रतिपत्तिं सवां, प्रतिपद्यते सम्यक् करोतीत्यर्थः / / 16 / / पलालं फासुयं तत्थ, पंचमं कुसतणाणि य। गोयमस्स निसिज्जाए, खिप्पयं संपणामए॥१७॥ तत्र तिन्दुकोद्याने एव केशिकुमारश्रमणो गौतमस्थ निषद्यायै गौतमस्य उपवेशनार्थ प्रासुकं निर्वीजं चतुर्विधं पलालं, पञ्चमानि कुशतृणानि, चकारात् अन्यान्यपि साधुयोग्यानि तृणानि (संपणामए) समर्पयति / पञ्चमत्वं हि कुशतृणानां पलालभेदेन। चतुर्विधं पलालं यथा-"तणपणगं पन्नत्तं, जिणेहि कम्मट्ठगट्टमहणेहिं। साली १वीही 2 कोद्दव 3, रालग 4 रन्ने तणा 5 पञ्च // 1 // " इति वचनात् चत्वारि पलालानि साधुप्रस्तरणयोग्यानि, पञ्चमं हि दर्भादिप्रासुकं तृणं वर्तते, तत् केशिकुमारश्रमणेन गौतमस्य प्रस्तारणार्थं प्रदत्तमिति भावः / / 17 / / केसीकुमारसमणो, गोयमे य महायसे। उभओ निसन्ना सोहंति, चंदसूरसमप्पभा||१८|| तदा के शिकुमारश्रमणश्च पुनर्गौतमो महायशाः, एतौ उभौ तत्र तिन्दुकोद्याने निषण्ण उपविष्टा, शोभते विराजेते, कथम्भूतौ तौ ? चन्द्रादित्यसमप्रभौ // 15 // समागया वहू तत्थ, पासण्डा कोउगा मिया। गिहेत्थाणं अणेगाओ, साहस्सीओ समागया।।१९।। तत्रतस्मिन् तिन्दुकोद्याने, बहवः पाखण्डा अन्यदर्शिन: परिव्राजकादय: समागताः, कीदृशास्ते पाखण्डा:? कौतुकात् मृगाः आश्चर्याद् मृगा इव अज्ञानिन:, तु पुन: अनेकलोकानां सहस्रं समागतम् अनेका प्रचुरा लोकानां सहस्रयपि आर्षत्वात्, समागता तत्र संप्राप्ता / / 16 // देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा। अदिस्साणं च भूयाणं, आसी तत्थ समागमो।२०।। तत्र तस्मिन् फदेशे देवदानवगन्धर्वा यक्षराक्षसकिन्नराः, समागता इति शोष: / च पुनस्तत्र अदृश्यानां भूतानां केलीकिलव्यन्तराणां समागमः सङ्गम आसीत्॥२०॥ पुच्छामि ते महाभाग !, केसी गोयममव्ववी। तओ केसिं वुवंतं तु, गोयमो इणमव्वी // 21 // तयोर्जल्पमाह-तदा केशी गौतममब्रवीत् / किमब्रवीदित्याह-हे महाभाग ! ते त्वाम् अहं पृच्छाति / यदा केशिकुमारेण इत्युक्तं तदा केशिकुमारश्रमणं ब्रुवन्तंगोतम इदम् अब्रवीत्॥२१॥ पुच्छ भंते ! जहिच्छं ते, केसिं गोयममव्ववी। तओ केसी अणुन्नाए, गोयतं इणमव्ववी / / 22 / / गौतमो वदति-हे भदन्त ! हे पूज्य ! ले तव यथेच्छ यत् तव चेतसि अवभासते तत् त्वं पृच्छ-मम प्रश्नं कुरु इति के शिकुमारं प्रति गौतमोऽब्रवीत् 'गौतमम्' इति प्राकृतत्वात् प्रथमास्थाने द्वितीया। ततो गौतमवाक्यादनन्तरं केशिकुमारो गौतमेन अनुज्ञात: सन् गौतमेन दत्ताज्ञ: सन् गौतम प्रति इदं वक्ष्यमयणं वचनमब्रवीत् / / 22 / / चाउजामो य जो धम्मो, जा इमो पंचसिक्खिओ। देसिओ वद्धमाणेणं, पासेण य महामुणी|२३|| 1 टीकाकारोक्तरीत्या''लोगाणं तु अणेगाओ' 'इति पाठाऽनुमीयते। / एककलपवन्नाणं, विसेसे किं नु कारणं / धम्मो दुविहो मेहावी!, कहं विप्पचओ न ते ? ||24|| हे गौतम ! पार्श्वन मुनिना तीर्थकरेण यश्चा-तुर्यामश्चातुर्वतिकोऽयम् अस्माकं धर्मो उद्दिष्टः, पुनर्योऽयं धर्मो वर्द्धमानेन पञ्चशिक्षिकः पञ्चव्रतात्मको दिष्टः कथितः // 23 // एककार्ये मोक्षसाधनरूपे कार्ये प्रपन्नयोः श्रीपार्श्वमहावीरयोर्विशेषे भेदे किं कारणम् ?, मेधाविन् ! द्विविधेधर्मे तव कथं विप्रत्ययो न भवति? यतो द्वौ अपि तीर्थकरौद्वावपि मोक्षकार्यसाधने प्रवृत्तौ कथमनयोर्भेद इति हेतोस्तव मनसि कथं विप्रत्ययो न भवति सन्देहो न भवति ? ||24|| तओ केसिं वुवंतं तु, गोयमो इणमव्ववी। पण्णा समिक्खिए धम्म-तत्तं तत्तविणिच्छ्यं / / 25 / / ततोऽनन्तरं केशिकुमारश्रमणं ब्रुवन्तं कथयन्तं गौतम इदम् अब्रवीत् हे केषिकुमारश्रमण ! प्रज्ञा बुद्धिर्धर्मतत्त्वं धर्मस्य परमार्थं पश्यति धर्मतत्त्वं बुद्ध्या एव विलोक्यते, " सूक्ष्मं धर्मं सुधीर्वत्ति" इति वचनात्। कीदृशं धर्मतत्त्वम् ? तत्त्वविनिश्चयं तत्त्वानां जीवादीनां विशेषेण निश्चयो यस्मिन् तत्तत्त्वविनिश्चयम्, केवलं धर्मतत्त्वस्य श्रवणमात्रेण निश्चयो न भवति किन्तु प्रज्ञावशादेव धर्मतत्त्वस्य विनिश्चय: स्यादिति भावः // 25 // पुरिमा उजुजड्डाओ, वकजड्डाय पच्छिमा। मज्झिमा उजुपन्नाओ, तेण धम्मो दुहा कओ // 26|| केशिकुमारश्रमण ! पुरिमा: पूर्वे प्रथमतीर्थकृत्साधवः आदीश्चरस्य मुनय ऋजुजडा: ऋजवश्च ते जडाश्च ऋजुजडा:, बभूवुरिति शेषः / शिक्षाग्रहणतत्परा: ऋजवः, दुष्प्रतिपाद्यतया जडा मूर्खाः / तुशब्दो यस्मादर्थे पश्चिमा: पश्चिमतीर्थकृत्साधवो महावीरस्य मुनयो वक्रजडा:वक्राश्च ते जडाश्च वक्रजडा:, वक्रा: प्रतिबोधसमये वक्रज्ञाना:, जडा: कदाग्रहपरा:, तादृशा बभूवूः तु पुनर्मध्यमा: मध्यमतीर्थङ्कराणां मुनयो द्वाविंशतितीर्थकृत्साधवः ऋजुप्राज्ञा: बभूवुः, ऋजवश्च प्राज्ञाश्च ऋजुप्राज्ञा:, ऋजव: शिक्षाग्रहणतत्परा:, पुन: प्राज्ञा: प्रकृष्टबुद्धयः, तेन कारणेन हे मुने धर्मो द्विधा कृतः॥२६|| पुरिमाणं दुट्विसोज्झो, चरिमाणं दुरणुपालओ चेव। कप्पो मज्झिमगाणं तु, सुविसोज्झो सुपालओ / / 27 / / (पुरिमाणं इति) प्रथमतीर्थकृत्साधूनां कल्प: साध्वाचारोदुर्विशोध्य: दुःखेन निर्मलीकरणीयः, ऋजुजडा: कल्पनीया: कल्पनीयज्ञानविकला:, पुनश्चरमाणां चरमतीर्थकृत्साधूनां दुरनुपालक:-दुःखेन अनुपाल्यते इति दुरनुपालकः, महावीरस्य साधवो वक्र जडा: वक्रत्वाद्विकल्पबहुलत्वात् साध्वाचारं जानन्तोऽपि कर्तुमशक्ताः, तु पुनर्मश्यमगानां द्वाविंशतितीर्थ-कृत्साधूनाम् -अजितनाथादारभ्य पार्श्वनाथपर्यन्ततीर्थकरमुनीनां कल्पः साध्वाचारः सुविशोध्यः, सुपालकश्च, साध्वाचारसुखेन निर्मलीकर्तव्यः, पुन: सुखेन पाल्य:, द्वाविंशतितीर्थकृत्साधवो हि ऋजुप्राज्ञा:-स्तोके नोक्तेन बहुज्ञा: तस्माच्चातुर्वतिको धर्म उद्दिष्टः / मैथुनं हि परिग्रहे एव गण्यते, आदीश्वरस्य साधूनां यदि पञ्च महाव्रतानि प्राणातिपातविरतिमृषावादविरतिमैथुनविरति परिग्रहविरतिरूपाणि पृथक् 2 कथ्यन्ते
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy