________________ गुणट्ठाण 126 - अभिधानराजेन्द्रः - भाग 3 गुणट्ठाण गणास्थाने देशविरतगुणस्थानं, सूक्ष्मसम्परायसंयममार्गणास्थाने सूक्ष्मसम्परायगुणस्थानम् / तथा-योगे मनोवाक्कायलक्षणे अयोगिकेवलिवर्जितानि शेषाणि त्रयोदश गुणस्थानानि भवन्ति, सर्वेष्वप्येतेषु यथायोगं योग्यत्रयस्यापि सम्भवात्। तथा आहारकेषु आद्यानित्रयोदश गुणस्थानानि भवन्ति, सर्वेष्वप्येतेषु ओजोलोभप्रक्षेपाहाराणामन्यतमस्याहारस्य यथायोगं सम्भवात् / तथा (सुक्काए त्ति) शुक्ललेश्यायां प्रथमानि त्रयोदश गुणस्थानानि भवन्ति, न त्वयोगिकेवलिगुणस्थानं, तस्य लेश्याऽतीतत्वादिति // 22|| अस्सन्निसु पढमदुगं, पढमतिलेसासु छच दुसु सत्त। पढमंतिम दुग अजया, अणहारे मग्गणासु गुणा / / 23 / / असंज्ञिषु संज्ञिव्यतिरिक्तेषु प्रथम मिथ्यादृष्टि सास्वादनलक्षणं गुणस्थानकद्वयं भवति, तत्र मिथ्यात्वमविशेषेण सर्वत्र द्रष्टव्यम्, सास्वादनं तु लब्धिपर्याप्तकानां करणापर्याप्तावस्थायामिति / प्रथमासु तिसृषु लेश्यासु मिथ्यात्वादीनि प्रमत्तान्तानि षट् गुणस्थानानि भवन्ति। 'च:' समुच्चये, कृष्णनीलकापोतलेश्यानां हि प्रत्येकमसंख्येयलोकाऽऽकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि, ततो मन्दसंक्लेशेषु तदध्यवसायस्थानेषु तथाविधसम्यक्त्वदेशविरतिसर्वविरतीनामपि सद्भवो न विरुध्यते / उक्तं च "सम्यक्त्देशविरतिसर्वविरतानां प्रतिपत्ति काले शूभलेश्यात्रमेव भवति, उत्तरकालंतु सर्वा अपि लेश्या: परावर्तन्तेऽपीति। श्रीमदाराध्यपादा अप्याहुः-"संमत्तसुयं सव्वा-सुलहइ सुद्धासुतीसुय चरित्तं / पुल्पडिवन्नओ पुण, अन्नयरीए ए लेसाए'।।१।। श्रीभगवत्यामप्युक्तम्-"सामाइयसंजए णं भंते ! कइ लेसासु हुज्जा? गोयमा ! छसुलेसासु होज्जा, एवं छेओवट्ठावणियसंजए वीत्यादी''। तथा द्वयोस्तेजोलेश्य-पद्मलेश्यया: सप्तगुणस्थानानि भवन्ति, तत्र षट् पूर्वोक्तान्येव, सप्तमं त्वप्रमत्तगुणस्थानकम्, अप्रमत्तसंयताध्यवसायस्थानापेक्षया मिथ्यादृष्ट्यादीनां प्रमत्तान्तानां तेजोलेश्यापद्मलेश्यातारतम्येन जघन्याऽत्यन्ताविशुद्धिके द्रष्टव्ये / तथा-अनाहारके पञ्चगुणस्थानानि भवन्ति / कानीति? आह-प्रथमान्तिमद्विकायतानीति। द्विकशब्दस्य प्रत्येकं योगात् प्रथमद्विकं मिथ्यादृष्टिसास्वादनलक्षणम्, अन्तिमद्विकं सयोगिकेवल्ययोगिके वलि लक्षणम् / अयत इति, अविरतसम्यग्दृष्टिश्चेति। तत्र मिथ्यात्वासास्वादनाविरतसम्यग्दृष्टिलक्षणं गुणस्थानकत्रयमनाहारके विग्रहगतौ प्राप्यते, सयोगिकेववलिगुणस्थानकं त्वनाहारके समुद्धातावस्थायां तृतीयचतुर्थपञ्चमसमयेषु द्रष्टव्यम् / यदवादि-"चतुर्थमृतीयपञ्चमेष्वनाहारक इति"। अयोगिकेवल्यावस्थायां तु योगरहितत्वेनौदारिकादिशरीरपोषकपुद्गलग्रहणाभावादनाहारकत्वम्, "औदारिकवैक्रिया-हारकशरीरपोषकपुद्गलोपादानमाहारः" इति प्रवचनोपनिषद्वेदिन: / एवं मार्गणास्थानेषु गत्यादिषु (गुणत्ति) गुणस्थानकानि अभिहितानि / / 23 / / (12) गुणस्थानकेषु मार्गणास्थानानि। सम्प्रति गुणस्थानकेष्वेव योगान् व्याख्यानयन्नाहमिच्छदुग अजइ जोगा-हारदुगूणा अपुटवपणगे उ। मणवइउरलं-व्व मीसि सविउव्व दुग देसे // 46|| मिथ्यादृष्टिद्विकं मिथ्यादृष्टिसास्वादनलक्षणम्, तत्र अयते, अविरतसम्यग्दृष्टौ चेत्येवं