________________ गुणट्ठाण 618- अभिधानराजेन्द्रः - भाग 3 गुणट्ठाण यादिवत् उभयथाऽप्युचेरन् न चोच्यन्ते यदुक्तम्- "एगिदिया णं भंते ! किं नाणी, अन्नाणी ? गोयमा ! नो नाणी, नियमा अन्नणी। तथा वेंदिया णं भंते! किं नाणी, अन्नाणी? गोयमा! नीणी वि, अन्नाणी वि'' इत्यादि। तत्कथमिहापर्याप्त बादरैकेन्निद्रयेषु पृथिव्यम्बुवनस्पतिलक्षणेषु सास्वादनगुणस्था-नकभाव उक्त? सत्यमेतत् ,किं तु मा त्वरिष्ठा:, सर्वमेतदने प्रति विधास्याम इति ।(सन्निअपज्जत्ते अजयजु त्ति) संज्ञिन्यपर्याप्ते तदेव पूर्वोक्तं मिथ्यादृष्टि सास्वादनलक्षणगुणस्थानकद्वयमयतयुतं भवति। यमनं यतं, विरतिरित्यर्थः। न विद्यते यतं यस्य सोऽयतः, अविरतसम्यग्दृष्टिरित्यर्थः। तेन युतंसंयुक्तमयमतयुतम्। इदमुक्तं भवति-संज्ञिन्यपर्याप्त त्रीणि मिथ्यादृष्टिसासादनाविरतिसम्यग्दृष्टि लक्षणानि गुणस्थानानि भवन्ति, न शेषाणि सम्यग्मिथ्यादृष्ट्यादीनि, तेषां पर्याप्तवस्थायामेव भावात्।(सन्निपज्जे सव्वगुण त्ति) संज्ञिनि पर्याप्त सर्वाग्यपि मिथ्यादृष्ट्यादीन्ययोगिपर्यन्तानि गुणस्थानकानि भवन्ति; संज्ञिन: सर्वपरिणामसंभवात् / अथ कथं संज्ञिन: सयोग्य यो गिरूपगुणस्थानकद्वयसंभवः? तदद्भावे तस्यामनस्कतया संज्ञित्वायोगात् ? न / तदानीमपि हि तस्य द्रव्यमन:संबन्धोऽस्ति, समनस्काश्चाविशेषेण संज्ञिनो व्यवहियन्ते, ततो न तस्य भगवतः संज्ञिताव्याघातः / यदुक्तं सप्ततिकाचूर्णी-"मणकरणं केवलिणो वि अत्थि, तेण संन्निणो भण्णंति, मणोविन्नाणं पडुच ते सन्निणो न भवंति त्ति"(मिच्छ सेसेसु त्ति) मिथ्यात्वं शेषेषु भणितावशिष्टेषु पर्याप्ताऽपर्याप्तसूक्ष्मपर्याप्तवादरैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिपंचन्द्रियलक्षणेषु सप्तसु जावस्थानेषु मिथ्यादृष्टिगुणस्थानमेव भवति, न सासादनमपि।यत: परभवादागच्छतामेवघण्टालालान्यायेन सम्यक्त्वलेशमास्वादयतामुत्पत्तिकाल एवापर्याप्तवस्थायां जन्तूनां लभ्यते, न पर्याप्तवस्थायाम्, अत: पर्याप्तसूक्ष्म-बादरद्वित्रिचतुरसंज्ञिपपञ्चेन्द्रियाणां तदभावः / अपर्याप्तसूक्ष्मैकेन्द्रियेऽपि न सासादनसंभव:, सासादनस्य मनाक् शुभपरिणामरूपत्वात् महासुक्लिष्टपरिणामस्य च सूक्ष्मैकेन्द्रियमध्ये उत्पादाभिधानात् इति॥३॥ तदेवं निरूपितानि जीवस्थानकेषु गुणस्थानकानि / कर्म०४ कर्म०('परीसह' शब्दे गुणस्थानकेषु परीषहाः)। (7) गुणस्थानकेषु बन्धप्रकृतयः। अथयथैतेष्वेव गुणस्थानेषु भगवता बन्धमुदयमुदीरणां सत्तां चाश्रित्य कर्माणि क्षपितानि तथा विभणिषुः प्रथमंतावद्वन्धमाश्रित्य व गुणस्थाने कियत्यः कर्मप्रकृतयो व्यवच्छिन्ना इत्येतद्वन्धलक्षणकथनपूर्वकं प्रचिकटयिषुराह अभिनवकम्मग्गहणं, बंधो ओहेण तत्थ वीससयं। तित्थयराहारगदुगवलं मिच्छम्मि सतरसयं // 3|| मिथ्यात्वादिभिर्हेतुभिरभिनवस्य नूतनस्य कर्मणो ज्ञानावरणादग्रहण मुपादानं बन्ध इत्युच्यते। ओधेन सामान्येन, नैकं किञ्चिद्गुणस्थानकमाश्रित्येत्यर्थः। (तत्यत्ति) तत्र बन्धे विंशं शतं विंशत्युत्तरशतं, कर्मप्रकृतीनां भवतीति शेषः / तथाहि मतिज्ञानावरणं श्रुतज्ञानावरणम्, अवधिज्ञानावरणम् मन:पर्यायज्ञानावरणं, केवलज्ञानावरणमिति पञ्चधा ज्ञानावरणम् / निद्रा, निद्रानिद्रा, प्रचला, प्रचलाप्रचला, स्त्यानर्द्धि:, चक्षुर्दर्शनावरणम्, अचक्षुर्दर्शनावरणम्, अवधिदर्शनावरणं, केवलदर्शनावरणमिति नवविधंदर्शनावरणम्। वेदनीयं द्विधा-सात वेदनीयमसात वेदनीयं च / मोहनीयमष्टाविंशतिभेदम्। तद्यथामिथ्यात्वं, ससम्यग्मिथ्यात्वं, दर्शनत्रिकत्, अनन्तानुबन्धी क्रोधो मानो माया लोभः, अप्रत्याख्यानावरण: क्रोधो मानो माया लोभः, प्रत्याख्यानावरण: क्रोधो मानो माया लोभः, संज्वलन: क्रोधो मानो माया लोभः, इति षोडश कषायाः / स्त्रीपुन्नपुंसकमिति वेदत्रयम्। हास्यं रति: अरति: शोको भयं जुगुप्सेति हास्यषटकं मिलितं, नव नोकषाया: / आयुश्चतुर्दानरकायुस्तिर्यगायु: मनुष्यायुः देवायुरिति / अथ नामकर्म द्विचत्वारिशद्विधम् / तद्यथा-चतुर्दश पिण्डप्रकृतयः, अष्टौ प्रत्येकप्रकृतयः सदशकम्, स्थावरदशकं चेति / तत्र पिण्डप्रकृमय इमा:-गतिनाम जातिनाम शरीरनाम अङ्गोपाङ्गनाम बन्धननामसंघातनाम संहनननाम संस्थाननाम वर्णनाम गन्धनाम रसनाम स्पर्शनाम आनुपूर्वीमाम विहायोगतिनामेति / आसां भेदा: प्रदर्श्यन्ते-नरकतिर्यग्मनुष्यदेवगतिनामभेदाचतुर्दा गतिनाम / एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियजातिनामेति पञ्चधा जातिनाम / औदारिकवैक्रियाहारकतैजसकार्मणा-शरीरनामेति पञ्चधा शरीरनामेति / औदारिकाङ्गोपाङ्गं वैक्रियाङ्गोपाङ्गोपाङ्ग-माहारकासोपाङ्ग