SearchBrowseAboutContactDonate
Page Preview
Page 949
Loading...
Download File
Download File
Page Text
________________ गुणट्ठाण 125 - अभिधानराजेन्द्रः - भाग 3 गुणट्ठाण नरे नरगतौ, संज्ञिनि विशिष्टमनोविज्ञानभाजि, पञ्चेन्द्रिये, भव्ये, त्रसे | त्रसकाये च, सर्वाण्यपि चतुर्दशापि गुणस्थानकानि भवन्ति, एतेषु / मिथ्यादृष्ट्यादी नामयोगिकेवल्यवसानानां सर्वभावानामपि संभवात् / (इग त्ति) एकेन्द्रियेषु सामान्यतः, (विगल त्ति) विकलेन्द्रियेषु द्वीन्द्रियत्रीन्द्रिय चतुरिन्द्रयेषु, भुवि पृथ्वीकाये, उदके अप्काये, वने वनस्पतिकाये (दुदुत्ति) द्वे द्वे आद्ये मिथ्यात्वसास्वादनलक्षणे भवतः। तत्र मिथ्यात्वमविशेषेण सर्वेषु द्रष्टव्यं, सास्वादपनं तु तेजोवायुवजबादरैकेन्द्रिय-द्वित्रिचतुरिन्द्रियपृथिव्यम्बुवनस्पतिषु लब्ध्या पर्याप्तकेषु, करणेन त्वपर्याप्तकेषु, न सर्वेष्विति।तथा एकं मिथ्यात्वलक्षणं गुणस्थानकं भवति-केषु इति? आह-गत्या गमने, त्रसाः, न तु नामकर्मोदयात् गतित्रसास्तेषु सास्वादनभावोपगतस्य तेषु मध्ये उत्पादाभावत् अभव्येषु चेति।।१६। वेय तिकसाय नव दस, लोभे चउ अजय दुति अन्नाणतिगे। वारस अचक्खुचक्खुसु, पढमा अहखाइ चरम चऊ॥२०॥ वेदे वेदत्रयो, त्रयाणां कषायाणां समाहारस्त्रिकषायंक्रेधमानमायालक्षणं, तस्मिँस्त्रिकषाये (पढमित्ति) प्रथमानीतिपदं डमरुकमणिन्यायेन सर्वत्र योज्यम्, ततो वेदे स्त्रीपुंनपुंसकलक्षणे कषायत्रये , प्रथमानि मिथ्यादृष्ट्यादीनि अनिवृत्तिबादरपर्यन्तानि नव गुणस्थानकानि भवन्ति, न शेषाणि, अनिवृत्ति बादरगुणस्थान एव वेदत्रिकस्य कषायत्रिकस्य चोपशान्तत्वेन क्षीणत्वेन वा शेषेषु गुणस्थानेषु तदसंभवात् / लोभे लोभकषाये दश गुणस्थानानि, तत्र नव पूर्वोक्तानि, दशमं तु सूक्ष्मसंपरायलक्षणं, तत्र किट्टी कृतसूक्ष्मलोभकषायदलिकस्य वेद्यमानत्वात्। चत्वारि प्रथमानि अयते, विरतिहीन इत्यर्थः, कोऽर्थः? विरतिहीने मिथ्यात्वसास्वादनमिश्राविरतिसम्यग्दृष्टिलक्षणानि चवारि गुणस्थाननानि भवन्तीति / (दु ति अन्नाणतिगे त्ति) अज्ञानत्रिके मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानलक्षणे, फथमे द्वे गुणस्थानके मिथ्यादृष्टिसास्वादनरूपे भवतः, मिश्रमपि। यतोण्द्यपि मिश्रगुणस्थानके यथास्थितवस्तुतत्त्वनिर्णयो नास्ति, तथापि न तान्यज्ञानान्येव