________________ गुणट्ठाण 620 - अभिधानराजेन्द्रः - भाग 3 गुणट्ठाण ततो (देसे सत्तद्वित्ति) देशे देशविरतगुणस्थाने सप्तषष्टिध्यते, (तियकसायं तु त्ति) तृतीय कषायाणां प्रत्याख्यानाचरणक्रोधनानमायालोभानां देशविरतेऽन्तस्तदुत्तरेषु तेषामुदयाभावात् अनुदितानां चाबन्धात् 'जे वेयइ ते बंधइ" इतिवचनादिति भावः एतच्च प्रकृतिचतुष्कं पूर्वोक्तसप्तष्टरपनीयते।६। तेवट्ठि पमत्ते सोग अरइ अथिरगुद अजस अस्सायं। वुच्छिज्ज छज्ज सत्त व, नेइ सुराउं जया निटें ||7|| (तेवट्ठि पमत्ति त्ति) त्रिषष्टिः प्रमत्ते बध्यते / शोकः अरतिः (अथिरदुग ति) अस्थिरद्विकमस्थिराशुभरूपम् (अजस क्ति) अयश: कीर्तिनाम, असातमित्थेता:षट् प्रकृतयः प्रमत्ते (बुच्छिच्च त्ति) प्रकृतत्वादादेशस्य, व्यवच्छिद्यन्ते क्षीयन्ते, बन्धमाश्रित्येति भवः / यद्धा-सप्त वा व्यवच्छिद्यन्ते / कथमिति ? आह (नेइ सुराउं जया निहूँ ति) यदा कश्चित्प्रमत्तः सन् सुरायुर्वद्भुमारभते, निष्ठां च नयति, सुरायुर्बधं समापवतीत्यर्थः। तदा पूर्वोक्ता: षट्सुरायुःसहिता: सप्त व्यवच्छिद्यन्ते इति // 7 // गुणसडि अप्पमत्ते, सुराउ वंधंतु जइ इहागच्छे / अन्नह अट्ठावन्ना, जं आहारगदुगं बंधे ||6|| (गुणसहित्ति) एकोनषष्टिरप्रमत्ते, बध्यते इति शेषः / कथमिति? आह सुरायुर्बध्नन् देवायुर्वन्धं कुर्वन्, यदि चेदिहाऽप्रमत्त गुणस्थाने आगच्छेत् / इयमत्र भावना-सुरायुर्बन्ध हि प्रमत्त एवारभते, नाऽप्रमत्तादि:, तस्यातिविशुद्धत्वात्, आयुष्कस्य तु धोलनापरिणामे नैव बन्धनात्, परं सुरायुर्बध्नन् प्रमत्ते किञ्चित्सावशेषे सुरायु.न्धेऽप्रमत्ते ऽप्यागच्छेत्। अत्र च सावशेष सुरायुर्निष्ठां नयति / तत एकोन-षष्टिरप्रमते भवति, "देवाउयं च इवं नायव्वं अप्पमत्तम्मि त्ति" वचनात्। (अन्नह अट्ठावन्न त्ति) अन्यथा यदि सुरायुर्बन्ध: प्रमत्तेनारब्धः प्रमत्तेनैव निष्ठा नीतस्ततोऽष्टपञ्चाशदप्रमत्ते भवतीति / ननु यदि पूर्वोक्तत्रिषष्टे: शोकारडरत्यस्थिरद्विकाऽयशोऽसातलक्षणं प्रकृतिषटकमपनीयते, तर्हि सा सप्तपञ्चाशद्भवति, अथ: सुराय: सहित पूर्वोक्तप्रकृतिषटकमपनीयते तर्हि षट् पञ्चाशत्, ततः कथमुक्तमेको-नमषष्टिरष्टपञ्चाशद्वाऽप्रमत्ते इत्याशब्याह (जं आहारगदुगं वंधे त्ति) यद्यस्मात् कारणादाहारकद्विकं बन्धे भवतीति शेषः / अयमत्राशय:-अप्रमत्तयतिसंबन्धिना संयमविशेषेणाहासरकद्विकं बध्यते, तचेह लभ्यते इति पूर्वापनीतमप्यत्र धिप्यते / ततः षट् पञ्चाशदाहारकद्विक क्षेपे अष्टापञ्चाशद्भवति, सप्तपञ्चाशत्पुनराहारकद्विकक्षेपे एकोनषष्टिरिति / / 8 / / अहवन्न अपुय्वइम्मि निद्ददुगंतो छपन्न पणभागे। सुरदुगपणिंदिसुखगइ, तसनवउरलविणुतणुवंगा / / / समचउरनितिधजिणव-अअगुरु लहुचउछलंसि तीसंतो। चरमे छवीसबंधो, हासरईकुच्छभयभेओ॥१०॥ (अडवन्न अपुव्वाइम्मि त्ति) इह किलापूर्वकरणाद्धायाः सप्त भागा: क्रियन्ते / तत्रापूर्वस्याऽपूर्वकरणस्याऽऽदिमे प्रथमे सप्तभागेऽष्टापञ्चशत् पूर्वोक्ता भवन्ति / तत्र चाद्ये सप्तभागे निद्राद्विकस्य निद्राप्रचलालक्षणस्याऽन्तो भवति, अत्र बध्यते, नोत्तरत्रापि, उत्तरत्र तद्न्धाध्यवसाय- | स्थानाभावात्, उत्तरेप्यमेव हेतुरनुसरणीयः, ततः परं षट्पञ्चाशद्भवति। कथमिति? आह-(पणभागि त्ति) पञ्चानां भागानां समाहारः पञ्चभाग, तस्मिन् पञ्चभागे, पञ्चसु भागेष्वित्यर्थः। इदमुक्तं भवति-अपूर्णकरणाद्वाय: सप्तसु भागेषु विवक्षिलेषु प्रथमे सप्तभागेऽष्टपञ्चाशत्, तत्र च व्यवच्छिन्ननिद्राप्रचलापनवने षट्पञ्चाशत्, साच द्वितीये सप्तभागेतृतीये सप्तभागेचतुर्थे सप्तभागे पञ्चमे सप्तभागेषष्ठे सप्तभागे भवतीत्यर्थः। अत्र च षठे समभागे आसां त्रिंशत्प्रकृतीनामन्तो भवतीत्याह-(सुरदुगेत्यादि) सुरद्विकं सुरगतिसुरानुपूर्वी रूपम् / (पणिंदि त्ति) पञ्चेन्द्रियजातिः, सुखगतिः प्रशस्तविहायोगतिः,(तसनवत्ति) त्रसनवकं त्रसवादरपर्याप्तप्रत्येकस्थिरशुभसुभगसुस्वरादेयलक्षणम् (उरलविणु त्ति) औदारिकशरीरं विना, औदारिकाङ्गोपाङ्गं च विनेत्यर्थः, (तणु त्ति) तनवः शरीराणि (उवगत्ति)उपाङ्गानि / इदमुक्तं भवति-वैक्रियशरीर-माहारकशरीरं तैजसशरीरं कार्मणशरीरं वैक्रियपाङ्गोपाङ्गमाहारकङ्गो-पाङ्ग चेति / (समचउर त्ति) समचतुरस्रसंस्थानं (निमिण त्ति)निर्माण (जिण त्ति) जिननाम, तीर्थकरनामेत्यर्थः (वन्नअगुरुलहुचउ ति) चतुःशब्दस्य प्रत्येकमभिसंबन्धाद्वर्णचतुष्कं वर्णगन्धरसम्पर्शरूपम्, अगुरुलघुचतुष्कम्-अगुरुलघूपघातपराघातोच्छासलक्षणमित्येतासां त्रिशत्प्रकृतीनां (छलसि त्ति) षोऽशो भाग: षडंश:, "मयूरव्यंसकादित्वात्मासः / यथा-तृतीयो भागस्त्रिभाग इति / अत्र मकारस्य लकार: "डो ल:"।।१।२०२। इति प्रकृतसूत्रेण / तस्मिन् षडशे; ततः पूर्वोक्तषट्पञ्चाशत् इमास्त्रिंशत्प्रकृतयोऽपनीयन्ते, शेषाः षडविंशति:प्रकृतयोऽपूर्वकरणस्य, (चिरमि त्ति) चरमेऽन्तिमे सप्तमे सप्तभागे बन्धे, लभयन्ते इत्यर्थः। चरमे च सप्तभागे हास्यं चरतिश्च (कुच्छत्ति) कुत्सा च जुगुप्सा भयं च हास्यरतिकुत्साभयानि, तेषां भेदो व्यवच्छेदो हास्यरतिकुत्साभयभेदो भवतीति / एताश्चतस्रः प्रकृतयः पूर्वोक्तषडविंशतेरपनीयन्ते, शेषा द्वाविंशतिः, सा चानिवृत्तिवादरप्रथमभागे भवतीति / / 6 // 10 // एतदेवाहअनियट्टिभागपणगे, इगेगहीणो दुवीसविहबंधा। पुमसंजलण चउउण्हं कमेण छेओ समरसुहुमे // 11 // अनिवृत्तिभागपञ्चके, अनिवृत्तिबादराद्धायाः पञ्चसु भागेष्वित्यर्थः। स पूर्वोक्तो द्वाविंशतिबन्ध एकैकहीनोवाच्यः, एकैकस्मिन् भागे एकैकस्याः प्रकृतेर्बन्धव्यवच्छेद इत्यर्थः / कथमिति? आह-(पुमसंजलण चउण्हं कमेण छेउ त्ति) क्रमेणानुपूा प्रथमे भागे पुवेदस्य छेदः, तत एकविंशतेर्बन्ध:, द्वितीये भागे संज्वलनक्रोधस्य छेदः, ततो विंशतेर्बन्धः, तृतीये भागे तु संज्वलनमानम्य छेदः, तत एकोनविंशतेर्बन्धः, चतुर्थे भागे संज्वलनछेदः, ततोऽष्टरदशानां बन्धः, पञ्चमभागे संज्वलनलोभस्य छेद: उत्तरत्रतबन्धाध्यवसाय-स्थानाऽभाव: छेदहेतु:,संज्वलनलाभस्य तु बादरसंपरायप्रत्ययो बन्धः स चोत्तरत्र नास्तीत्यतछंदः, ततः सूक्ष्मसंपराये सप्तदशप्रकृ-तीनां बन्धो भवतीत्यत आह-(सत्तरसुहुमि त्ति) स्पष्टम् // 11 // चउर्दसणुच जसना-विग्घदसगं ति सोलसुओ। तिनु सायबन्ध छेओ, संजोगिबंधं तु णं तो अ॥१२॥ (चउदंसण त्ति) चतुर्णा दर्शनानां समाहारश्चतुर्दर्शनं, चक्षुर्दशनाऽचक्षुदर्शनाऽवधिादर्शनके वलदर्शनरूपस, (उच्च त्ति) उच्चै