SearchBrowseAboutContactDonate
Page Preview
Page 956
Loading...
Download File
Download File
Page Text
________________ गुणागर ६३२-अमिधानराजेन्द्रः - भाग 3 गुणानुराग ता-ऽऽख्याननमणिकोशोपरि टीकाकरणे आम्रदेवसूरिणे साहाय्यं दत्तम् / द्वितीयोऽप्येतनामा विक्रमसंवत् 1266 मित विद्यमान आसीत्। जै०इ०। गुणाणुराइत्तण न०(गुणानुरागित्व) गुणवत्प्रीतौ, "गुणाणुरागित्तणं धरसु' जी०६ अधिo गुणानुराग पुं०(गुणानुराग) गुणविषयकरागे भावश्रावकलिङ्गे, ध०र०। षष्ठं गुणानुरागमाहजयइ गुणेसु रागो, सुद्धचरित्तस्स नियमओ पवरो। परिहरइ तओ दोसे, गुणगणमालिन्नसंजणए // 120|| जायते संपद्यते गुणेषु"वय समण णम्म संजम, वेयावचंच बंभ गुत्तीओ। नाणाइतियं तव को-हनिम्गहाई य चरणमेयं / / 1 / / पिंडविसोही समिई, भाण पडिमा उ इंदियनिरोहो। पडिलेहण गुत्तीओ, अभिग्गहा चेव करणं तु"||२|| इत्यागमप्ररूपितेषु मूलगुणोतरगुणसंज्ञितेषु रागः प्रतिबन्धः शुद्धचारितगस्य निष्कलङ्कसंयमस्य नियमतोऽवश्यंभावेन प्रवर: प्रधानो, न मिथ्या इति भावः / परिहरति वर्जयति, ततस्ततस्माद्गुणानुरागाघोषान् दुष्टव्यापारान, किंविवशिष्टान् ? गुणगणमालिन्य संजनकान् ज्ञानादीनामशुद्धिहेतून् भावसाधुरिति // 120 // गुणानुरागस्यैव लिङ्गमाहगुणलेसं पि पसंसइ, गुरुगुणबुद्धीइ परगयं एसो। दोसलवेण वि निययं, गुणनिवहं निग्गुणं गणइ // 121 / / गुणलेशमपि, आस्तां महीयांस गुणमित्यपरेर्थः प्रशंसलि श्लाघते परगतमन्यसत्कमेष भावसाधुः उत्तमप्रकुतित्वान्महतोऽपि दोषानुत्सृज्य स्वल्पमपिपरगतं गुणं पश्यति।कुथितकृश्णसारमेयशरीरे सितदन्तपंक्ति पुरुषोत्तमवत्।(गुणाऽनुरागविषये पुरुषोत्तम चरित्रम् 'पुरिसोत्तम' शब्दे उदाहरिष्यते) तथा-दोषलवेनाप्यल्प्रमादस्खलितेनापि निजकमात्मीयं गुणनिवहं गुणकलापं निर्गुणमसारं गणयति कल्पयति-धिग्गा प्रमादशीलमितिभावनया प्रकृतो भावयति, कर्णस्थापितविस्मृतशुण्ठीखण्ड पश्चिमदशपूर्वधरश्रीवजस्वामिवदिति। (श्रीवज्रस्वामिचरित्रं सुप्रतितत्वात् नेह प्रतन्यते) ध००। गुणानुरागस्यैव लिङ्गान्तरमाहपालइ संपत्तगुणं, गुणङ्कसंगे पमोयमुव्वहइ। उज्जमइ भावसारं, गुरुतरगुणरयणलाभत्थी॥१५२।। पालयति रक्षति वर्द्धयति च जननीय प्रियपुत्रं संप्राप्तं सम्यक्कर्मक्षयोपशमोपलब्धं गुणं ज्ञानदर्शनचारित्रादिरूपं,तथा गुणैराठ्यानां सङ्गे भीलके, चिरप्रोपितस्निग्धवन्धुसंप्रयोग इव प्रमोदमानन्दमुत्प्रावल्येन वहति प्राप्नोति। तद्यथा"असतां सङ्ग पङ्केन, यन्मनो मलिनीकृतम्। तन्मेऽद्य निर्मलीभूतं, साधुसंबन्धवारिणा // 1 // पूर्वपुण्यतरोरद्य,फलं प्राप्तं मयाऽनाघम। सङ्गेनासङ्गचित्तानां, साधूनां गुणधरिणाम् // 2 // तथा गुणानुरागादेवोधच्दति प्रयतते भावसारं सद्गावसुन्दरं यथा भवति ध्यानाध्ययनतपः प्रभृतिकृत्येप्विति गम्यते / किमिति ? अत आहगुरुतराणि क्षायिकभावभावित्वाद् यानि गुणरत्नानि क्षायिकज्ञाननदर्शनचारित्राणि, तेषां यो लाभस्तदर्थी तदभिलाषवान् / तथाहि भवत्येवोद्यमवतामपूर्वकरण-क्षपक श्रेणिकमेण केवलज्ञानादिसंप्राप्ति:सुप्रतीतमेतदिति / / 122 // गुणानुरागस्यैव प्रकारान्तरेण लक्षणमाहसयणु ति व सीस तिव, उवगारित्ति व गणिव्वउ व्व त्ति। पडिवंधस्स न हेऊ,नियमा एयस्स गुणहीणो॥१२३|| स्वकीयो जनः स्वजनः, इति शब्दस्तद्दसूचका, वाशब्द: समुचये, ह्रस्वत्वं तु प्राकृतशैल्या / शिष्यो विनेयः, 'इति-वा' शब्दौ पूर्ववत्। उपकारी भक्तपानदानादिना पूर्वमुपकृतवान्,'इतिवा' शब्दौ प्राग्वत्। (गणिव्वउ व्व ति) एकगच्छवासी, 'इतिवा' शब्दौ पूर्ववदेव, एतेषामेकैकेऽपि प्रायः प्रतिबन्धकारणं भवत्येतस्य पुनर्गुणानुरागिणो नियमान्निश्चयेन, ननैव, हेतुर्निमित्तमेकोऽपि भवत्येतेषाम्। किविशिष्टः सन्निति? आह-गुणहीनो निर्गुण: / "सीसो सजिलओ वा, गणिव्यओ वान सोग्गइं नेइ। जे तत्थ नाणदंसण-चरणा ते सोग्गइं जाओ"||१|| (इति कृत्वा) अथ चारित्रिणां तेषां स्वजनादीनां किंविधेयमिति आहकरुणावसेण नवरं, अणुसासइ तं पि सुद्धमग्गम्मि। अचंतातोग्गं पुण, अरत्तदुट्ठो उवेहेइ॥१२॥ करुणा परदुःखनिवारणबुद्धिः। उक्तंच"परहितचिन्ता मैत्री, परदुःखनिनवारिणी तथा करुणा // परसुखतुष्टिर्मुदिता, परदोषोपेक्षणमुपेक्षा ||1 // तदशेनतद्रसिकतया, नवरं केवलं, रागदोषपरिहारेणानुशास्ति शिक्षयति, तमपि स्वजनादिकम्, अपिशब्दयत्तदितरमपि, क्वेति ? आह-शुद्धमार्गे यथावस्थितमोक्षाध्यविषये। तद्यथाकिं नारकतिर्यङ्नर-विवुधगतिविचित्रयोनिभेदेषु / वत संसरन्न सततं, निर्विण्णो दुःखानरयेषु / / 1 / / येन प्रमादमुद्धत माश्रित्य महाधिहेतुमस्खलितम्। संत्यज्य धर्मचित्तं, रतस्त्वमार्येतराचरणे?||२|| यत्न प्रयान्ति जीवा:, स्वर्गं यच प्रयान्ति विनिपातम्। तत्र निमित्तमनार्यः, प्रमाद इति निश्चितमिदं मे // 3 // किञ्चकेवलं रिपुरनादिमानयं, सर्वदैव सहचारितमितिः। य: पमाद इति विश्रुत: परामस्य वित्तशठतामकुण्ठिताम् // 4 // यत्करोति विकथा: प्रथावती-यंत् खलेषु विषयेषु दृष्यति। सुप्तमत्त इव यद्विचेष्टते, यन्न वेत्ति गुणदोषयोर्भिदाम्॥५॥ क्रुध्यति स्वहितदेशनेऽपि यत्, यच सीदति हितं विदन्नपि। लोक एष निखिलं दुरात्मन-स्तत्प्रमादकुरिपोर्विजृम्भितम्।।६।। इत्यवेत्य परिपोष्य पौरुषं, दुर्जयोऽपि रिपुरेष जीयताम्। यत्सुखाय न भवन्त्युपेक्षिताः,व्याधयश्च रिपवश्च जातुचित्"I७॥ इत्यादिविविधिवाचोयुक्तिभिरुत्पादितसंवेगं तं शुद्धधर्मे प्रवर्तयति / प्राज्ञापनीयश्चेदसौ स्यात्, अत्यन्तायोग्यं बाढमप्रज्ञापनीयम्, पुनस्तमरक्तद्विष्टो रागद्वेषरहित उपेक्षते अवधीरयति "उपेक्षा निर्गुणेष्विति" वाक्यमनुसृत्येति गाथार्थः।। / 124/ गुण्णनुरागस्यैव फलमाहउत्तमगुणाणुराया, कालाईदोसओ अपत्ता वि। गुणसंपया परत्थ वि,नदुल्लहा होइ भव्वाणं // 125|| उत्तमाउत्कृष्टा गुणा ज्ञानादयः, तेष्वनुरागः प्रीतिप्रकर्षः, तस्मा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy