________________ 936 - अभिधानराजेन्द्रः - भाग 3 गुरु प्रस्तुते, कोऽयमप्रस्तुतेन गुरुचित्तोपक्रमेणाऽधिकार? अत्रोत्तरमाह(भण्णईत्यादि) भण्यतेऽत्र प्रतिविधानम् -यद्याख्यानमिह प्रस्तुतं भवता गीयते, तद्गुरुचित्तायत्तमेव / ततश्च गुरुचित्तोपक्रमः प्रथममेव व्याख्यानस्याङ्गं करणम्, कारणमन्तरेण च कार्यस्याभावात्, तस्मिन् प्रकृते ततकारणस्याधिकाराभिधानं न किञ्चिदप्रस्तुतमिति // 630 // न केवलं गुरुचित्तोपक्रमः प्रथमं व्याख्यानाङ्गं, किन्तु यानि कानिचिसामान्येन शास्त्राद्युपक्रमपुस्तकोपाश्रयाहारवस्त्रपात्रसहायादीनि क्ष्याख्यानाङ्गानि तानि सर्वाश्यापि गुरुचित्तायत्तानि नियमतो वर्तन्ते, तस्माद्यथा गुरुचित्तं सुप्रसन्नं भवति तथा कार्यमिति दर्शयन्नाहगुरुचित्तायत्ताई, वक्खाणंगाईजेण सव्वाई। तो जेण सुप्पसन्नं, होइ तयं तं तहा कजं ||31|| गताथैव, नवरं गुरुचित्तं च तदा सुप्रसुन्नं भवतियदाइङ्गिताकाराद्यभिज्ञ: शिष्यस्तदुपक्रमानुकूल्येन प्रवर्तते। अतो न गुरुचित्तोपक्रमोऽत्राऽप्रस्तुत इति भावः // 631 // ___ गुरुचित्तप्रसादनापायनेवाहजो जेण पगारेणं, तुस्सइ करणविणयाणुवत्तीहिं। आराहणाएँ मग्गो, सो चिय अव्वाहओ तस्स ||32|| आगारिंगियकुसलं, जइ सेयं वायसं वए पुजा। तह वि सिं न विकूडे, विरहम्मि य कारणं पुच्छे / / 633|| निवपुच्छियेण गुरुणा, मणिओ ग्रगा कओमुही वहइ। संसाइयवं सीसो,जह तह सव्वत्थ कायव्वं / / 634|| तिस्रोऽपिसुगमाः, नवरं प्रथमगाथायां 'करणेत्यादि' करणं गुर्वादिष्टस्य / सम्पादनं, विनयोऽभिमुखगमनाऽऽसनप्रदानपर्युस्त्यञ्जलिबद्धाइनुब्रजनादिलक्षणः, अनुवृत्तिस्त्विङ्गितादिना गुरुचित्तं विज्ञाय तदाऽऽनुकूल्ये प्रवृत्तिः, ताभिः / द्वितीयगाथायामा-कारेङ्गितकुशलं शिष्यं प्रति यदि श्वेतं वायसं पूज्या गुरवो वदेयुस्तथापि (सिंति) तेषां संबन्धि वचो न विकुट्टयेन प्रतिहन्यात् / विरहे च तद्विषयं कारणं पृच्छेदिति / नृपपृष्टन गुरुणा भणितो 'गङ्गा केन मुखेन बहति?' ततो तथा सर्वमपि गुरुभणितं शिष्य: संपादितवांस्तथा सर्वत्र सर्वप्रयोजनेषु कार्यम् / इति तृतीय गाथाक्षरार्थः। भावार्थस्तु कथानकादवसेयः! विशे०(तच 'अइसेस' शब्दे प्रथमभागे 16 पृष्ठे गुरुवयावृत्यप्रस्तावे उक्तम्) तदेवं गुरुभावोपक्रमे युक्ततया अत्र व्यवथापिते सति परः प्राहजुत्तं गुरुमयगहणं, को सेसोवक्कमोव आयोगत्थ? गुरुचित्तपसायत्थं, ते विजहाजोगमाओजा ||3|| ननूक्तन्यायेन युक्तं तर्हि गुरुमत्तग्रहणं गुरुभावोपक्रमणं शेषाणां तु नामस्थापनाद्रव्याधुपक्रमाणां के इहोपयोगः? येन तेऽप्युपन्यस्ता;? अत्रोत्तरमाह-ननु गुरुचित्तंप्रसादनार्थ तेऽपि शेषोपक्रमा यथायोगं यथाप्रस्तावमायोज्याः सप्रयोजनत्वेनाभ्यूह्या इति / / 635 / / तदेवं द्रव्याधुपक्रमाणां गुरुचित्तप्रसादनोपयोगित्वमाह परिकम्मनासणाओ, देसे काले य जा जहा जोग्गा। ताओ दवाईणं, कजाऽऽहाराइकजेसु // 