SearchBrowseAboutContactDonate
Page Preview
Page 948
Loading...
Download File
Download File
Page Text
________________ गुणट्ठाण 924 - अभिधानराजेन्द्रः - भाग 3 गुणट्ठाण योगिकेवलिलक्षणेषु / तत्र मिथ्यादृष्ट्यादीनां त्रयाणामौदयिकी गतिः, क्षायोपशमिकानीन्द्रियाणि, पारिणामिकं जीवत्वमित्येते त्रयो भावाः प्रतीता एव / सयोगिकेवल्ययोगिकेवलिनो: पुनरौदयिकी मनुजगतिः, क्षायिक केवलज्ञानादि, परिणामिकंजीवत्वमित्येवंरूपास्त्रय इति।आहकिममीत्रिप्रभृतयो भावा गुणस्थानकेषु चिन्त्यमानाः सर्वजीवाधारतवा चिन्त्यन्ते? आहोस्विदेकजीवाधारतया ? इति आह-(एगजिए त्ति) एकजीवाधारतयेत्थंभावविभागो मन्तव्यो, नानाजीवापेक्षया तु संभविनः सर्वेऽपि भावा भवन्तीतिः। अधुनैतेषु गुणस्थानकेषु प्रत्येकं यस्य भावस्य संबन्धिनो यावन्तउत्तरभेदा यस्मिन् गुणस्थानके प्राप्यन्ते इत्येतत्सोपयौगित्वादस्माभिरभिधीयते / तद्यथा-क्षायोपशमिकभावभेदा मिथ्यादृष्टि सास्वादनयोरन्तरायकर्मक्षयोपशमजादानादिलब्धिपक्षकाज्ञानत्रयचक्षुदर्शनाऽचक्षुर्दर्शनलक्षणा दश भवन्ति, सम्यग्मिथ्यादृष्टी दानादिलब्धिपञ्चकज्ञानत्रयदर्शनत्रयमिश्ररूपसम्यक्त्वलक्षणा द्वादशा भेदा भवन्ति, अविरतसम्यग्दृष्टौ मिश्रत्यागेन सम्यक्त्वप्रक्षेपे एव द्वादश, विरतौ, चद्वादशसुमध्ये देशविरतिप्रक्षेपे त्रयोदश, प्रमत्ताऽप्रमत्तयोश्च देशवरतिविरहितेषु पूर्वप्रदर्शितेषु द्वादशस्वेव सर्वविरतिमनःपर्यायज्ञानप्रक्षेपे चतुर्दश, अपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायेषु चतुर्दशभ्य सम्यक्त्वापसारणे प्रत्येकंत्रयोदश, उपशान्तमोहक्षीणमोहयोस्त्रयोदशभ्यश्चारित्रापसारणे द्वादश क्षायोदशमिकभावभेदा: प्राप्यन्ते!। अधुनौदयिक भावभेदा भाव्यन्तेमिथ्यादृष्टा वज्ञानासिद्धत्वादय एकविंशतिरपि भेदा भवन्ति, सास्वादने एकविंशतेर्मिथ्यात्वापसारणे विंशतिः, मिश्राविरतयोविंशतेरज्ञानापगमे एकोनविंशतिः, देशविरते च देवनारकगत्यभावे सप्तदश, प्रमत्ते च तिर्यग्गत्यसंयमाऽभावे पञ्चदश, अप्रतत्ते च पञ्चदशभ्य आद्यलेश्यात्रिकाभावे द्वादश, अपूर्वकरणेऽनिवृत्तिबादरेचद्वादशभ्यस्तेजःपद्मलेश्ययोसभावेदश, सूक्ष्मसम्परोयसंज्वलन लोभमनुजगतिशुक्ललेश्याऽसिद्धत्वलक्षणाश्चत्वार औदयिका भावः, उपशान्तक्षीण-मोहसयोगिकेवलिषु चतुर्व्यः संज्यलनलोभाभावे त्रयः, अयोगिकेवलिनस्तु मनुजगत्यसिद्धत्वरूपमौदयिकभावभंदद्वयं प्रप्यते। औपशमिकभावभेदा उच्यन्ते-अविरतादारभ्योपशान्तं यावदौपशमिकसम्यक्त्वरूप औपशमिकभावभेद: प्राप्यते, औपशमिकचारित्रलक्षणस्त्वनिवृत्तेरारभ्योपशान्तं यावत् प्राप्यते / क्षायिकभावभेदश्च क्षायिकसम्यक्त्वरूपोऽविरतादार-भ्यौपशान्तं यावत्प्राप्यते, क्षीणमोहे क्षायिकं सम्यक्त्वं चारित्रं च प्राप्यते, सयोगिकेवल्ययोगिकेवलिनोस्तु नवाऽपि क्षायिकभावाः प्राप्यन्ते / पारिणामिकभावभेदा मिथ्यादृष्टी त्रयोऽपि, सास्वादनादारभ्य च क्षीणमोहं यावदभव्यत्ववर्जी द्वौ भवतः, सयोगिके वल्ययोगिकेवलिनोस्तु जीवत्वमेवेति, भव्यत्वस्य च