________________ गुणट्ठाण ६२२-अभिधानराजेन्द्रः - भाग 3 गुणट्ठाण इदानीमुत्तरबन्धभेदान् गुणस्थानकेषु चिन्तयन्नाहपणपन्नतिछहि-यचत्त गुणचत्त छचउदुगवीसा। सोलस दस नव नव सत्त हेउणो न उ अजोगिम्मि॥५४॥ मिथ्यादृष्टौ पञ्चपञ्चाशद्वन्धहेतवः / सासादने पञ्चाशद्वन्धहेतवः / चतुःशब्दस्य प्रत्येकं संबन्धात् त्र्यधिकचत्वारिंशदित्यर्थः / बन्धहेतवे मिश्रगुणस्थानके, षडधिकचत्वारिशद्वन्धहेतवोऽविर-तगुणस्थानके, एकोनचत्वारिंशद्वन्धहेतवे देशविरतगुणस्थानके, विंशतिशब्दस्य प्रत्येक संबन्धात् षड्विंशतिबन्धहेतव: प्रमत्तगुणस्थाने, चतुर्विंशतिबन्धहेतवोऽप्रमत्तगुणस्थानके, द्वाविंशतिबन्धहेतवोऽपूर्वकरणे, षोडश बन्धहेतवोऽनिवृत्तिबादरे, दशबन्धहेतवः सूक्ष्मसंपराये, नव बन्धहेतवः उपशान्तमोहे, नव बन्धहेतवः क्षीणमोहे, सप्त बन्धहेतवः सयोगिके वलिगुणस्थाने, न तु नैवायो गिन्ये कोऽपि बन्धहेतुरस्ति, बन्धाभावादेवेति // 54 // अथाऽमूनेव बन्धहेतून् भावयन्नाहपणपन्न मिच्छि हारग-दुगूण सासाणि पन्न मिच्छ विणा। मिस्सदुगकम्मअण विणु, तिचत्त मीसे अहिछचत्ता।।१५।। मिथ्यादृष्टावाहारकाहारकमिश्रलक्षणद्विकोना: पञ्चपञ्चाशद्वन्धहेतवो भवन्ति, आहारकद्विकवर्जनंतु 'संयमवतां तदुदयो नान्यस्येति' वचनात् / सास्वादने मिथ्यात्वपञ्चकेन विना पञ्चोशगन्धहेतवो भवन्ति, पूर्वोक्ताया: पञ्चपञ्चाशतो मिथ्यात्वपञ्चके ऽपनीते पञ्चाशद्वन्धहतेव: सास्वादने द्रष्टव्याः। मिश्रे त्रिचत्वारिंशद्वन्धहेतवा भवन्ति / कथमिति? आह-मिश्राद्विकमौदारिक मिश्रवैक्रिय मिश्रलक्षणं(कम्म त्ति)कार्मणशरीरम् (अण त्ति) अनन्तानुबन्धिनस्तैर्विना / इयमत्र भावना''न सम्ममिच्छो कुणइ कालमिति" वचनात्सम्यमिथ्यादृष्टे: परलोकगमनाभावात् औदारिकमिश्रवैक्रिय मिश्रद्विकं कार्मणं च न संभवति, अनन्तानुबन्ध्युदयस्य चास्य निषिद्धत्वादनन्तानुबन्धिचतुष्टयं च नास्ति, अत एतेषु सप्तसु पूर्वेक्तायाः पञ्चाशतोऽपनीजेषु शेषास्त्रिचत्वारिंशद्वन्धहेतवा मिश्रे भवन्ति। अथानन्तरं षट्चत्वारिंशद्वन्धहेतवो भवन्ति / / 55 / / सदुमिस्सकम्म अजए, अविरइकम्मुरलमीसविकसाए। मुत्तु गुणचत्त देसे, छवीस साहारदु पमत्ते // 56 // क्वइति? आह-अयते अविरते, कथमिति? आह-(सदुमिस्सकम्म त्ति) द्वयोर्मिश्रयो: समाहारो द्विमिश्रं द्विमिश्रंच कार्मणंच द्विसिश्रकार्मणं, सह द्विमिश्रकार्मणेन वर्तते या त्रिचत्वारिंशत् / इयमत्र भावनाअविरतसम्यग्दृष्टः परलोकगमनसंभवात्पूर्वापनीतमौदारिकमिश्रवैक्रियमिश्रलक्षणं द्विकं कार्मणं च पूर्वोक्तायां त्रिचत्वारिंशति पुनः प्रक्षिप्यते,ततोऽविरतेषट्चत्वारिंशद्वन्धहेतवा भवन्ति। तथा-देशे देशविरते एकोनचत्वारिंशद्गन्धहेतवा भवन्ति / कथमिति? आहअथिरतिस्त्रसाऽसंयमरूपाकार्मणम्, औदारिकमिश्र, द्वितीयकषायानप्रत्याख्यानावरणान् सुक्त्वा शेषा एकोनचत्वारिंशदिति / अत्रायमाशय:-विग्रहगतावपर्याप्तकावस्थायां च देशविरतेरभावात्कार्मणौदारिकमिश्रद्वयं न संभवति, त्रसाऽसंयमा-द्विरतवत्रसाविरतिर्न जाघटीति। ननुत्रसासंयमात् संकल्पजादेवासौ विरतो, नत्वारम्भजाऽपि, तत्कथमसौत्रसाविरतिः