636|| उवहियजोम्गद्दय्वो, देसे काले परेण विणयेणं। चित्ततण्णू अणुकूलो, सीसो सम्मं सुयं लहइ / / 637|| याः काश्चिद् देशे मरुमण्डलादौ, कलि ग्रीष्मादी, येन केनचित् प्रकारेण, योग्या उचिताः पारकर्मनाशना: परिकर्मविनाशा भवन्ति, ता द्रव्यक्षेत्रकालानां गुरोराहारादिकार्येषु शिष्येण तचित्तप्रसादनार्थ कर्त्तव्याः। तत्र द्रव्यस्य दधिक्षीरनीरादेर्गुडशुण्ठ्युशीरमुस्तादिक्षेपेण परिकर्म भावनीयम्, क्षेत्रस्योपाश्रयादेरुपलेपनादिना, कालस्य मुहूर्तादे: शिक्षकदीक्षादौ घटिकादिनेति / वनिाशेऽपि द्रव्यादीनां द्रव्यान्तरसंयोगादिना भावनीय इति / तत इत्थं गुरुचित्तं प्रसादयन् शिष्य: किमाप्रोति? इत्याह (उवहिएत्यादि) उपहितानि गुरोराहाराद्यर्थ ढौकितानि कृतप रिकर्माणियोग्यासनपानवस्त्रपा-त्रौषधादीनिद्रव्याणि येन, असौ उपहितयोग्यद्रव्य: शिष्यः शेषं सुगमम्॥६३६||६३७॥ समाधानान्तरमाहअहवोवक्कमसाम-प्रणओ मया पगयनिरुवओगा वि। अण्णत्थ सोवओगा, एवं चिय सव्वानिक्खेवो॥६३८|| यदि वा प्रकृते प्रस्तुते निरुपयोगा: प्रकृतिनिरुपयोगाः, एवं भूता अपि सन्तो नामस्थापनाद्रव्याधुपक्रमा: उपक्रमसामान्यतोऽत्र मता उपन्यस्ता: / कुतः? इत्याह-अन्यत्र स्थानान्तरे सोपयोगा इतिकृत्वा, न केवलमत्रैवासौ न्याय:, किन्त्वन्यत्र शास्त्रे, अन्येषु वा शास्त्रेषु ये केचन बहुप्रकारा नामादिनिक्षेपास्तेषां सर्वेषामप्यपरसमाधानाऽभावे इदमेव समाधानं वाच्यमिति। तदेवनामादिभेदैर्दर्शितमुपक्रमस्यषड्डिधत्वम्।।६३८|| यदि वा अन्यथैवायमुपक्रमः षट्टिध इति दिदर्शयिषु: प्रस्तावनामाहगुरुभावोवक्कमणं कयमज्झयणस्स छव्विहमियाणिं (639) तदेवं नामादिभेदैः षद्धिधे उपक्रमे विचार्यमाणे कृतं गुरुभावोपक्रमणम् तत्करणे च दर्शितमेकेन प्रकारेणोपक्रमस्य षड्डिधत्वम्। विशे०। गुणाति प्रवचनार्थतत्त्वमिति गुरुः, प्रवचनार्थप्रतिपादकतया पूज्ये, ना स्था०। तीर्थकरगणधरादौ, विशे०। सूत्र०ा वाचनाऽऽचार्ये, श्रा०। विद्यादायिनि, व्य०१ उ० षो० आ०म०। पितामहे, आव०३ अ० मातापितृप्रभृतौ पूज्ये, "माता पिता कलाचार्यः, एतेषां ज्ञातयस्तथा / वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः"||१|| ध०२ अधि० स्था०। अनुवा कल्याणमित्रे, पं० सू०४ सू० "गुरवो यत्र पूज्यन्ते, यत्र धान्यं सुसंस्कुतम्।।अदन्तकलहो यत्र, तत्र शक्र! वसाम्यहम्' ||1|| सूत्र०१ श्रु०३ अ०२ उ०ा बृहति, व्य०१ उ०। महति, पञ्चा०१० विव०॥ यदूर्ध्व तिर्यग्वा प्रक्षिप्तमपि पुनर्निसर्गादधो निपतति तस्मिन् गुरुद्रव्ये, यथालेष्ट्वादि। विशे० आ०म०।अधोगमनहेतौ अयोगोलकादिगते स्पर्शभेदे, स्था०१ ठा०१ उ०। कर्म०।(किं द्रव्यं गुरु, किं वा लघु? इति 'अगुरुलहुय' शब्दे प्र० भागे 157 पृझे उक्म्) बृहस्पती देवाचार्य, प्रभाकराख्ये मीमांसकभेदे, कपिकच्छूवुक्षे, "सानुस्वारो विसर्गान्तो, दीर्घा यूक्तपरश्च यः / वा पदान्तै त्वसौ," उक्ते दीर्घवर्णादौ, वाच०।