नामेति त्रिधाङ्गोपाङ्गनाम / बन्धननाम पञ्चधा-औदारिकबन्धनादिशरीरवत् / एवं संघातनमपि। संहनननाम षट्भेदम्-वज्रऋषभनाराचम्, ऋषभनाराचं, नाराचम्, अर्द्धनाराचं, कीलिका, सेवार्तं चेति। संस्थाननाम षडविधम्समचतुरसं, न्यग्रोध परिमण्डलं, सादिवामनं, कुब्ज, हुण्डं चेति / वर्णनाम पञ्चधाकृष्णं नीलं लोहितं हारिद्र शुक्लं चेति। गन्धनाम द्विधा-सुरभिगन्धनाम, दुरभिगन्धनामेति / रसनाम पञ्चधा-तिक्तं कटुकं कषायम् अम्लं मधुरं चेति। स्पर्शनामाष्टधाकर्कशं मृदु लघु गुरु शीतम् उष्णं स्निग्धं रूक्षं च / आनुपूर्वी चतुर्धानरकानुपूर्वी तिर्यगानुपूर्वी मनुष्यानुपूर्वी देवानुपूर्वी चेति। विहायोगतिर्द्विधा-प्रशस्तविहायोगतिर प्रशस्तविहायोगतिरिति। आसां चतुर्दशपिण्डप्रकृतीनामुत्तरभेदा अमी पूर्वोक्ताः पञ्चषष्टिः। प्रत्येकप्रकृतस्त्यिमाः-पराघातनाम, उपघातनाम, उच्छ्रासनाम, आतपनाम, उद्योतनाम, अगुरुलघुनाम, तीर्थकरनाम, निर्माणनामेहति / त्रसदशकमिदम्-सनाम बादरनाम, पर्यप्तनाम प्रत्येकनाम, स्थिरनाम शुभनाम, शुभगनाम, सुस्वरनाम, आदेयनाम, यश:कीर्तिनामेति / स्थावरदशकं पूनरिदम्स्थावरनाम, सूक्ष्मनाम, अपर्याप्तनाम, साधारणनाम, अस्थिरनाम, अशुभनाम, दुर्भगमनाम, दुःस्वरनाम, अनादेयनाम, अयश:कीर्तिनामेति / पिण्डप्रकृम्युत्तरभेदा: पञ्चषष्टिःप्रत्येकप्रकृतयोऽष्टौ, त्रयदशकं, स्थावरदशकं च। सर्वमीलने त्रिनवतिः। गोत्रं द्विधाउचैर्गोत्रं, नीचैर्गोत्रं च / अन्तरायं पञ्चधादानान्तरायं, लाभान्तराय, भोगान्तरायम, उपभोगान्तराम्, वीर्यान्तरायं चेति / एवं च कृत्या ज्ञानावरणे कर्मप्रकृतयः पञ्च, दर्शनावरणे नव, वेदनीये द्वे, मोहनीयेऽष्टाविंशतिः, आयुषि चतस्रः, नाम्नि त्रिनवतिः, गोत्रे द्वे, अन्तराये पञ्च, सर्वपिण्डमेऽष्टाचत्वारिंशं शतं भवति / तेन च सत्तायामधिकारः। उदयोदीरणयो: पुनरौदारिकादिबन्धनानां पश्चानामौदारिकादिसंधातनानां च पञ्चानां यथास्वमौदारिकादिषु पञ्चसु शरीरेष्वन्तभावः / वर्णरसगन्धस्पर्शानां यथासंख्यं पञ्चद्विपञ्चाष्ट भेदानां तद्भेदकृतां विंशतिमपनीय तेषामेव चतुर्णामभिन्नानां ग्रहणे षोडशकमिदम्, बन्धनसंघातनसहित-मष्टचत्वारिंशशतादपनीयते। शेषेण द्वाविंशेन शतेनाऽधिकार: / बन्धे तु सम्यमिथ्यात्वसम्यक्त्वयोः