गुणस्थानकत्रये संज्ञिपञ्चेन्द्रियोऽपि लभ्यते, तस्य च यथोक्ताऽऽहारक द्विकेनाहारककाययेागाऽऽहारक मिश्रकाययोगलक्षणेनोना रहितास्त्रयोदश योगाः संभवन्ति / यत्पुनहारकद्विक तचतुर्दशपूर्विण एव / यदभ्यधायि-"आहारदुगं जायइ चउदसपुचिस्सेत्ति" नचमिथ्यादृष्टिसास्वादनायतानां चतुर्दशपूर्वाधिगमसंभव इति। तथाऽपूर्वपञ्चकेऽपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहलक्षणे नव योगा भवन्ति। तद्यथा-चतुर्विधोमनोयोगः, चतुर्विधो वाग्योगः, औदारिककाययोग इति, नशेषाः, अत्यन्तविशुद्धतया तेषां वैक्रियाहारकद्विकारम्भासंभवात्, तत्र स्थितानां चस्वभावत एव श्रेण्यारोहाभावात्। औदारिकमिश्रमपर्याप्तवस्थायां कामर्ण त्वपान्तरालगतौ / यदोभे अपि केवलिसमुद्धातावस्थायां ततस्ते अप्यत्र गुणस्थानकपञ्चके न संभवत इति। तथा त एव पूर्वोक्ता नव योगा:सवैक्रिया: सन्तो दश योगा मिश्रे सम्यमिथ्यादृष्टिगुणस्थानके भवन्ति। तथाहि-चतुर्विधमनोयोगचतुविधवाग्योगादा-रिकवैक्रियलक्षणा दश योगा मिश्रे भवन्ति, न शेषाः। तद्यथा-आहारकद्विकस्यासंभव: पूर्वाधिगमासंभवादेव, कार्मणशरीर त्वपान्तरालगतौ संभवति, अस्य च मरणासंभवेनापान्तरालगत्य संभवस्ततस्तस्याप्यऽसंभवः / अत एवौदारिकवैक्रियमिश्रे अपि न संभवतः, तयोरपर्याप्तावस्थाभावित्वात्। ननु मा भूदेवनारकसंबन्धिवैक्रियमिश्र, यत्पुनर्मनुष्यतिरश्चां सम्यग्मिथ्यादृशां वैक्रियलब्धिमता वैक्रियकरणसंभवेन तदारम्भकाले वैक्रियमिश्रं भवति, तत्कस्मान्नाभ्युपगम्यते? उच्यतेःतेषां वैक्रियकरणासंभवादन्यतो वायतः कुतश्चित्कारणात्पूर्वाचार्य भ्युपगम्यते, तन्न सम्यगवगच्छामः, तथाविधसंप्रदायाभावात्, एतच्च प्रागेवोक्तमिति। तथा त एवपूर्वेक्ता नव योगा: सवैक्रियद्विका वैक्रियवैक्रियमिश्रसहिताः सन्त एकादश देशे देशविरते भवन्ति, अम्बडस्येव वैक्रियलब्धिमतोदेशविरतस्य वैक्रियरम्भसंभ्वादिति॥४६|| साहारदुग पमत्ते, ते वि उ वाहार मीस विणु इयरे। कम्मुरलदुगताइम-मणवयणसजोगिन अजोगी||१७|| पूर्वोक्ता एवैकादश योगाश्चतुर्विधमनोयोग-चतुर्विधवाग्योगादारिक वैक्रियद्विकलक्षणा: साहारकद्विका असहारकाहारकमिश्रसहिता: सन्तस्त्रयोदश योगा: प्रमत्ते भवन्ति, औदारिकमिश्रकार्मणकाययोगाभावस्तु पूक्तियुक्तेरेवावसेय इति / त एव पूर्वोक्तास्त्रयोदश योगा वैक्रि यमिश्राहारकमिश्रं विना एकादश योगा अप्रमत्ते / यत्तु वैक्रियमिश्रमाहारकमिश्रं च, तन्न संभवमि, तद्वैक्रियस्याहारकस्य च प्रारम्भकाले भवति, तदानीं च लब्ध्युपजीवनादिनौत्सु-क्यभावतः प्रमादभावः संभवतीति / तथौदारिकमिश्रपर्याप्ता-वस्थायां, कामधं त्वपान्तरालगतौ, यद्धा-उभे अपि केवलिसमुद्धातावस्थायां, ततस्ते अप्यत्र गुणस्थानके न संभवत इति। तथा-कार्मणमौदारिकद्विकमौदारिकौदारिकमिश्रलक्षणमन्त्यादिममनसी सत्याऽसत्याभूषरूपौ मनोयोग, अन्त्यादिमवचने सत्याऽसत्यामृषरूपौ वाग्योगो चेति सप्त योगाः सयोगिकेवलिनो भवन्ति, कार्मणौदारिकमिश्रे तु समुद्धातावस्थायामिति / न नैव पञ्चदशयोगमध्यादेकेनापि योगेन युक्तोऽयोगी अयोगिकेवली भवति, योगाभावनिबन्धनत्वादयोगित्वावस्थाया इति। उक्ता गुणस्थानकेषु योगाः // 47 // (१३)अधुनैतेष्वेवोपयोगानभिधातुकाम आहतिअनाण दुदंसाइम, दुगे अजइ देसि नाणदंसतिगं।