सम्यग्ज्ञानलेशव्यामिश्रत्वात्, अत एव न मिश्रगुणस्थानकमभिधीयते। उक्तं च-"मिथ्यात्वाधिकस्य मिश्रादृष्टरज्ञानबाहुल्यं, सम्यक्त्वाऽधिकस्य पुनः सम्यग् ज्ञानबाहुल्यमिति'। ज्ञानलेशसद्भावतो न मिश्रगुणस्थानकमज्ञान-त्रिके लभ्यते इत्ये के प्रतिपादयन्ति, तन्मतमधिकृत्यास्माभिरपि 'द्वे' इत्युक्तम्। अन्ये पुनराहुः-अज्ञानत्रिके त्रीणि गुणस्थानानि, तद्यथा-मिथ्यात्वं,सास्वदनं, सम्यग्दृष्टिश्च। यद्यपि "मिस्सम्मी वामिस्सा" इति वचनात् ज्ञानव्यामिश्राण्यज्ञानानि प्राप्यन्ते, न शुद्धाज्ञानानि, तथापि तान्यज्ञानान्येव, शुद्धसम्यक्त्वमूलत्वेनात्र ज्ञानस्य प्रसिद्धत्वात्। अन्यथा हि-यद्यशुद्धसम्यक्त्वस्यापि ज्ञानमभ्युपगम्यते तदा सास्वादनस्याऽपि ज्ञानाभ्युपगमः स्यात्, न चैतदस्ति, तस्याऽज्ञानित्वेनान्तरमेवेह प्रतिपादितत्वात. तस्मादज्ञानत्रिके प्रथम गुणस्थानकत्रयमवाप्यते इति" / तन्मतमाश्रित्याऽ-- स्माभिरपि 'त्रिकम्' इत्युक्तं, तत्त्वं तु केवलिनो, विशिष्टश्रुतविदो या विदन्तीति। द्वादश प्रथमानि गुणस्थानकानि / अचक्षुदर्शन चक्षुर्दर्शने चभवन्ति, यतो मिथ्यादृष्टिप्रभृतिक्षीणमोहपर्यन्तेषु गुणस्थानेष्वचक्षुर्दर्शनचक्षुर्दर्शनसंभवात् / यथाक्ष्याते चारित्रे चरमाण्यन्तिमानि चत्वारि उपशान्तमोहक्षीणमोहसयोगिकेवल्ययोगिकेवलिलक्षणानि चत्वारि गुणस्थानानि भवन्ति, एषु कषाया भावादिति // 20 // मणनाणि सगजयाई, सामइयछेय चउ दुन्नि परिहारे। केवलिदुगे दो चरमा-जयाइ नव मइसु ओहिदुगे / / 21 / / मनोज्ञाने मन:पर्यवज्ञाने (सग त्ति)सप्तगुणस्थानकानि भवन्ति, कानीति? आह-यताऽऽदीनि, तत्र 'यमूं' उपरमे, यमनं यतं, सम्यक्सावद्यादुपरमणमित्यर्थः, यतं विद्यते यस्य स यतः प्रमत्तयति:, यत आदौ येषां तानि यताऽऽदीनि प्रमत्ताऽप्रमत्ताऽपूर्व-करणाऽनिवृत्तिबादरसूक्ष्मसंपरायोपशान्तमोहक्षीणमोहलक्षणानीति / सामायिके छेदोपस्थापने च चत्वारि यताऽऽदीनि गुणस्थानानि, प्रमत्ताऽप्रमत्तनिवृत्तिबादराणीत्यर्थः / द्वे गुणस्थानके प्रमत्ताऽप्रमत्तरूपे, परिहारविशुद्धिकचारित्रे इत्यर्थः / नोत्तराणि, तस्मिन् चारित्रे वर्तमानस्य श्रेण्यारोहणप्रतिषेधात् / केवलद्विके केवलज्ञानकेवल-दर्शपरूपे द्वे गुणस्थाने भवतः, के इति? आह-चरमेऽन्तिमे सयोगिकेवलिगुणस्थानकाऽयोगिकेवलिगुणस्थानके इति (अजयाइ नव मइसु ओहिदुगे त्ति) अयतो विरतः स आदौ येषां तान्ययतादीन्यविरतसम्यगष्ट्यादीनि क्षीणमोहपर्यवसानानि नव गुणस्थानकानि भवन्ति / मतौ मतिज्ञाने, श्रुते श्रुतज्ञाने, अवधिद्विके अवधिज्ञानाऽवधिदर्शनलक्षणे, न शेषाणि / तथाहि-न मतिज्ञानश्रुतज्ञानावघताधिनानि मिथ्यादृष्टिसास्वादनमिश्रेषु भवन्ति, तद्भावे ज्ञानत्वस्यैवाऽयोगात्। यत्तु अवधिदर्शनं तत्कुतश्चिदभिप्रायद्विशिष्टश्रुतविदो मिथ्यादृष्ट्यादीनां नेच्छन्ति, तन्मतमाश्रित्यास्माभिरपि तत्तेषां न भणितम् / अथ च सूत्रे मिथ्यादृष्ट्यादीनामप्यवधिदर्शनं प्रतिपाद्यते, यदाह रभसवश-विनम्रसुरासुरनरकिन्नरविद्याधरपरिदृढमाणिक्यमुकुटकोटीविटङ्कनिघृष्टचरणारविन्दयुगलः श्रीसुधर्मस्वामी पञ्चमाने-"ओहिदंसणअणागारोवउत्ताणं भंते ! किं नाणी, अन्नाणी? गोयमा! नाणी वि / अन्नाणी वि, जइ नाणी ते अल्थेगइया तिनाणि, अत्थेगइया चउनाणि,जे तिनाणि ते आभिणिबोहियनाणि सुयनाणी ओहिनाणी, जे चउनाणि ते आभिणिबोहियनाणी सुयनाणी ओहनाणी मणपजवनाणी, जे अन्नाणी ते नियता मइअन्नाणी सुयअन्नाणी विभंगनाणी इति।'' अत्र हि ये अज्ञानिनस्ते मिथ्यादृष्टय एवेति मिथ्यादृष्ट्यादीनामप्यवधिदर्शनं साक्षादत्र सूत्रे प्रतिपादितं, स एव विभङ्ग ज्ञानी यदा सास्वादनभावे मिश्रभावे वा वर्तते तत्राऽपि तदानीमवधिदर्शनं प्राप्यत इति / यत्पुन: सयोग्योगिकेवलिगुणस्थानकद्विकं, तत्र मतिज्ञानादि न संभवत्येव, तव्यवच्छेदेनैव केवलज्ञानस्य प्रादुर्भावात् ,"नट्ठम्मि उ छाउमथिए नाणे" इति वचनप्रामाण्यादिति // 21 // अभ उवसमि चउ वेयगि, खइगे इक्कार मिच्छ तिगि देसे / सुहुमे य सगट्ठाणं, तेरस जोगे अहार सुक्काए।।२२।। काकाक्षिकगोलकन्यायादिहायतादिनि इति पदं सर्वत्र योज्यते, ततोऽयतादीन्युपशान्तमोहान्तानि अष्टौ गुणस्थानान्यौपशमिक सम्यक्त्वे भवन्ति। अयतादीन्यप्रमतान्तानि चत्वारि वेदके क्षायोपशमिकापरपर्याये गुणस्थानकानि भवन्ति / क्षायिकसम्यक्त्वे अयतादीन्ययोगिकेवलिपर्यवसानान्येकादश गुणस्थानकानि भवन्ति / तथा मिथ्यात्वत्रिके मिथ्यादृष्टिसास्वादनमिश्रलक्षणे, देशे देशविरते, सूक्ष्मे सूक्ष्मसम्पराये, च: समुच्चये, स्वस्थानं निजस्थानम्। इदमुक्तं भवतिमिथ्यात्वमार्गणास्थाने मिथ्यादृष्टिगुणस्थानं, सास्वादनमार्गणास्थाने सास्वादनं गुणस्थानं, मिश्रमार्गणास्थाने मिश्रं गुणस्थानं, देशसंयममा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy