________________ गुणट्ठाण 627- अभिधानराजेन्द्रः- भाग 3 गुणट्ठाण ते मीसि मीसा समणा, जयाइ केवलिदुगंतदुगे॥४८| आदिमद्विके मिथ्यादृष्टिसास्वादनलक्षणे प्रथमद्वितीयगुणस्थानकद्रये इत्यर्थः। (तियनाणदु दंस त्ति) त्रयाणामज्ञानानां समाहारस्यज्ञानं मत्यज्ञानश्रुताज्ञानविभङ्ग ज्ञानरूपं, दर्शनं दर्शो, द्वयोर्दर्शयोः समाहारो द्विदर्श चक्षुर्दर्शनाऽचक्षुदर्शनरूपमित्येते पञ्चोपयोगा मिथ्यादृष्टिसास्वादनयार्भवन्ति / त्रिकशब्दस्य प्रत्येकमभिसंबन्धात् ज्ञानत्रिक मतिज्ञानश्रुतज्ञानावधिज्ञानरूपम्, दर्शत्रिकं चक्षुर्दर्शनाऽचक्षुर्दर्शनावधिदर्शनलक्षणमिति, न शेषाः, सर्वविरत्याभावात् / ते पूर्वोक्ता ज्ञानत्रिकदर्शनविकरूपाः षडुपयोगा मिश्रे सम्यमिथ्यादृष्टिगुणस्थानके मिश्रा अज्ञानसहिता द्रष्टव्याः, तस्योभयदृष्टिपातित्वात्, के वलं कदाचित्ससम्यक्त्वबाहुल्यतो ज्ञानबाहुल्यं, कदाचिच मिथ्यात्वबाहुल्यतोऽज्ञानबाहुल्यं, समकक्षतायां तूभयांशसमतेति / अस्मिंश्च गुणस्थानके यदवधिदर्शनमुक्तं तत्सैद्धान्तिकमतापेक्षया द्रष्टव्यमित्युक्तं प्राक् / (समणा जयाइ त्ति) 'यमूं' उपरमे, यमनं यतं सर्वसावध विरतं, तद् विद्यते यस्य स यतः,"अभ्रदिभ्यः"७।२।४६। इति (हैम०) अप्रत्ययः / प्रमत्तगुणस्थानकवर्ती साधुः, यत आदिर्येषां गुणस्थानकानां तानि यतादीनि, प्रमत्ताऽप्रमत्ताऽपूर्वकरणाऽनिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहलक्षणानि सप्त गुणस्थानकानि तेषु पूर्वाक्ता ज्ञानत्रिकदर्शनत्रिकाख्याः षडुपयोगा:(समण त्ति)मन:पर्यायज्ञानसहिताः सप्त भवन्तीति, न शेषाः, मिथ्यात्वघतिकर्मक्षयाभावात् / केवलद्विकं केवलज्ञानके वलदर्शनलक्षणोपयोगद्वयरूपमन्तद्विके सयोगिकेवल्ययोगिकेवलिलक्षणचरमगुणस्थानकद्वये भवति, नशेषा दश ज्ञानदर्शनलक्षणा:,तदुच्छेदेर्नेव केवल-ज्ञानकेवलदर्शनोत्पते:"नट्ठत्ति छाउमथिए नाणे"इतिवचनतात् / तदेवमभिहिता गुणस्थानकेषूपयोगा: // 4 // साम्प्रत यदिह प्रकरणे सूत्राऽभिमतमपि कार्मग्रन्थिकाभिप्रायानुसरणतो नाधिकृतं तद्दर्शयन्नाहसासणभावे नाणं, विउव्वगाहारए उरलमिस्सं। नेगिंदिसु सासाणो, नेहाहिगयं सुयमयं पि॥४ सास्वादनभावे सास्वादनसम्यग्दृष्टित्वे सति ज्ञानं भवति, नाऽज्ञानमिति, श्रुतमतमपि सिद्धान्तसंमतमपि।तथाहि-''बेइंदिया णं भंते! किं नाणी, अन्नणी ? गोयमा ! नाणी वि, अन्नाणी वि, जे नाणी ते नियमा दुनाणी आभिणिबोहियनाणी, सुयनाणी / जे अन्ननणी ते विनियमा दुअण्णी। तं जहा मइअन्नाणी, सुयअन्नणी'' इत्यादिसुत्रे द्वीन्द्रियादीनां झानित्वमभिहितम्; तच्च सास्वादनापेक्षयैव, न शेषसम्यक्तवापेक्षया, असंभवात् / उक्तं च प्रज्ञापनाटीकायाम्-"वेइंदियस्स दो नाणा कहं लभंति? भण्णइ सासायणं पडुच तस्सापजत्तयस्स दो नाणालभंति'। ततः सासादनभावेऽपि ज्ञानं सूत्रसंमतमेव / तचेत्थं सूत्रसंमतमपि नेह प्रकरणेऽधिकृतं, किं त्वज्ञानमेव, कर्मग्रन्थाभिप्रायस्यानुसरणात्। तदभिप्रायश्चायम्-सास्वादनस्य मिथ्यात्वाभिमुखमया तत्सम्यक्त्वस्य मलीमसत्वेन तन्निबन्धनस्य ज्ञानस्यापि मलीमसत्वादज्ञानरूपतेति। तथा-सूत्रे वैक्रिये आहारके चारभ्यमाणे तेमप्रारभ्यमाणेन सहौदारिकस्यापि मिश्रीभवनादौदारिकमिश्रमुक्तमिति / तथा चाह प्रज्ञापनाटीकाकार: "यदा पुनरौदारिकशरीरी वैक्रियलब्धिसुपन्नो मनुष्यः, पञ्चेन्द्रियतिर्यग्योनिको