________________ गोयम 958- अमिधानराजेन्द्रः - भाग 3 गोयम - मित्याह-(जायसड्ढे इत्यादि) जातश्चद्धादिविशेषण; सन्नुत्तिष्ठती-ति योगः। तत्र जाता प्रवृत्ता श्रद्धा इच्छा वक्ष्यमाणार्थतत्त्वज्ञान प्रति यस्यासी जातश्रद्धः। तथा जातः संशयो यस्य स जातसंशयः। संशयस्त्वनवधारितार्थज्ञानम् / स चैवम तस्य भगवतो जातो भगवता हि महावीरेण "चलमाणे चलिए" इत्यादौ सूत्रे चलन्नर्थश्चलितो निर्दिष्टः, तत्र चयएव चलन्स एव चलित इत्युक्तः, ततश्चैकार्थविषयावेतौ निर्देशौ; चलन्निति वर्तमानकालविषय:, चलित इतिचातीतकालविषयः; अतोऽत्र संशयःकथं नाम यएवार्थो वर्तमानः स एवातीतो भवतीति?,विरुद्धत्वादनयो: कालयोरिति / तथा (जायकोऊहल्ले त्ति) जातं कुतूहलं यस्य स जातकुतूहलो, जातौत्सुक्य इत्यर्थः। कथमेतान् पदार्थान् भगवान् प्रज्ञापयिष्यतीति? तथा-(उप्पन्नसड्डे त्ति) उत्पन्ना प्रागभूता सती भूता श्रद्धा यस्य स उत्पन्न श्रद्धः / अथ जातश्रद्ध इत्येतावदेवास्तु कितर्थमुत्पन्नश्रद्ध इत्यभिधीयते, प्रवृत्तश्रद्धत्वेनैवोत्पन्नश्रद्धत्वस्य लब्धत्वात् न ह्यनुत्पन्ना श्रद्धा प्रवर्तत इति? अत्रोच्यतेहेतुत्वप्रदर्शनार्थम् / तथाहि-कथं प्रवृत्तश्रद्धः, उच्यते-यत उत्पन्नश्रद्ध इति हेतुत्वप्रदर्शनचोचितमेव, वाक्यालङ्कत्वात् तस्य यदाहु:"प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां वुवुधे विभावरीम् / " इह यद्यपि प्रवृत्तदीपत्वादेवाप्रवृत्तभास्करत्वमवगतंतथापि अप्रवृत्तभास्करत्वं प्रवृत्तदीपत्वादेर्हेतुतयोपन्यस्तमिति। "उप्पण्णसंसए उप्पण्णकोऊहल्ले त्ति" प्राग्वत्। तथा "संजायसड्डे" इत्यादि पदषट्कं प्राग्वत्, नवरमिह सम्शब्दः प्रकर्षादिवचनः / यथा-"सञ्जातकामो बलजिद्विभूत्यां, मानात् प्रजाभिः प्रतिमाननाच।" ऐन्द्रैश्वर्ये प्रकर्षण जातेच्छ: कार्तवीर्य इति। अन्येतु-"जायसड्ढे' इत्यादि विशेषणद्वादशकमेवं व्याख्यान्तिजाता श्रद्धा यस्य प्रष्टुं स जातश्रद्धः / किमिति जातश्रद्ध इत्यत आहयस्माजातसंशयः इदं वस्त्वेवं यादेवं वेति?। अथ जातसंशयोऽपि कथमित्यत आह-यस्माजातकुतूहल: कथा नामास्यार्थमवभोत्स्ये इत्यभिप्रायवानिति / एतच विशेषणत्रयमव-ग्रहापेक्षया द्रष्टव्यम् / एवमुत्पन्नसंजातसमुत्पन्नश्रद्धत्वादय ईहापायधारणाभेदेन वाच्याः। अन्ये त्वाहुः-जातश्रद्धत्वाद्यपेक्ष-योत्पन्नश्रद्धत्वादय: समानार्था विवक्षितार्थस्य प्रकर्षप्रवृत्तिप्रतिपादनाय स्तुतिमुखेन ग्रन्थकृतोक्ताः, न चैवं पुनरुक्तदोषाय / यदाह- "वक्ता हर्षभयादिभि-राक्षिप्तमना: स्तुवंस्तथा निन्दन् / यत्पदमसकृद् ब्रूते, तत्पुनरुक्तं न दोषाय' ||1 / / इति (उठाए उद्वेति) उत्थानमुत्था, ऊर्दू वर्तनं, तया उत्थया उत्तिष्ठतिऊो भवति। 'उद्वेई' इत्युक्ते क्रियाऽऽरम्भमात्रमपि प्रतीयते, यथा वक्तुमुत्तिष्ठत इति। ततस्तद्व्यवच्छेदायोक्तमुत्थायेति / (उट्ठाए उट्ठए त्ति) उपागच्छतीत्युत्तरक्रि यापेक्षया उत्थनक्रियायाः पूर्वकालताभिधानाय उत्थायोत्थायेति क्त्वाप्रत्ययेत निर्दिशतीति / (जेणेवेत्यादि) इह प्राकृतप्रयोगादव्ययत्वाद्वा येनेति यस्मिन्नेव दिग्भागे श्रमणो भगवान् महावीरो वर्तते (तेणेव त्ति) तस्मिन्नेव दिग्भागे उपागच्छ ति, तत्कालापेक्षया वर्तमानत्वादागमनक्रियाया