प्रत्यासन्नसिद्धावस्थायामभावादधुनाऽपि तदपगतप्रायत्वादिना केनचित्कारणेन शास्त्रान्तरेषु नोक्तमिति नास्माभिरप्यत्रोच्यते / यस्य भावस्य भेदा यस्मिन् गुणस्थानके यावन्त उक्तास्तेषां संभविभावभेदानामेकत्र मीलने सति तावनेदनिष्पन्नः पृष्ठ: सान्निपातिकभावभेदस्तस्मिन् गुणस्थानके भवति / यथा मिथ्यादृष्टावौदयिकभावभेदा एकविंशतिः, क्षायोपशमिकभावभेदा शत दश, परिणामिकभावभेदास्वयः, सर्वे भेदाश्चतुस्त्रियां एवं सास्वादनादिष्वपि संभविभावभेदमीलने तावद्भेदनिष्पन्न: षष्ठ: सान्निपातिकभावभेदो वाच्यः / एतदर्थसंग्राहिण्यश्चैता गाथायथा"पण अंतराय अन्ना-ण तिन्नि अचक्खुचक्षु दस एए। मिच्छे सासाणे य, हवंति मीसए अंतराय पण।।१।। नाणतिगदंसणहतिगं, मीसग सम्मंच बारस हवंति। एवं च अविरयम्मि वि, नवरि तहिं दंसणं सुद्धं / / 2 / / देसे य देसविरई, तेरसमा तह पमत्त अपमत्ते। मणपज्जवपक्खेवा, चउदस अप्पुव्वकरणं उ॥३॥ वेयगसम्मेण विणा, तेरस जा सुहुमसंपराओ त्ति। ते च्चिय उवसममखीणे, चरित्तविरहेण वारस उ!|४|| खाओवसमिगभावा-ण कित्तणं गुणपए पमुच कथा। उदइयभावे इण्हिं, ते चेव पडुच दंसेमि॥५॥ चउगइयाई इगवी-स मिच्छि साणेय हुंति वीसंच। मिच्छेण विणा मीसे, इगुणीसमानाणविरहेण // 6|| एमेव अविरयम्मी, सुरनारयगइ विओगओ देसे। सत्तरस हुंति ते चिय, तिरिगइ अस्संजमाभावा / / 7 / / पन्नरस पमत्तम्मी, अपमते आइलेसतिगविरहे। ते चिय बारस सुक्के-गलेसओ दस अपुवम्मि||८|| एवं अनियट्टिम्मि वि, सुहमे संजलणलोभमणुयगई। अंतिमलेस असिद्ध-त्तभावओ जाण चउभावा || संजलणलोभविरहा, उवसंतखीणकेवलीण तिगं। लेसाभावा जाणसु, अजोगिणो भावदुगमैव / / 10 / / अविरयसम्माउवसं-तुजाव उवसमगखाइगा सम्म। अनियट्टीओ उवसं-तुजाव उवसामियं चरणं / / 11 / / खीणम्मि खइयसम्म, चरणं च दुगं पि जाण समकालं। नव नव खाइगभावा, जाण सजोगे अजोगे य॥१२|| जीवत्तमभव्वत्तं, भव्वत्तं पिहु मुणेसु मिच्छम्मि। साणाई खीणंते, दोन्नि अभव्वत्तवज्जाऊ // 13 // सजोगिम्मि अजोगिम्मि य, जीवत्तं चेव मिच्छामाईणं। समभावमीसणाओ, भावं मुण सन्निवायं तु॥१४॥ व्याख्यातप्राया एवैता: नवरमेकादश्यां गाथायां (उवसमगखाइगा सम्म त्ति) अनेनौपशमिकक्षायिकसम्यक्त्वरूपमौपशमिकक्षायिकभावभेदद्वयं युगपल्लाघवार्थ निरूपितम्। ततश्चाविरमादाभ्योपशान्तमोह यावत्कस्यचिदौपशमिकसम्यक्त्वरूपौपशमिकभावभेदः प्राप्यते, कस्यचित्पुनः क्षायिकसम्यक्त्वरूप: क्षायिकभावभेदश्चेति 170 / / कर्म०४ कर्म (११)मार्गणास्थानकेषु गुणस्थानकानि।अथ यथा प्रतिज्ञातमेव निर्वाहयन्नाहपण मिरि चउ सुरनरए, नरसन्निपणिंदिभव्यतसि सव्वे। इग विगलभूदगवणे, दुदु एगं गइतअभवे / / 16 / / पञ्च गुणस्थानकानि मिथ्यादृष्टिसास्वादनमिश्राविरतसम्यग्दृष्टिदेशविरतिलक्षणानि (तिरित्ति) तिर्यग्तौ भवन्ति। चतुःशब्दस्य प्रत्येकंयोगात्सुरे सुरगतौचत्वारिप्रथमगुणस्थानकानि, नरकेनरकातौचत्वारिप्रथमगुणस्थानानि भवन्ति, न देशविरतादीनि, तेषु भवस्यभावतो देशतोऽपि विरतेरभावादिति
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy