________________ एसणा 71 - अभिधानराजेन्द्रः - भाग 3 एसणा लोकेऽवस्थितिः ततोऽत्रापि प्रत्यक्षमाणेन सांप्रतकालीनसमवसरणसक्तेनैषणाशोधनेन परोक्षमपि तीर्थकरकालभाविसमवसरणसाधूनामेषणाशोधनं साध्यते इति 'नेव एसहीणुवसत्ति'' अपि च श्रीमन्महावीरस्वामी श्री-सुधर्मस्वामी जम्बूस्वामी चेति त्रीणि पुरुषयुगानि यावदनगाराणां निर्वाणपदवीगमनवत्तृतीयेच पुरुषयुगे निर्वृते सति सिद्धमार्गः क्षपकश्रेणिकेवलोत्पत्त्यादिरूपो व्यवछिन्नः न पुननिदर्शनचारित्ररूपः शास्त्रपरिभाषितस्तस्येदानीमप्यनुवर्तमानत्वात्ततश्च यदि तेषां साधूनामुद्गमादिदोषशोधनं नाभविष्यत् ततस्ते सिद्धमार्गमपि नासादयिष्यन् अतो निश्चीयते तेऽपि भगवन्त इत्थमेवैषणाशुद्धिं कृतवन्त इति। वृ० 130 / (12) विस्तरेण दश स्वेषणादोषेषु प्रायश्चित्तमाह। ससरक्खे ससणिद्धे, पणगं लहुगा दुगुंछसंसत्ते। उक्कुट्टणंते गुरुगो, सेसे सव्वेसु मासलहू॥ शङ्कितेपञ्चविंशतेर्दोषाणांमध्ये यच्छङ्कितं तन्निष्पन्नमापद्यते। प्रायश्चित्तं | मक्षिते सरजस्केन सचित्तमिश्रपृथिवीकायरजोमक्षितेन हस्तेन मात्रकेण वा भिक्षां गृह्णतः पञ्च रात्रिन्दिवानि।सचित्त-मिश्राप्कायनिग्धेन हस्तकेन मात्रकेण वा भिक्षामाददानस्य पञ्च रात्रिंदिवानि, अचित्तेन जुगुप्सितेन विष्ठामूत्रमद्यमांसल-शुनपलाण्डुप्रभृतिना मक्षितेन गृह्यमाणे चत्वारो गुरुकाः, गुडधृततैलादिभिरपि कीटिकासंसक्रम॑क्षितमाददानस्य चत्वारो लघवः / पुरःकर्मणि पश्चात्कर्मणि च चतुर्लधुकाः / अन्ये मासलघु प्रतिपन्नवन्तः / उत्कुट्टिते अनन्तेसचित्ते वनस्पतिकायिके मासगुरु चूर्णेऽप्यनन्ते सचित्ते मासगुरु "सेसेसुसव्वेसुमासलहु" परीते प्रत्येके कुट्टिते चूर्णिणते वा प्रत्येकं मासगुरु, मिश्रे परीते सर्वत्र मासलघु अनन्ते मासगुरु / तथा मृत्तिकालिप्तहस्ते यावन्तः सेटिकादयो मृत्तिकाया भेदास्तेषु सर्वेषु मासलघु। निक्षिप्ते प्रायश्चित्तमाह। चउलहुगा चउगुरुगा, मासो लहुगुरुयपणगलहुगुरुगं / वुच्छंति परितणंतर, मीसे वीए य अणंतपरे य॥ प्रत्येकं सचित्तानन्तरप्रतिष्ठितमाददानस्य चत्वारो लघुकाः प्रत्येक सचित्तपरंपरप्रतिष्ठितमपि चत्वारो लघवः अनन्तसचित्तानन्तरप्रतिष्ठितमादानस्य चत्वारो गुरुकाः / अनन्तसचित्तपरंपरप्रतिष्ठितमपि गृहृतश्वत्वारो गुरुकाः प्रत्येकमिश्रानन्तरप्रतिष्ठितं परप्रतिष्ठितं वा गृह्णतो मासलघु / अनन्तरं परंपरया वा प्रतिष्ठितमाददानस्यमासगुरु। बीजेषुपरितेष्वनन्तरंवा प्रतिष्ठितंगृह्णतः पञ्चरात्रिंदिवानि लधुकानि / अनन्तेषु गुरुकानि / अन्ये तु ब्रुवते प्रत्येकमिश्रेऽनन्तरं परं वा प्रतिष्ठितमाददानस्य लघुरात्रिंदिवसपञ्चकम्। अनन्ते अनन्तरं परं वा प्रतिष्ठितं गृह्णतो गुरुकमिति / तथा परे प्रत्येके | सचित्तमनन्तरप्रतिष्ठितंगृह्णतश्च-तुर्लघवः परंपरप्रतिष्ठितंमासलघु।