________________ गुणट्ठाण 616 - अभिधानराजेन्द्रः - भाग 3 गुणट्ठाण वजस्वामिनः शैशवेऽपि चरणप्रतिपत्तिः सा कादाचित्कीति / उच्यते, पूर्वसूरिकृतव्याख्यानात्। तथा च पञ्चवस्तुके प्रव्रज्याप्रतिपत्तिकालनियमविचारऽधिकारे गाथा"तयहो परिहवखेत्तं, न चरणभावे वि पायमेएसिं। आहच भावकहगं, सुत्तं पुण होइ नायव्वं " / अस्या व्याख्या-तेषामष्टानां वर्षाणामधोवर्तमाना मनुष्या: परिभवक्षेत्रं भवन्ति, येन तेन वाऽपि शिशुत्वात्परिभूयन्ते, तथा चरणभावोऽपि चरणपरिणामोऽपि प्राय एतेषां वर्षाष्टकादधोवर्तमानानां न भवति। यत्पुनः सूत्रम् "छम्मासियं छसु जयं, माऊण समन्नियं वंदे" इत्येवंरूपं तत् (आहचभावकहगं) कादाचित्कभावकथकं, ततो वर्षाष्टकादध: परिभवक्षेत्रत्वाचरणपरिणामा भावाच्चा न दीक्षन्ते इति // 41|| सम्प्रति प्रमत्ताप्रमत्तसंयतगुणस्थानकयोरेकं जीवमधिकृत्य कालमानमाहसमयाऊ अंतमुहू, पमत्तअपमत्तयं भयंति मुणी। देसूणपुटवकोडिं,अन्नोन्नं चिट्ठहि भवंता / / 4 / / समयादेकस्यादारभ्य मुनयः प्रमत्ततामभप्रमत्ततां वा तावद्भजन्ति यावदृत्कर्षतोऽन्तर्मुहूर्त ततः परमवश्यं प्रमत्तत्याप्रमत्ततादिभावात् अप्रमत्तस्व व प्रमत्तताऽऽदिभानात् / इयमत्र भावनाप्रमत्तमुनयो ऽप्रमत्तमुनयो वा जधन्यत एकं समयं भवन्ति, तदनन्तरं मरणभावेमाविरतत्वभावात्, उत्कर्षतस्त्वन्तर्मुहूर्त, ततः परमवश्यं प्रमत्तभावो देशविरतत्वं वा, मरणं चा। अप्रमतस्याऽपि प्रमत्तताश्रेण्यादौ देशविरतत्वादिकं चेति / अथैतदेव कथमवसित मन्तर्मुहूत दूर्द्धवं प्रमत्तस्याप्रमत्तादिभावोऽप्रमत्तस्य वा प्रमत्तादिभावो यावता देशविरतादिवत् प्रभूतमपि कालं कस्मादेतौ न भवतः? उच्यते-इह चेतु संक्लेशस्थानेषु वर्तमानो मुनिः प्रमत्तो भवति, येषु च विशोधिस्थानेषु वर्तमानोऽप्रमत्तरूथनी संक्लेशस्थानानि, विशोधिस्थानानि च प्रत्येक मसंख्येयलोकाकाशप्रदेशप्रमाणानि भवन्ति / सुनिश्च यथावस्थितमुनिभावे वर्तमानो यावदुपशमश्रेणिं, क्षपकश्रेणिं वा नारोहति, तावदवश्यं तथास्वाभाव्वात्संक्लेश्चस्वानेष्वन्तर्मुहूर्त स्थित्वा भूय: संक्लेशस्थानेषु गच्छति, विशोधिस्थनेष्वष्यन्तर्मुहूर्त स्थित्वा भूयः संक्लेशस्थानेषु गच्छति, एवं निरन्तरं प्रमत्ताप्रमत्तयोः परावृक्षी: करोति, ततः प्रमत्ताप्रमत्तभावावुत्कर्षतोऽप्यन्तर्मुहूर्त कालं यावल्लभ्येते, न परतः / तथा चोक्तं श तकबृहचूर्णी "इत्थे संकिलिस्सइ विसुज्झइ वा विरओ अंतमुहत्त० जाव कालं न परओ, तेणं संकिलिस्संतो संकिलेसहाणेसु अंतोमुहत्तं कालं जावपमत्तसंजओ होइ, विसुज्झंतो विसोहिट्ठाणेसु अंतोमुहुत्तं कालं० जाव अप्पमत्तसंजओ होइ इति' | अथ प्रमत्ताप्रमत्तभावपरावृत्तीः कियन्तं कालं यावन्निरन्तरं करोतीत्यत आह(देसूणेत्यादि) देशोनांपूर्वकोटियावत् इमौ प्रमत्ताऽप्रमत्तभावावन्योऽन्ये परस्परं भजन्तौ तिष्ठतः, प्रमत्तभावचोऽन्तर्मुहूर्तानन्तरमप्रमत्तभावं भजन् अप्रमत्तभावो-ऽन्तर्मुहूतमिन्तरं प्रमतभावं भजन भजन निरन्तरतावदति यावद्देशोनांपूर्वकोटीमित्यर्थः। देशोनता च पूर्वकोट्या बालत्यभाविवर्षाष्टकापेक्षया द्रष्टव्या // 42 // सम्प्रति शेषगुणस्थानकानामेकं जीवमणिकृत्य कालमानमाहसमयाओ अंतमुहू, अपुष्वकरणाउ भाव उवसंतो। खीणाजेगीणतो, देसस्सेव जोगिणो