________________ गुणट्ठाण ६२३-अभिधानराजेन्द्रः - भाग 3 गुणट्ठाण बंधइ छस्हुमो ए-गमुवरिमावंधगाऽजोगी / / 5 / / मिथ्यादृष्टिप्रभृतयोऽप्रमत्तान्ताः सप्तष्टौ वा कर्माणि बध्नन्ति, आयुर्बन्धकालेऽष्टौ, शेषकाले तु सप्त (मीसअपव्वबायरा इति ) मिश्रा पूर्वकरणानवृत्तिबादरा: सप्तैव बध्नन्ति, तेषामायुर्वन्धाभावात्, तत्र मिश्रस्य तथास्वाभाव्यात्, इतरयोः पुनरतिविषुद्धत्वात्, तत्र आयुबन्धस्थ च घोलनापरिणामनिबन्धनत्वात् / (सुहमु त्ति) सूक्ष्मसंपरायो मोहनीयायुर्वर्जानिषट्कर्माणिबध्नाति, मोहनीयबन्धस्य बादरकषायोदयनिमित्तत्वात् तस्य च तदभावात् आयुर्वन्धाभावस्त्वतिविशुत्वादयसेय: / (एगमुवरिमि त्ति) एकं सातवेदनीयं कर्मोपरितना: सूक्ष्मसंपरायादुपरिष्टाद्वर्त्तिन उपशान्तमोहक्षीणमोहसयोगिकेवलिनो बध्नन्ति, न शेषकर्माणि तद्वन्धहेतुत्वाभावात् / अबन्धकः सर्वकर्मप्रबन्धरहितोऽयोगी चरमगुणस्थानक ववर्ती, सर्वबन्धहेत्वभावादिति, उक्ता गुणस्थानकेषु बन्धस्थानयोजना॥५६॥ साम्प्रतंगुणस्थानकेष्वेवोदयसत्तास्थानयोजनां निरूपयन्नाहआसुहुमं संतुदए, अट्ठ वि मोह विणु सत्त खीणम्मि। चउ चरिमदुगे अहउ, संते उवसंति सत्तुदए॥६०॥ सूक्ष्मसम्परायगुणस्थानक मभिव्याप्य सत्तायामुदये चष्टायपि कर्मप्रकृतयो भवन्ति / अयमर्थ:-मिथ्यादृष्टिगुणस्थानक मारभ्य सूक्ष्मसम्परायं यावत्सत्तायामुदये चाष्टावपि कर्माणि प्राप्यन्ते, मोहं विना मोहनीयं वर्जयित्वा सप्त कर्मप्रकुतयो भवन्ति, क्षीणे क्षीणमोहगुणस्थानके सत्तायामुदये च, मोहनीयस्य क्षीणत्वात् / (चउचरिमदुगे त्ति) चरमद्विके सयोग्ययोगिकेवलिगुणस्थानद्वये सत्तायामुदये च चतस्रो घातिकर्मप्रकृतयो भवन्ति, घातिकर्मचतुष्टयस्य क्षीणत्वात्। (अट्ठएसंते उवसयंति सत्तुदए त्ति) तुशब्दस्य व्यवहितसंबन्धादुपशान्तमोहगुणस्थानके पुनरष्टावपि कर्मप्रकृतयः सत्तायां प्राप्यन्ते, सत्तोदये मोहनीयो दयाभावादिति भावः / उक्ता सत्तोदयस्थानयोजना // 6 // (९)साम्प्रतमुदीरणास्थानानि गुणस्थानकेषु निरूपयितुमाहउहरंति पमत्तता, सगऽट्ठ मीसऽट्ट वेय आउ विणा। छग अपमत्ताइ तओ ,छ पंच सुहुमो पणुवसंतो // 61 / / मिथ्यादृष्टिप्रभृतयः प्रमत्तान्ता यावदद्याप्यनुभूयमाननभवायुरावलिका शेषन भवति, तावत् सर्वेऽप्यमी निरन्तरमष्टावपि कर्माण्युदीरयन्ति। आवलिकाऽवशेषे पुनरनुभूयमाने भवायुषि सप्तव, आवलिकाऽवशेषस्य कर्मण उदीरणाया अभावात्, तथास्वाभाव्यात् / (मीसह त्ति) सम्यग्मिथ्यादृष्टिः पुनरष्टावेव कर्माण्युदीरयति, नतुकदाचनाऽपि सप्त, सम्यग्मिथ्यादृष्टिगुणस्थानकं वर्तमानस्य सत आयुष आवलिकावशेषत्वाभावात्। स ह्यन्तर्मुहूर्तावशेषायुष्क एव तद्भाव परित्यज्य सम्यक्त्वं मिथ्यात्वं वा नियमात्प्रतिपद्यत इति / अप्रमत्तादयस्त्रयाऽप्रमत्तापूर्वकरणानिवृत्तिबादरलक्षणा वेद्यायुर्विना वेदनीयायुषी अन्तरेण षट् कर्माणि उदीरयन्ति, तेषामतिविशुद्धतया वेदनीयायुषोरुदीरणायोग्याध्यवसायस्थानाभावात्। (छ पंच सुहुमो ति) तत्रषट् अन्तरोक्तानि तानि च तावदुदीरयन्ति, यावन्मोहनीयमावलिकाऽवशेषं न भवति / आवलिकाऽवशेषे च मोहनीये तस्याप्युदीरणाया अभावात् / शषाणि पञ्च कर्माण्युदीरयति सूक्ष्म: / (पणुवसंतु त्ति) उपशान्तमोह: पञ्च कर्माण्युदीरयति, नवेदनीयायुर्मोहनीयकर्माणि, तत्रवेदनीयायुषो: कारणं प्रागेवोतं, मोहनीयं तूदयाभावान्नोदीयंते, "वेद्यानमेवोदीर्यते" इतिवचनादिति // 61 // पण दो खीण दु जोगी, अणुदीरगञ्जोगिथोव उवसंता।