तथा प्रत्येके मिश्रेअन-न्तरप्रतिष्ठितमाददानस्य लघुको मासः परंपरप्रतिष्ठितं गृह्णतो लघु रात्रिंदिवपञ्चकम्। अनन्ते मिश्रेऽनन्तरं प्रतिष्ठिते मासगुरु परंपरप्रतिष्ठिते गुरु रात्रिंदिवपञ्चकमिति / उक्तं च "पुढवी आऊ तेऊ, परित्ते चेव तह य वणकाये। चउलहु अणतरम्मि, सचित्ते परंपरे मासो। मासाणंतरलहुगो, लघुपणगपरंपरे परित्तेसु / एए चेव य गुरुगा, होति अणंते पइट्ठाणे" इति त्रसकाये अनन्तरप्रतिष्ठितं गृह्णतश्चतुर्लघुकं परंपरप्रतिष्ठितं गृह्णतो मासलघुत्रसकाये "चतुलहुगा अनंतरपरंपरहिए लहुगो" इतिवचनात् एवं षड्जीवनिकायेषु प्रत्येकेऽनन्ते मिश्रे च पृथिव्यादौ बीजे च प्रत्येके अनन्ते मिश्रे चानन्तरं परंपरं च प्रतिष्ठितमाददानस्य प्रायश्चित्तमिति।। अधुना पिहितं संहरणं चाधिकृत्य प्रायश्चित्तमाह। एमेव य पिहियम्मि, लहुगा दय्वम्मि चेव अपरिणए। वीसुम्मिस्से पणगं, अणंतवीए य पणगगुरु / / एवमेव अनेनैव प्रकारेण पिहितेऽपि प्रायश्चितं वक्तव्यं किमुक्तं भवति यथा निक्षिप्ते प्रायश्चित्तमुक्तमेवं येन द्रव्येण सचित्तेनाचित्तेन मिश्रेण वाऽनन्तरं परक चापिधीयते तत्रापि द्रष्टव्यं नवरमचित्तेन गुरुकेण पिहिते गृह्णतश्चतुर्गुरुकं संहरणे येन मात्रकेण भिक्षां दातुकामस्तत्र यदि किंचित्प्रक्षिप्तं वर्तते तदन्यत्र संहृत्य ददाति तच संह्रियमाणामद्यापि अपरिणतं तस्मिन्नपरिणते द्रव्ये संहते गृहृतश्चत्वारो लघुकाः / दायके प्रगलिते नपुंसके चत्वारो गुरु-काः। पिजनकर्तनश्लक्ष्णखण्डकरणमईनप्रवृत्तेषु प्रत्येक मासलघु। शेषेषु दायकदोषेषु चत्वारो लघुकाः। उन्मिश्रे सचित्तानन्तमिश्रेचतुर्गुरु। मिश्रानन्तमिश्रेमासगुरु। सचित्त-प्रत्येकमिश्रे चतुर्लघु। प्रत्येकमिश्रमिश्रे मासलघु। विष्वक् उन्मिश्रे प्रत्येकबीजोन्मिश्रे लघु रात्रिं दवपञ्चकम् / अनन्तबीजोन्मिश्रे गुरु रात्रिंदिवपञ्चकम् / अपरिणते द्रव्यापरिणते कायनिष्पन्नं ये कायाः प्रत्येकरूपा अनन्तरूपा वा अपरिणता तन्निप्पन्नमित्यर्थः / तत्र पृथिव्यादिष्वपरिणतेषु चतुर्लघुकम् / अनन्तेष्वपरिणतेषु चतुर्गुरु / उक्तंच "दव्वापरिणते चउलहुपुढवादीचउगुरु अनंतेसु।भावापरिणते "दोण्हं तुर्भुजमाणेणमेगो तत्थ निमतए'' इत्येवं रूपेषु लघुको मासः "भावापरिणते लघु गो" इति वचनात् लिप्ते आद्येषु त्रिषु भङ्गेषु चत्वारो लघुकाश्चरमभङ्गेऽनेषणायां चतुर्गु-रवः / छर्दिते आयेषु त्रिषु भङ्गेषु प्रत्येकं चतुर्लधुकं चरमभङ्गे नाचीर्णम्। सजोगसइंगाले, अणंतमीसे चउगुरु हों ति। वीसुम्मीसे मासो, सेसे लघुका यसवेसु / / संयोजना द्विविधा अन्तर्बहिश्च / तत्रान्तःसंयोजनायां चत्वारो लघवः बहिः संयोजनायां चत्वारो गुरुका अन्ये चान्तर्बहिर्वा संयोजनायां चत्वारो गुरुका इति प्रतिपन्नाः / प्रमाणाति-रिक्तमाहारयति चत्वारो लघवः (सइंगालेत्ति) साङ्गारे आहार्यमाणे चत्वारो गुरुकाः, सधूमे चतुर्लघु निष्कारणे चतुर्लघु सचि-त्तानन्तमिश्रे चतुर्गुरुकम् / एतच्च प्रागेव स्वस्थानेऽभिहितम्। तथा विष्वगुन्मिश्रेपृथिवीकायादिभिः प्रत्येकर्मिश्रे लघुको मासोऽनन्तैरुन्मिश्रे गुरुकः (सेसे लहुगा उ सव्वेसुत्ति) शेषेषु सर्वेष्वपि ग्रहणैषेणाभेदेषु ग्रासैषणाभेदेषु चत्वारो लघुकास्ते च तथैव योजिताः। दृ०१ उ०। (13) पिण्डैषणा च पिण्डग्रहणप्रकारास्ताश्च सप्त तथा चाह। सत्त पिंडेसणाओ पण्णत्ताओ सत्त पाणेसणाओ पण्णत्ताओ।। पिण्डं समयभाषया भक्तं तस्यैषणा ग्रहणप्रकाराः पि-ण्डैषणास्ताश्चैताः "संसट्ठमसंसट्ठा, उद्धडं तहप्पलेविया चेव 3 / उग्गहिया 5 एगहिया, 6 उज्झियधम्मा,यसत्तमिया" ||१||त-त्रासंस्पृष्टा हस्तमात्राभ्यांचिन्तनीया। "असंसट्टेमत्तेखरंडियत्ति वुत्तं भवइ"॥एवंगृह्णतः प्रथमा भवति गाथायांतु सुख-मुखोचारणार्थोऽन्यथापाठः / संस्पृष्टा ताभ्यामेव चिन्त्या "संसट्टे