वा पर्याप्तबादरवायुकायिको वा वैक्रियं करोति तदौदारिकशरीरयोग एव वर्तमानः प्रदेशान् विक्षिप्य वैक्रियशरीर-योग्यान पुद्गलानादाय याव_क्रियशरीरपर्याप्त्या पर्यप्तिं न गच्छति तावद्वैक्रियेण मिश्रता, व्यपदेशश्च औदारिकस्य, प्रधानत्वात्। एवमाहारकेणापि सह मिश्रता द्रष्टव्या आहारयति चैतेनैवेति तस्यैव व्यपदेशः" इति / परित्यागकाले वैक्रियस्याहारकस्य च यथाक्रम वैक्रियमिश्रमाहारकमिश्रं च / उक्तं च श्रीप्रज्ञापनाटीकायाम्'आहारकशरीरी भत्वा कृतकार्यः पुनरप्यैदारिकं गृह्णति, तदाहारकस्य प्रधानत्वादौदारिक प्रदेश प्रति व्यापाराभावान्न परित्यजति, यावत्सर्वथैवाहारकं तावदौदारिकेण मिश्रतेति आहारकमिश्रशरीरकाययोग'' इति / तचैवम्-वैक्रियाहारका-रम्भकाले औदारिकमिश्रं सूत्रेऽभिहितमपि नेह प्रकरणेऽधिकृतं, कार्मग्रन्थिकैर्गुणविशेषप्रत्यय समुत्थलब्धिविशेषकारणतया प्रारम्भकाले परित्यागकाले च वैक्रियस्याहारकस्य च प्राधान्यविवक्षणेन वैक्रियमिश्रस्याहारकमिश्रस्य चैवभिधानात्, तदभिप्रायस्य चेहानुसरणात्। तथा नैकेन्द्रियेषु (सासणो त्ति) भावप्रधानोऽयं निर्देश:, सास्वादनभाव: सूत्रे मतः, अन्यथा द्वीन्द्रियादीनामिवैकेन्द्रियाणामपि ज्ञानित्वमुच्येत, नचोच्यते, किन्तु विशेषतः प्रतिषिध्यते। तथाहि "एगिदिया ण भंते ! किं नाणी, अन्नाणी? गोयमा ! नो नाणी, नियमा अन्नाणी"इति / स चेत्थं सासादनभावप्रतिषेध: सूत्रे मतोऽपि केनचित्कारणेन कार्मग्रन्थिकै भ्युपगम्यते, इतीहापि प्रकरणे नाधिक्रियते, तदभिप्रायस्यैवेह प्रायोऽनुसरणादिति (नेहाहिगयं सुयमयं पि) इत्येतद्विभक्तिपरिणामेन प्रतिपदं संबन्धनीयं, तथैव संबन्धितमिति // 46 // अधुना गुणस्थानकेष्वेव लेश्या अभिधित्सुराहछसु सव्वा तेउतिगं, इगिछसु सुक्का अजोगि अल्लेसा। बंधस्स मिच्छ अविरइ, कसाय जोग त्ति चउ हेऊ // 50 // षट्सु मिथ्यादृष्टिसास्वादनमिश्राऽविरतदेशविरतप्रमत्तलक्षणेषु गुणस्थानकेषु सर्वाः षडपि कृष्णानीलकापोततेजः पद्मशुक्लेश्या भवन्ति ।(तेउतिगं इगि त्ति)एकस्मिन्नप्रमत्तगुणस्थानके तेजस्त्रिक तेज:पद्मशुक्लेश्यात्रयं भवति,नपुनराध लेश्यात्रयमित्यर्थालब्धम्। षट्स्वपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणेषु गुणस्थानकेषु शुक्लेश्या भवति, नशेषा: पञ्च। अयोगिनोऽयोगिकेवलिनोलेश्या: अपगतलेश्या: / इह लेश्यानां प्रत्येक मसंख्येयानि लोकाकाशप्रदेशप्रमाणान्यध्वसायस्थानानि, ततो मन्दाध्यवसायस्थानापेक्षया शुक्लेश्यादीनामपि मिथ्यादृष्ट्यादौ कृष्णलेश्यादीनामपि प्रमत्तगुणस्थानकेऽपि संभवो न विरुध्यत इति। तदेव मुक्ता: गुणस्थानकेषु लेश्याया: / कर्म०४ कर्म०। (गुणस्थानकेषु बन्धोदयसत्तास्थाननां स्वमित्वं 'कम्म' शब्दऽस्मिन्नैव भागे 312 पृष्ठे उक्तम्। बन्धोदयसत्तास्थानानांसंबंधोऽपि अस्मिन्नेव भागे'कम्म' शब्दे 306 पृष्ठे दर्शितः) (१४)श्रीहीरविजयसूरि प्रति विमलहर्षगणिकृतप्रश्नः / यथापञ्चविंशतिभङ्गाश्रितानाम् ‘'एआरिसे त्ति"गाथोक्तलक्षणोपेतानां च साधूनां षष्ठसप्तमगुणस्थानवर्तित्वम्? उत मतान्तरेण मुहूर्ताहुकालस्थायिषष्ठगुणस्थोवर्त्तित्वमिति प्रश्ने, उत्तरम्-"उभयमपि भवतु, अध्यवसायानां वैचित्र्यात्तथाविधव्यक्ताक्षरानुपपत्तिभावाच // 3 / / ही०१ प्रका०। गुणास्पदे, पञ्चा०८ विव० पणलेश्यादीनामखिया शुक्लेश्या सायस्थानानि, तता