(६२) क्षीणमोहोऽनन्तरोक्तानि पञ्चकर्माण्युदीरयति।तानिचतावदुदीरयति यावज्ज्ञानावरणदर्शनावरणान्तरायाण्यावलिका-प्रविष्टानि न भवन्ति, आवलिकाप्रविष्टेषुतेषु तेषामप्युदीरणाया अभावात्। द्वेएव नामगोत्रलक्षणे कर्मणी उदीरयति। (दुजोगि त्ति) द्वे कर्मणी नामगोत्राख्ये, योगा नाम मनोवाक्कायरूपा विद्यन्ते यस्य स योगी, सयोगिकेवल्युदीरयति, न शेषाणि / घातिकर्मचतुष्टय तु मूलत एव क्षीणमिति / न तस्यो दीरणासंभवः, वेदनीयायुषोस्तूदीरणा पूर्वोक्तकारणादेव न भवति / (अणुदीरगऽजोगि त्ति) अयोगिकेवली न कस्याऽपि कर्मण उदीरकः, योगसव्यपेक्षत्वादुदीरणाया:,तस्य च योगा भावादिति उक्ता गुणस्थानके षूदीरणास्थानयोजना। (10) गुणस्थानेषु भावाः। संप्रतिजीवगुणभूतेषु गुणस्थानकेषु भभवान् निरूपयिषुराह - सम्माइचउसु तिग चउ, मावा चउ पणुवसामगुवसंते। चउ खीणपुस्वि तिन्नि, सेसगुणट्ठाणगेगजिए॥७०।। (सम्माइ त्ति) सम्यग्दृष्ट्यादिष्वऽविरतसम्यग्दृष्टिप्रभृतिषु चतुर्दा चतुःसंख्येष्वविरतसम्यग्दृष्टिदेशविरतप्रमत्ताऽप्रमत्तलक्षणेषु गुणस्थानके ष्विति वक्ष्यमाणापदस्यात्रापि संबन्धःकार्यः (तिग चउ भाव ति) त्रयश्चत्वारोवाभावाः, प्राप्यन्ते इति भावः। तत्र क्षायोपशमिकसम्यग्दृष्टश्चतुर्वपि गुणस्थानके विमे त्रयोऽपि भावा लभ्यन्ते / तद्यथायथासंभववमौदयिकी गतिः, क्षायोपशमिकन्द्रियादिसम्यक्त्वादि पारिणाभिक जीवत्वमिति / क्षायिकसम्यग्दृष्टैरौपशमिकसम्यग्दृष्टश्च चत्वारो भावा लभ्यन्ते, त्रयस्तावत्पूर्वोक्ता एव, चतुर्थस्तु क्षायिकसम्यग्दृष्टः, क्षायिकसम्यक्त्वलक्षणः, औपशमिकसम्यग्दृष्ट : पुनरौपशमिकसम्यक्त्वभाव इति। (चउ पणुवसामगुवसंते त्ति) चत्वारः पञ्च वा भावा द्वयोरप्युशमकोपशान्तयोर्भवन्ति। किमुक्तं भवति? अनिवृत्तिबादरसूक्ष्मासम्परायगुणस्थानकद्वयवर्ती जन्तुरुपशमक उच्यते, तस्य चत्वारः पञ्च वा भावा भवन्ति। कथमिति चेत्? उच्यते त्रयस्तावत्पूर्ववदेव, चतुर्थस्तु क्षीणदर्शनत्रिकस्य श्रेणिमारोहतः क्षायिकसम्यक्त्वलक्षणोsन्यस्य पुनरौपशमिकस्वभाव इति / अमीषामेव चतुर्णा मध्येऽनिवृत्तिबादरसूक्ष्मसंपरायगुणस्थानकद्वय वर्तिनोऽप्यौपशमिकचारित्रस्य शास्त्रान्तरेषु प्रतिपादनादौपशमिक चारित्रप्रक्षेपे पञ्चम इति, उपशान्त उपशान्तमोहगुणस्थानकवी, तस्यापि चत्वारः पञ्च वा भावा: प्राप्यन्ते, ते चानन्तरोपशमकपदप्रदर्शिता एव (चउ खीणा पुवि त्ति) चत्वारो भावा: क्षाणापूर्वयोः क्षीणमोहगुणस्थानकेऽपूर्वकरणगुणस्थानके चूत्यर्थः / तत्र क्षीणमोहे त्रय: पूर्ववत् चतुर्थः क्षायिकसम्यक्त्वचारित्रलक्षणः, अपूर्वकरणे तु त्रय: पूर्ववत्, चतुर्थः पुनः क्षायिकसम्यक्त्वस्वभाव औपशमिकसम्यक्त्वस्वभावो वेति (तिन्नि सेसगुणट्ठाणग त्ति) त्रय: त्रिसंख्या भावा भवन्ति, केष्वित्याह-विभक्तिलोपाच्छेषगुणस्थानकेषु मिथ्यादृष्टिसास्वादनसम्यग्मिथ्यादृष्टिसयोगिकेवल्य