SearchBrowseAboutContactDonate
Page Preview
Page 981
Loading...
Download File
Download File
Page Text
________________ गोयम ९५७-अभिधानराजेन्द्रः - भाग 3 गोयम नगारः / अयंचावगीतगोत्रोऽपि स्यादित्यत आह-(गोयमगोत्ते णं ति) गौतमसगोत्र इत्यर्थः / अयञ्च तत्कालोचितदेहमानापेक्षया न्यूनाधिकदेहोऽपि स्यादित्यत आह-(सत्तुस्सेहे त्ति) सप्तहस्तोच्छ्रयः / अयं च लक्षणहीनोऽपि स्यादित्य आह-(समचउरंससंठणसंठिए त्ति) समं नाभेरुपरि अधश्च सकलपुरुष-लक्षणोपेतावयवतया तुल्यं, तच्च तचतुरस्रं च प्रधानं समचतुरस्रम् / अथवा समा: शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽस्रयो यस्य तत्समचतुरस्रम्। अस्रयस्त्विह चतुर्दिग्भागोपलक्षिताः शरीरावयवा इति / अन्ये त्वाहुः-समा अन्यूनाधिकाश्च-तस्रोऽप्यश्रयो यत्र तत्समचतुरस्रम् / अश्रयश्च पर्यङ्कासनोपविष्टस्य जानुनोरन्तरम्, आसनस्य ललाटोपरिभागस्य चान्तरं, दक्षिणस्कन्धस्य वामजानुन अन्तरं, वामस्कन्धस्य दक्षिणजानुनश्चान्तरमिति। अन्ये त्वाहुः-विस्तारोत्सेधयो: समत्वात् समचतुरसं, तच्चतत्संस्थानचाकारः समचतुरस्रसंस्थानं, तेन संस्थितो व्यवस्थितो यः स तथा / अयञ्च हीनसंहननोऽपि स्यादित्यत आह(वजरिसहणारायसंघयणे ति)इह संहननम् अस्थिसंचयविशेषः / वज़ादीनां लक्षणमिदम् "रिसभो य होइ पट्टो, वज्जं पुण कीलयं वियाणाहि / उभओ मक्कडवंधो, णारयं तं वियाणाहि" ||1|| तत्र वजं च तत्कीलिकाकीलितकाष्ठसम्पुटेापमसामर्थ्ययुक्तत्वात्, ऋषभश्च लोहादिमयपट्टबद्धकाष्ठसम्पुटोपमसामर्थ्यान्वितत्वाद्वजर्षभः / स चासो नाराचश्च उभयतो मर्कटबन्धनिबद्धकाष्ठसम्पुटोपमसाोपेतत्वात् वज्रर्षभनाराच:, स चासौ संहननमस्थिसंचयविशेषोऽनुत्तमसामर्थ्ययोगाद्यस्यासौ वर्षभनाराचसंहनन: / अन्येतु कीलिकादिमत्त्वमस्थामेव वर्णयन्ति। अयश्च निन्द्यवर्णोऽपिस्यादित्यत आह-(कणगपुलगनिघसपम्हगोरे) कनकस्य सुवर्णस्य (पुलग त्ति) य: पुलको लवस्तस्य यो निकष: कषपट्टके रेखालक्षणः, तथा। (पम्ह त्ति) पद्मपक्ष्माणि केसराणि तद्वद्गौरो य: स तथा / वृद्धाव्याख्या तु कनकस्य न लोहादेर्यः पुलकः सारो वर्णातिशयस्तत्प्रधानो यो निकषो रेखा तस्य यत्पक्ष्म बहलत्वं तद्वद्गौरो य: स तथा / अथवा कनकस्य य: पुलकोऽद्भुतत्वे सति बिन्दुस्तस्य निकषो वर्णत: सदृशो य: स तथा 1 (पम्ह त्ति) पद्मं, तस्य चेह प्रस्तावात्केसराणि गृह्यन्ते, ततः पद्मवद्रौरोय: स तथा। ततः पदद्वयस्य कर्मधारयः / अयञ्च विशिष्टचरणरहितोऽपि स्यादित्यत आह-(उग्गतवे त्ति) उग्रमप्रधृष्यं तपोऽनशनादि यस्य स उग्रतपाः, यदन्येन प्राकृतपुंसा न शक्यते चिन्तयितुमपि तद्विधेन तपसा युक्ता इत्यर्थः। (दित्ततवे त्ति) दीप्तं जाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतया ज्वलितं तपो धर्मध्यानादियस्य स तथा। (तत्ततवे त्ति)। तप्तं तपो येनासौ तप्ततपाः। एवं हि तेन तत्तपस्तप्तं येन कर्माणि सन्ताप्यन्ते न तपसा स्यात्माऽपि पतोरूप: सन्तापितो यतोऽन्यस्यास्पृश्यमिव जातमिति (महातवे त्ति) आशंसादोषरहितत्वात् प्रशस्ततपाः।