वर्तमानविभक्त्या निर्देश: कृतः, उपगतवानित्यर्थः / उपागम्य च श्रमणं भगवन्तं महावीरं कर्मतापन्नं (तिक्खुत्तो त्ति) त्रीन वारान् त्रि:कृत्व:(आयहिणपयाहिणं करेइ त्ति) आदक्षिणाद्दक्षिणहस्ता-दारभ्य प्रदक्षिण: परितो भ्राम्यतो दक्षिण एव आदक्षिणप्रदक्षिणोऽतस्तं करोतीति। (वंदइ त्ति) वन्दते वाचा स्तौति। (नमसइ त्ति) नमस्यति, कायेन प्रणमति (नचासन्ने त्ति) न नैव अत्यासन्नोऽति निकटः, अवग्रहपरिहारान्नात्यासन्ने वा स्थाने, वर्तमान इति गम्यम् / (नाइदूरे ति) न नैवातिदूरोऽतिविप्रकृष्टोऽनौचित्यपरिहारात् नातिदूरे वा स्थाने (सुस्सूसमाणे त्ति) भगवववचनानि श्रोतुमिच्छन् (अभिमुहे ति) अभि भगवन्तं लक्षीकृत्य मुखमस्येत्यभिमुखः / तथा (विणएणं ति) विनयेन हेतुना (पंजलिउडे त्ति) प्रकृष्टः प्रधानो ललाटतटघटित्वेन अञ्जलिहस्त-न्यासविशेष: कृतो विहितो येन सोऽग्न्याहितादिदर्शना-त्पाञ्जलिकृतः (पञ्जुवासमाणे त्ति) पर्युपासीन: सेवमानोऽनेन च विशेषणकदम्बकेन श्रवणविधिरुपदर्शितः। आह च-" णिद्दाविगहापरिवञ्जिएहि गुत्तेहि पंजलिउडे हि / भत्तिबहुमाणपुव्वं, उवउत्तेहिं मुणेयव्यं''||१| इति (एवं वयासित्ति) एवं वक्ष्यमाणप्रकारं वस्तु अवादीदुक्तवान् / भ०१ श०१ उ०। विपा० (यदवादीत्तत् 'कज्जकारणभाव' शब्देऽत्रैव भागे 167 पृष्ठे निरूपितम) श्रीवीरजिनेन्द्रस्येन्द्रभूतिर्वायुभूतिरनिभूतिश्चेति त्रय आद्या: शिष्या: तेषु इन्द्रभूतिरेवातिप्रसिद्धः, तत्प्रश्नप्रतिवचनरूपत्वादागमस्य / यदाह भगवान् वीर:..'"चिरसंथुओसि गोयमा!" पं०सं०२ द्वार। जला उपा० विशे०) गौतमेत्यत्र भगवताऽऽत्मनस्तुल्यताऽदर्शियथारायगिहे० जाव परिसा पडिगया गोयमादि० समणे भगवं महावीरे गोयमं आमंतेत्ता एवं वयासी-चिरसंसिट्ठो सि में गोयमा!, चिरसंथुतो सि मे गोयमा !, चिरपरिचितोसि मे गोयमा!, चिरजुसिओसि मे गोयमा !, चिराणुगओसि में गोयमा!, चिराणुवत्तीसि मे गोयमा!, अणंतरं देवलोए अणंतरं माणुस्सए भवे किं परं मरणकायस्स भेदा, इतो चुता दो वि तुल्ला एगट्ठा अविसेसमणाणत्ता भविस्साम। भ०१५ श०७ उ०| ("तुल्ल" शब्दे व्याख्यास्यते)(गौतमस्वामिनः तुङ्गिकापुर्यागोचरचर्यायै गमनं 'उववाय' शब्दे द्वितीयभागे 976 पृष्ठे द्रष्टव्यम्) पञ्चदशशततापसानां गौतमस्वामिना परमान्नेन पारणाकारिता, तत्र लब्धिपरमान्नमदत्तमिति साधूनां कथं कल्पते इति प्रश्ने, उत्तरम्अत्रैकोऽपि परमान्नपतद्ग्रहोऽक्षीणमहानसलब्धिप्रभावेणैव सर्वेषां प्राप्त इत्यात्रादत्तं किमपि ज्ञातं नास्ताति बोध्यमिति // 20 // ही०३ प्रका० निर्वाणगमनं चेत्थम् स्वकीयनिर्वाणसमये देवशर्मणः प्रतिबोधनाय क्वापि ग्रामे स्वामिना प्रेषितः, श्रीगौतमः तं प्रतिबोध्य पश्चादागच्छन् श्रीवीरनिर्वाणं श्रुत्वा वजाहत इव शून्य: क्षणं तस्थौ। बभाण च"प्रसरति मिथ्यात्वतमो, गर्जन्ति कुतीर्थिकौशिका अद्य दुर्भिक्षममरवैरा-दिराक्षसा: प्रसरमेष्यन्ति // 1 // राहुग्रस्तनिशाकर-मिव गगनं दीपहीनमिव भवनम्। भरतमिदं गतशोभ, त्वया विनाऽद्य प्रभो ! जज्ञे / / 2 / / कस्याहिपीठे प्रणतः पदार्थान्, पुनः पुनः प्रश्नपदीकरोमि कं वा भदन्तेति वदामि को वा, मां गौमेत्याप्तगिरा ऽथ वक्ता"?||३|| __ हा हा हा वीर !किं कृतं यदीदशेऽवसरे ऽहं दूरीकृतः, किं