कालो // 43 // अपूर्वकरणादारभ्य यावदुपशान्तः, किमुक्तं, भवति ? अपूर्वकरणा निवृत्तिबादरसूक्ष्मसंपरायोपशान्तमोहा: प्रत्येकं समयादारभ्योत्कर्षतोऽन्तर्मुहूर्त यावद्गवन्ति / तत्र समयमात्रभावना कश्चिदुपशम श्रेण्यामपूर्वकरणत्वं समयमात्रमनुभूयाऽपरः कोऽपि अनिवृत्तिबादर संपरायत्वं प्राप्य तत्समयमात्रमनुभूय, तदन्यः कोऽपि सूक्ष्मसंपरायत्वं संप्राप्य, तदपि समयमात्रमनुभूय, पर: कोऽपि पुनरुपशान्तमोहत्वमवाप्य, तदपि समयमात्रमनुभूय, द्वितीये समयेऽनुत्तरसुरेषूत्पद्यते। तत्र चोत्पन्नानां प्रथमसमय एवाविरतत्वमित्य-पूर्वकरणादीनांसमयमात्रत्वम्, अन्तर्मुहूर्तभावना तु सुगमा; अपूर्व करणादीनामन्तर्मुहूर्तानन्तरमवश्यं गुणस्थानकान्तरसंक्रमान्मरणाद्धा, क्षपक श्रेण्यां त्वपूर्वकरणादीनां प्रत्येकमजघन्योत्कृष्टमन्तमुहूर्तमवसेयम् / क्षपक श्रेण्यामारूढस्या:कृतस कलकर्मक्षयस्य मरणासंभवात्। तथा (खीणाजोगीणतो इति। क्षीणानां क्षीणकसायाणमयोगिनां भवस्थाऽयोगिकेवलिनामजन्योत्कृष्ठमन्त-मुहूर्तमवस्थानम् / तथाहि-क्षीणकषायाणां म मरणमन्तर्मुहूतीनन्तर च ज्ञानावरणादिघातिकम्मत्र-यक्षयात्सयोगिकेवलिगुण स्थानके संक्रमः / भवस्थायोगिकेवलिनां तु ह्रस्वपञ्चाक्षरोद्गिरणभात्रकालावस्थायितया, परतः सिद्धत्वप्राप्तिः, अतो द्वयामनाप्यजघन्योत्कृष्टमन्तमुहूर्तमवस्थानम्। तथा (देसस्सेव जोगिणो कालो) देशस्येव देशविरतस्येव योगिनः सयोगिकेवलिन: कालो वेदितव्यो, जघन्यतोऽन्तर्मुहूर्तम्, उत्कर्षतो देशोना पूर्वकोटी इत्यर्थः, अत्राऽन्तर्मुहूर्तमन्तकृत्केवलिनो विज्ञेयम्। देशोना च पूर्वकोटिः सर्वोत्कृष्टा सप्तमासजातस्य वर्षाष्टकादूर्द्धवं चरणप्रतिपत्त्या शीघ्रमेवोत्पादितकेवलज्ञानस्य पूर्वकोट्यायुषो वेदितव्या। तदेवमुक्तं गुणस्थानकेषु विभागे कालमानस्। पं०सं०२ द्वार। प्रव०॥ (5) सम्प्रति गुणस्थानकान्याह-- सुरनारएसु चत्तारिपंच तिरिएसुचोद्दस मणूसे। इगिविगलेसू जुगलं, सव्वाणि पणिंदिसु हवंति // 28 // सुरेषु नारकेषु च प्रत्येकं मिथ्यादृष्टिसास्वादनमिश्राविरतसम्यग्दृष्टिलक्षणानि चत्वारि गुणस्थानकानि भवन्ति / तान्येव देशविरतिसहितानि पञ्च गुणस्थानकानि तिर्यक्षु भवन्ति, चतुर्दशा ऽपिमनुष्ये, तत्र मिथ्यात्वाद्ययोगित्वपर्यन्तसर्वभावसंभवात्। तथा एकेन्द्रिषु विकलेषु विकलेन्द्रियेषु द्वित्रि चतु, तुरिन्द्रिसरूपेषु मिथ्यादृष्टिसास्वादनलक्षणं गुणस्थानकयुगलं भवति। सास्वादनत्वं लब्धिपर्याप्तानां करणापर्याप्तानां करणापर्याप्तावस्थायाभवसेयं, तथा पञ्चेन्द्रियेषु पंचेन्द्रियद्वारे सर्वाणि चतुर्दशापि गुणस्थानकानि भवन्ति, मनुष्येषु सर्वभावसंभवात्।।२८|| सव्वेसु वि मिच्छो वा उतेउसुहुमतिगं पमोत्तूणं। सासायणो उसम्मो, सन्निदुमे सेससन्निम्मि||२|| सर्वेश्वपि वसेषु स्थावरेषु च मिथ्यादृष्टि लक्षणं गुणस्थानकमविशेषेणावसे यम्, तथाऽनिवायुसूक्ष्मत्रिकं च सूक्ष्मलब्धपर्याप्तक साधारणरूपं विमुच्य शेषेषु लब्धिपर्यप्तेषु करणैश्चाऽपर्याप्तेषु संज्ञिनि पर्याप्त च सास्वादन:, सास्वादनसम्यग्दृष्टि गुणस्थानं भवति, तुशब्दो लब्धिपर्याप्तेष्वित्यादिविशेषणसूचकः। तथा (सम्मा त्ति) अविरतसम्यग्दृष्टिगुणस्थानं संहाज्ञिद्विके पर्याप्तापर्याप्तलक्षणे,