सर्वऽप्यनीयते? सत्यम्।। किं तु गहिणामशक्यपरिहारत्वेन सत्यप्यारम्भजा असाविरतिर्न विवक्षितेत्यदोष: एतच्च बृहच्छतकबुहचूर्णिमनुश्रित्य लिखितमिति न स्वमनीषिकया परिभावनीया। तथाऽप्रत्याख्यानावरणोदयस्यास्य निषिद्धत्वादित्यप्रत्याख्यानावरणचतुष्ठयं नघटांप्राश्चति,तत एते सप्त पूर्वोक्तायाः षट्चत्वारिंशतोऽपनीयन्ते, तत एकोनचत्वारिंशद्वन्धहेतवः शेषा देशविरते भवन्ति। तथा षट्विंशतिबन्धहेतव: प्रमत्ते भवन्ति। (साहारदु त्ति) सहाहारकद्विकेनाऽऽहारकाहारकमिश्रलक्षणेन वर्त्ततम इति साहारकद्विका।। अविरइ इगार तिकसा-यवज अपमत्ति मीसदुगरहिया। चउवीस अपुटवे पुण, दुवास अविउव्वियाहारे।।५७|| साविरतेर्देशविरतेऽपनयनाक्ष्यैषा एकादशाऽविरतया इहगृहन्ते। तृतीया: कषायास्विकषाया: प्रत्याख्यानावरणा:, तद्वर्जास्त्वरहिता: साहारकद्विका च सैवैकोन,चत्वारिंशत्षट्विंशतिर्भवति / इदमत्र हृदयम्-प्रमत्तगुणस्थाने एकादशधाऽविरतिः प्रत्याख्यानावरणचतुष्टयं चन संभवति, आहारकद्विकं च संभवति, ततःपूर्वोक्ताया एकोनचत्वारिंशतः पञ्चदशकेऽपनीते, द्विके च तत्र प्रक्षिप्ते षडविंशतिबन्धघहेतवः प्रमत्ते भवन्तीति। तथा अप्रमतस्य लब्ध्यऽनुपजीवनेनाहारकमिश्रवैक्रिययमिश्रलक्षणमिश्रद्विकरहिता सैव षड्विंशतिश्चतुर्विशतिर्बन्धहेतवाऽप्रमत्ते भवन्ति अपूर्वे अपूर्वकरणे पुन: सैव चतुर्विंशतिवैक्रियाहारकरहिताद्वाविंशतिर्बन्धहेतवे भवन्तीति॥५७।। अछहास सोल वायरि, सुहुमे दस वेयसंजलणति विणा। खीणुवसंति अलोभा, सजोगिपुटवुत्तसगजोगा।।५८|| एतेच पूर्वोक्ता द्वाविंशतिबन्धहेतवोऽच्छहासास्यरत्यरतिशोकभयजुगुप्सालक्षणहास्यषटकरहिता: षोडश बन्धहेतवः (वायरि त्ति) अनिवृत्तिबादरसम्परायगुणास्थानके भवन्ति, हास्यादिषटकस्यापूर्वकरणगुणस्थानक एव व्यवच्छिन्नवादिति भवः। तथा तएव षोडश त्रिकशब्दस्य प्रत्येकं संबन्धाद्वेदत्रिकं स्त्रीपुंनपुंसकलक्षण, संज्वलनत्रिकंसंज्वलनक्रोधमानमायारूपं,तैन विना दश बन्धहेतवः सूक्ष्मसम्पराये भवन्ति। वेदत्रयस्य संज्वलनक्रोधमानमायात्रिकस्य चाऽनिवृत्तिबादरसंपरायगुण-स्थानकएव व्यवच्छिन्नत्वात् / त एव दश अलोभा लोभरहिताः सन्तो नव बन्धहेतवः क्षीणमोहे उवशान्तमोहे च भवन्ति, मनोयोगचतुष्कवाग्योगचतुष्कौदारिककाययोगलक्षणा नव वन्धहेतव: उपशान्तमोहे क्षीणमाहे च प्राप्यन्ते, न तु लोभ:, तस्य सूक्ष्तसम्पराय एव व्यवच्छिन्नत्वात्। सयोगिकेवलनि पूर्वोक्ता: सप्त योगा: / तथाहि-औदारिकमौदारिकमिभंकार्मणं प्रथमान्तिमौ मनोयोगी, प्रथमान्तिमौ वाग्योगौ चेति। तत्रौदारिकं सयोग्यवस्था-यामौदारिक-मिश्रकार्मणकाययोगौ समुद्धाताद्धवस्थायामेव वेदितव्यौ / "मिश्रौदारिकयोक्ता, सप्तमषष्ठद्वितीयोषु / / कार्मणशरीरयोगी, चतुर्थकंपञ्चमेतृतीयेच॥१॥" इति; प्रथमान्तिममनोयोगौ भगवतोऽनुत्तरसुरादिभिर्मनसा पृष्ठस्य मनसैव देशनातः प्रथमान्तिवाग्योगौ तु देशनादिकाले / अयोगिकेवलिनि न कश्चिद्गन्धा हेतुर्योगस्यापि व्यवच्छिन्नत्वात् / उक्ता गुणस्थानकेषु बन्धहेतवः / / 58|| सम्प्रति गुणस्थानकेष्वेव बन्धं निरूपयन्नाहअपमत्तंता सत्तट्ठमीससअप्पुटववायरा सत्त।