________________ गुरु 935 - अभिधानराजेन्द्रः - भाग 3 लवासप्रक्रमे स एव द्रष्टव्यो ज्ञातव्य:, मूलगुणवियुक्तो महाव्रतरहितः, सम्यग्ज्ञाक्रियाविरहितो वा / यो नतुन पुनर्गुणमात्रविहीनो मूलगुणव्यतिरिक्तप्रतिरूपताविशिष्टोपशमादिगुणविकल: इति हेतो: गरुगणरहितो द्रष्टव्य इति प्रक्रमः / उपप्रदर्शर्थोवा इतिशब्द:। उक्तं चेहार्थे-"कालपरिहाणिदोसा, एतो इकाइगुणविहीणेण। अण्णेण विपव्वजा, दायव्वासीलवंतेण" ||1|| अत्रार्थे र्कि ज्ञापकमिति?, आह-चण्डरुद्रश्चण्डरुद्राभिधानाचार्य उदाहरणं ज्ञापकम् / तत्प्रयोगश्चैवमगुणमात्रविहीनोऽपि गुरुरेव, मूलगुणयुक्तत्वात् चण्डरुद्राचार्यवत्। तथाह्यसौ प्रकृतिरोषणोऽपि बहूनां संविनगीतार्थशिष्याणाममोचनीयः विशिष्टबहुमानविषयश्चाभूत्। तत्कथानकचैवमचण्डरुद्राभिधानोऽभू-दाचार्योऽतिबहुश्रुतः। ज्ञानादिपञ्चधाचार-रत्नरत्नाकरोपमः ||1|| असमाचारसंलोक-संज्वलत्कोपवाडवः। संक्लेशपरिहाराय, गच्छपाइँ स्म तिष्ठति॥२॥ विहरंश्च समायातः, उज्जयिन्यां कदाऽप्सौ। विविक्तोद्यानदेशे च, तस्थौ गच्छस्य सन्निधौ // 3 // अथा श्रीमत्सुतः कोऽपि, सुरूपो नवयौवनः / प्रधानवस्त्रमाल्यादि-भूषितो मित्रवेष्टितः // 4|| विवाहानन्तरं क्रीडन्नागतः साधुसन्निधौ। तन्मित्रैः केलिना प्रोक्ता-स्तं पुरस्कृत्य साधवः / / 5 / / अस्मत्सखडमुं यूयं, हे भदन्ता: ! विरागिणम्। निर्विण्णं भवकान्तारात्, प्रव्राजयत सत्वरम् / / 6 / / साधवस्तु तकान् ज्ञात्वा, चसूरीकरणोधतान्। औषधं सूरिरेवैषा मित्यालोच्य बभाषिरे / / 7 / / भा भद्रा: ! गुरवोऽस्माकं, कुर्वते कार्यमीदृशम्। वयं तु नो ततो यात, गुरूणामन्तिकं लघु॥|| केलिनैव ततो गत्वा, गुरुमूचुस्तथैव ते। सूरिणा भणितं तर्हि, भस्माऽऽनयत सत्वरम् / / 6 / / येनास्य लुञ्चनं कुर्मो, वयस्यैस्तुततो लघु। तदानीतं ततः सूरिः, पञ्चमङ्गलपूर्वकम्॥१०॥ लुञ्चनं कर्तुमारेभे, तद्वयस्यास्तु लज्जिताः। चिन्तितं चेभ्यपुत्रेण, कथंयास्याम्यहं गृहे ?||11 // स्वयमाश्रितसाधुत्व:, स लुञ्चितशिरोमुखः / ततो विसृज्य मित्राणि, गुरुमेवमुवाच सः॥१२॥ भदन्त ! परिहासोऽपि, सद्भावोऽजनि मेऽधुना। रङ्केत्वेनापि तुष्टस्य, सौराज्यं मे समागतम्॥१३॥ ततः स्वजनराजाद्या:,यावन्नायन्ति मत्कृते। तावदन्यत्र गच्छामो, नोचेबाधा भविष्यति // 14 // गुरुर्बभाषे यद्येवं, ततो मार्ग निरूपय। तथैव कृतवानेष, वृत्तौ गन्तुं तस्तकौ।।१५।। आचार्यः पृष्ठतो याति, पुरतो याति शिष्यकः। रात्रौ वृद्धत्वतोऽपश्यन्, मार्गे प्रस्खलितो गुरुः / / 16 / / रे दुष्ट ! शैक्ष ! कीदृशो, मार्गः संवीक्षितस्त्वया। इति ब्रुवाणो दण्डून, शीर्षे तं हतवान् कुधा॥१७॥ एवं सचण्डरोषत्वा-चलितः स्स्वलितः पथि। शिरस्यास्फाटयन याति, तं शिष्यं दमिणां वरम्॥१८॥ शिष्यस्तु भावयामास, मन्दाभाग्योऽस्म्यहं यतः। महाभागो महात्माऽयं, महाकष्टेनियोजितः // 16 // भगवानेष सौख्येन, स्वगछे निवसन्मया। अहो दशां महाकष्टां, प्रापितः पापिना मुधा / / 20 / / एवं भावयतस्तस्य, प्रशस्तध्यानवह्निना। दग्धकर्मेन्धत्वेन, केवलज्ञानमुद्गतम्॥२१॥ ततस्तं तदलेनाऽसौ, सम्यङ् नेतुं प्रवृत्तवान्। प्रभाते च स तं दृष्ट्वा, क्षरल्लोहितमस्तकम्॥२२॥ आत्मानं निन्दति स्मैव-मधन्योऽहमपुण्यवान्। यस्य मे सति रोषाग्नि-शममेघे बहुश्रूते॥२३॥ परोपदेशक्षत्वे, बहुकालेच संयमे। न जातो गुरत्नाना, प्रधानः क्षान्तिसद्गुणः // 24 // अयं तु शिष्यो धन्योऽत्र, गुणवानेष सतमः। यस्याद्य दीक्षितस्याऽपि, कोऽप्यपूर्वः क्षमागुणः // 25 / / एवं सद्भावनायोगात्, वीर्योल्लासादपूर्वतः। आचार्यश्चण्डरुद्रोऽपि, संप्राप्तः केवलश्रियम्॥२६॥ इति गाथार्थः।।३५।। गृरुगुणरहिओ उगुरु, न गुरु विहिचायमो उ तस्सिट्ठो। अण्णत्थ संकमेणं, ण उ एगागित्तणेणं ति // 24 // गुरुगुणा: सज्झानसदनुष्ठानविशेषाः, तै रहितो हीनो गुरुगुणरहितः / तुशब्द: पुनरर्थः। गुरुर्धर्माचार्यो, नगुरुर्नधर्माचार्यो भवति सुवर्णगुणविकलं सुवर्णमिव। ततश्च (विहिच्चायमोउत्ति) इह मकारोऽलाक्षणिकः। ततश्च विधित्याग एवाऽऽगमिकन्यायेन परिहार एव / तस्य गुरोरिष्टोऽभिमतो जिनानाम्।सच नयथा कथश्चिदत एवाह अन्यत्रगुरुकुलान्तरे, संक्रमण प्रवेशेन, न पुनरेकाकित्वेन एकाकिविहारितयेति / गुरुकुलान्तरसक्रमण-विधिश्च-"संदिट्ठोसंदिट्ठस्स चेव संपञ्जइउएमाई-चउभंगो एत्थं पुण, पढमो भंगो हवइ सुद्धो"||१|| इत्यादिरागमप्रसिद्ध इति / सर्वथा गुरुहितेन न भाव्यमिति भावः। यदाह-"एसणमणेसणं वा, कह तेनाहिति जिणवरमयं वा। कुरिणम्मिव पायाला, जे मुक्का पव्वइयमेत्ता" // 1 // इति शब्द: प्राग्वदिति गाथार्थः।।२४॥ ननु यदि गुरुकुल एव वस्तव्यं, तदा कथमुक्तं दशवैकालिके? यथा"ण या लभेज्जा निउणं सहायं, गुणाहियं वा गुणओ समं वा / एक्को पि पावाइँ विवजयंतो, विहरिज कामेसु असज्जमाणो॥१०॥" (दश०२चू०) इत्येतदाशङ्कयाहजंपिय प वा लभेज्जा, एक्को वीचादिभासियं सुत्ते। एवं विसेसविसयं,णायव्वं बुद्धिमंतेहिं॥२५॥ यदपि च यच्च न वा लभेतैकाऽपीत्यादि इत्येतत्पदद्वयं प्रागुक्तमेवोपलक्षणम् / भाषितमुक्तं, सूत्रे दशवैकालिकाख्ये, एतदिदं सूत्रम्, विशेषविषयं विशिष्टगुरुषगोचरं,नपुरुषमात्रविषयम् ज्ञातव्यमव-सेयम्, बुद्धिमद्भिः प्रवचनगर्भार्थवेदिभिः, यतो "व्याख्यानतो विशेषप्रतिपत्तिरिति" गाथार्थः।।२५|| पञ्चा०११ विव०। पं०व०। ('अणुओग' शब्दे प्रथमभागे 355 पृष्ठे तद) गुरुरुक्तः) षड्विधे उपक्रमे मुरुचित्तोपक्रमः। अत्र पर: प्राहको वक्खाणाऽवसरी, गुरुचित्तोवकमाहिगारोऽयं ? / भण्णइ वक्खाणंगं, गुरुचित्तोवक्कमो पढमं / / 630|| नन्वावश्यकस्यानुयोगेा व्याख्यानमिह प्रक्रान्तं, ततस्तदवसरे