(उराले त्ति) भीम उग्रादि विशेषेणविशिष्ट-तपःकरणात्पार्श्वस्थानामल्पसत्त्वानां भयानक इत्यर्थः / अन्ये त्वाः-(उराले त्ति) उदार: प्रधान: (धोरे त्ति) घोरो निघृणः, परीषहेन्द्रियादिरिपुगणविनाशमाश्रित्य निर्दय इत्यर्थः। अन्ये त्वात्मनिरपेक्षं घोरमाहुः-(घोरगुणे त्ति) घोरा अन्यैर्दुरनुचरा गुणा लगुणादयो यस्य स तथा (घोरतवस्सि त्तिघोरैस्तपोभिस्तपस्वीत्यर्थः। / घोरबंभचेरवासि त्ति) घोरं दारुणमल्पसत्त्वैर्दुरनुचरत्वाद्यब्रह्मचर्य तत्र वस्तुं शीलं यस्य स तथा। (उच्छूढसरीरे त्ति) उच्छूढम उज्झितमिवोज्झितं शरीरं येन तत्संस्कारत्यागात्स तथा। (संखित्तविलउतेउलेस्से त्ति) संक्षिप्ता शरीरान्तर्लीनत्वेन ह्रस्वतां गता विपुला विस्तीर्णा। अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात्तेजोलेश्या विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा / मूलटीकाकृता तु"उच्छू ढसरीरसंखित्तविपुलतेयले से ति" कर्मधारयं कृत्वा व्याख्यातमिति। (चउद्दसपुस्वि त्ति) चतुर्दशपूर्वाणि विद्यन्तेयस्य तेनैव तेषां रचितत्वादसौ चतुर्दशपूर्वी / अनेन तस्य श्रुतकेवलिता-माह। स चावधिज्ञानादिविकलोऽपि स्यादत आह-(चउनाणो वगए त्ति) केवलज्ञानवर्जज्ञानचतुष्कसमन्वित इत्यर्थः। उक्तविशेषणद्वय-युक्तोऽपि कश्चिन्न समग्र श्रुतविषयव्यापिज्ञानो भवति / चतुर्दशपूर्वविदा षट्स्थानकपतितत्वेन श्रवणादित्यत आह-(सव्वक्खरसंनिवाइत्ति) सर्वे च ते अक्षरसन्निपाताश्च तत्संयोगाः सर्वेषां चाक्षराणां निसन्निपाता: सर्वाक्षरसन्निपातास्तेयस्य ज्ञेयतया सन्ति ससर्वाक्षरसन्निपाती,श्रव्याणि वा श्रवणसुखकारीणि अक्षराणि साङ्गत्येन नितरां वदितुं शीलमस्येति श्रव्याक्षरसन्निवादी, स च एवंगुणविशिष्टो भगवान् विनयराशिरिव साक्षादितिकृत्वा शिष्याचारत्वाच (समणस्स भगवओ महावीरस्स अदूरसरमंते) विहरति इति योगः। तत्र दूरं च विप्रकृष्ट सामन्तं च सन्निकृष्ट, तनिषेधाददूरसामन्तं, तत्र नातिदूरे, नातिनिकट इत्यर्थः। किंविध: संस्तत्र विहरतीत्यत आह-(उ8 जाणु ति) ऊद्ध जानुनी यस्या सावूर्द्धजानुः, शुद्धपृथिव्यासनवर्जनादौपग्रहिकनिषद्याया अभवाच्चोत्कुटकासन इत्यर्थः।(अहो सिरे त्ति) अधोमुखो नोर्द्ध तिर्यग्वा विक्षिप्तदृष्टिः, किन्तु नियतभूभागनियमितदृष्टिरिति भावः / (झाणकोट्ठोवगए त्ति) ध्यानं धर्म्य शुक्लं वा तदेव कोष्ठः कुसू लो ध्यानकोष्ठः, तमुपगतस्तत्र प्रविष्टो ध्यानकोष्ठोपगतः / यथाहि कोष्ठके धान्यं प्रक्षिप्तमविप्रसृतं भवेत्येवं स भगवान् ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरिति (संजमेण ति) संवरेण (तवस त्ति) अनशनादिना, चशब्द; समुच्चयार्थो लुप्तोऽत्र द्रष्टव्यः / संयमतपोग्रहणं चानयोः प्रधानमोक्षाङ्ग त्वख्यापनार्थम् / प्रधानत्वञ्च संयमस्य नवकर्मानुपादानहेतुत्वेन, तपसश्च पुराणकर्मनि-र्जरणहेतुत्येन भवति चाभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच समलकर्मक्षयलक्षणो मोक्ष इति (अप्पाणं भावमाणे विहरइ त्ति) आत्मानं वासयंस्तिष्ठतीत्यर्थः / / तएणं से भगवं गोयमे जायसड्ढे जायसंसये संजायकोउहल्ले उप्पण्णसड्ढे उप्पण्णसंसए उप्पण्णकोउहल्ले संजायसङ्के सुजायसंसए संजायकोउहल्ले उठाए उद्वेति / उट्ठाए उदृत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ / उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ / करेइत्ता वंदइ, णमंसइ, वंदित्ता णमंसित्ता णचासण्णे णातिदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पजुवासमाणे एवं वयासी-|| (तए णं से ति) ततो ध्यानकोष्ठोपगतविहरणानन्तरं, णमितिवाक्यालङ्कारार्थ : 'से' इति प्रस्तुतपरामर्शार्थः। तस्य तु सामान्योक्तस्य विशेषावधारणार्थमाह-(भगवं गोयमे त्ति) कि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy