________________ गोयमकेसिज्ज ६६०-अमिधानराजेन्द्रः - भाग 3 गोयमकेसिज्ज मतिश्रुतावधिज्ञाननसहित:, पुनः कीदृशः? शिष्यसङ्घसमाकुलः शिष्यवर्गसहितः // 3 // तिंदुयं नाम उजाणं, तम्मी नयरमंडले। फासुए सिजसंथारे, तत्थ वासमुवागए||४|| स के शिकुमारश्रमणस्तत्र श्रावस्त्यां नगर्या तस्या: श्रावस्त्या: नगरमण्डले पुरपरिसरे तिन्दुकं नाम उद्यानं वर्तते, तत्रोद्याने प्राशुके प्रदेशे जीवरहिते शय्यासंस्तारेवासम् उपागतः, शय्या वसतिः, तस्यां संस्तार: शय्यासंस्तारः, तस्मिन् समवसृत इत्यर्थः||४|| अह तेणेव कालेणं, धम्मतित्थयरे जिणे / भगवं वद्धमाणे त्ति, सव्वलोगम्मि विस्सुए।।।। अथशब्दो वक्तव्यान्तरोपन्यासे, तस्मिन् एव काले धर्मतीर्थकरो जिनो भगवान् श्रीवर्द्धमान इति सर्वलोके विश्रुतोऽभूत् / / 5 / / तस्स लोगपईवस्स, आसि सीसो महायसे। भयवं गोयमे नाम, विजाचरणपारगे // 6|| तस्य श्रीवर्द्धमानस्वामिनो लोकप्रदीपस्य तीर्थकरस्य गौतमनामा शिष्योऽभूत, कथम्भूतो गौतमः? महायशा: महाकीर्तिः, पुनः कीदृशो गौतमः? विद्याचरणपारगः ज्ञानचरित्रधारी, पुनः कीदृशो गौतमः? भगवान् चतुर्ज्ञानी मतिश्रुत्यवधिमन:-पर्यायज्ञानयुक्।।६।। बारसंगविऊ बुद्धे, सीससंघसमाउले। गामाणुगामं रीअंते, सो विसावत्थिमागए 117|| स गौतभोऽपि ग्राभनुग्रामं विहरन् श्रावस्त्यां नगर्यामागतः, कीदृशो गौतमः? द्वादशाङ्ग वित् एकादशाङ्गानि दृष्टिवादसहितानि येन गौतमेन सम्पूर्णानि, ज्ञातानीत्यर्थः। पुनः कीदृशो गौतमः?,वुद्धो ज्ञाततत्त्व:, पुन: कीदृश:? शिष्यसङ्घसमाकुल : ||7|| कोट्टगं नाम उजाणं, तम्मी नगरमंडले। फासुए सिज्जसंथारे, तत्थ वासमुवागए।|| तस्या: श्रावस्त्या नगा मण्डले परिसरे क्राष्टकं नाम उद्यानं वर्तते तत्र प्रासुके 'सिज्जासंथारे' वासम् अवस्थानम् उपागतः प्राप्तः / / 8 / / केसीकुमारसमणो, गोयमो य महायसे। उमओ वि तत्थ विहरिंसु, अल्लीणा सुसमाहिया / / 6 / केशिकुमारश्रमणश्च पुनर्गौतमः, एतौ उभौ अपि व्यवहाष्टीम् आगाताम, कीदृशौ ता उभौ? महायशसौ, पुन:कीदृशौ? अलीनौ मनोवाकायगुप्तिष्वाश्रितौ, पुन:, कीदृशौ? सुसमाहितौ सम्यक् समाधियुक्तौ / / 6 / / उभयो सीससंघाणं, संजयाणं तवस्सिणं। तत्थ चिंता समुप्पन्ना, गुणवंताण ताइणं / / 10 / / तत्र तस्यां श्रावस्त्यामुभयो: केशिगौतमयोः शिष्यसकानां संयतानां तपस्विनो साधूनां गुणवतां ज्ञानदर्शनचारित्रवतां तायिणां षड्जीवरक्षाकारिणां परस्परावलोकनात् चिन्ता समुत्पन्ना विचार: समुत्पन्नः // 10 // केरिसो वा इमो धम्मो, इमो धम्मो व केरिसो ? आयारधम्मपणिही, इमा वा सा व केरिसी?||११॥ अयम् अस्मत्संबन्धी धर्मः, कीदृशः, वा इति विकल्पे, वाशब्दोऽथवार्थे वा, अथवा-अयं धर्मो दृश्यमानगणभृत् शिष्य सम्बन्धी कीदृशः पुनरयम् ? आचारधर्मप्रणधिरस्माकं कीदृशः, पुनरेतेषां वा आचारधर्मप्रणिधिः कीदृशः, प्राकृतत्वात् लिङ्ग व्यत्ययः, आचारो वेषधारणादिको बाह्यः क्रियाकलाप:, स एव धर्मः, तस्य प्रणधिर्व्यवस्थापनम् आचारधर्मप्रणधि:, पृथक् 2 कथं सर्वज्ञोक्तस्य धर्मः, तत्साधनानां च भेदमनुज्ञातुमिच्छाम इति भावः // 11 // चाउज्जामो य जो धम्मो, जो इमो पंचसक्खिओ। देसिओ वद्धमाणेणं, पासेण य महामुणी // 12 // अचेलगे य जो धम्मो, जो इमो संतरुत्तरो। एककन्जपवन्नाणं, विसेसे किं नु कारणं / / 13 / / (युग्मम्) यश्चायं चातुर्यामो धर्मः पार्श्वेन महामुनिना तीर्थकरेण दर्शित:, चत्वारश्च यमाश्च चतुर्यमाः, तत्र यश्चातुर्यामः चातुातिको-अहिंसासत्य-चौर्यत्याग-परिग्रहत्याग-लक्षणो धर्मः प्रकाशितः। यश्च पुनरयं धर्मो वर्द्धमानेन पञ्चशिक्षिकः, पञ्चशिक्षितोवा, पञ्चभिर्महाव्रतैः शिक्षितः पशशिक्षितः प्रकाशितः, पश्चसु शिक्षासु भवः पञ्चशिक्षिकः, पञ्चमहाव्रतात्मः अहिंसासत्यचौर्यत्यागमैथुन-परिहारपरिग्रहत्यागलक्षणो धर्मः प्रकाशितः।।१२पुनर्वर्द्धमानेन अचेलको धर्मः प्रकाशितः, अचेलं मानोपेतं धवलं जीर्णप्रायम् अल्पमूल्यं वस्त्र धारणीयमिति वर्द्धमानस्वामिना प्रोक्तम्, असत इव चेलं यत्र सचेलः, अचेल एव अचेलकः, यत् वस्त्रं सदपि असत् इव तत् धार्यमित्यर्थः। पुनर्यो धर्मः पार्श्वन स्वामिना सान्तरोत्तरः सह अन्तरेण उत्तरेण प्रधानबहुमूल्येन नानावणेन प्रलम्बन वस्त्रेण च वर्तते य: स सान्तरोत्तर:-सचेलको धर्मः प्रकाशितः, एककार्ये मुक्तिरूपे कार्ये प्रवृत्तयोः श्रीवीरपार्श्वयोर्विशेषे किं नु कारणं को हेतुः, कारणभेदे हि कार्यभेदसम्भवः, कार्य तु उभयोरेकमेव, कारणं च पृथक् 2 कथमिति भावः? किमिति प्रश्ने, नुरिति वितर्के // 13 // अह ते तत्थ सीसणं, विनाय पवियक्कियं / समागमे कयमई, उभयो केसिगोयमा ||14|| अथानन्तरं तयोरुभयोस्तत्र श्रावस्त्याम् आगमनानन्तरं केशिगौतमौ तौ उभौ समागमे कृतमती अभूताम् / किं कृत्वा ?, शिष्याणां च क्षुल्लकानां प्रवितर्कितं विज्ञाय विकल्पं ज्ञात्वा / 14 / गोयमो पडिरूवन्नू, सिस्ससंघसमाउले। जेडं कुलमविक्खंतो, तिदुश्रवणमागओ / / 15 / / गौतमस्तिन्दुकं वनम् आगतः केशिकुमाराऽधिष्ठिते वने आगतः, कीदृशो गौतमः? प्रतिरूपज्ञः प्रतिरूपो यथोचितविनय: तं जानातीति प्रतिरूपज्ञः, पुनः कीदृशः? शिष्यसङ्घसमाकुलः शिष्यवृन्दसहितः, गौतमः किं कुर्वाण:?,ज्येष्ठं कुलम् अपेक्ष्यमाण: ज्येष्ठं वृद्धं प्रथमभवनात्पार्श्वनाथस्य, कुलं सन्तानं विचारयत इत्यर्थः।।१५।। केसीकुमारसमणे, गोयमं दिस्समागयं। पडिरूवं पडीवत्तिं, सम्मंच पडिवाइ॥१६||