________________ गुणट्ठाण 915 - अभिधानराजेन्द्रः - भाग 3 गुणट्ठाण यो न सिद्धयति, सोऽवश्यं मिथ्यात्वं गच्छति।तत इत्थं सागरोपमषट्षष्टिद्वयरूपं सामर्थ्यतो मिश्रान्तर्मुहूर्तनरभवाधिक-मुत्कृष्ट मिथ्यात्वस्यान्तरालं भवतीति। (इयरगण ति) इतरगुणस्थान कविषये। कोऽर्थः? मिथ्यादृष्टिगुणस्थानकापेक्षयाऽन्यगुणस्थानकेषु सास्वादना दिषूपशान्तमोहान्तेषु गुरु अन्तरमुत्कृष्टोऽन्तरालकालो भवति / कियदित्या (पुग्गलद्धन्त त्ति) सूचकत्वात्सूत्रस्य पुद्गलस्य पुद्गलपरावर्त्तस्यार्द्ध पुद्गलपरावर्द्धि, तस्यान्तर्मध्यं पुद्गलपरावर्द्धािन्तः किञ्चिदून पुद्गलपरावर्त्तर्द्धमित्यर्थः। इदमत्र तात्पर्यम् सास्वादनादय उपशमश्रेणिगतापूर्वकरणाद्युपशान्तमोहान्ताश्च जीवा निजनिजगुणस्थानकावस्थितेर्यदा परिभ्रष्टास्तदोत्कृष्टतः किञ्चिदूनं पुद्गलपरावर्द्धि यावदपारसंसारपारावारमध्यमवगाह्य पुनः तानि गुणस्थानकानिलथन्ते, नार्वाक, तत ऊर्द्धवं च सम्यक्त्वादिगुणान् संप्राप्याऽवश्यं जीवा: सिध्यन्तीति। ततो देशोनार्द्धपुद्गलपरावर्त्तमानमेपामुत्कृष्टमन्तरं भवति क्षपकक्षीण मोहादीनां चान्तरमेव नास्ति, प्रतिपाताभावादिति।कर्म०५ कर्मा पं०सं०। (गुणस्थानकेष्वेव वर्तमानानां जन्तूनामल्पबहुत्वम्'अप्पाबहुय' शब्दे प्रथमभागे 636 पृष्ठे उक्तम्) (गुणस्थानकेषु उदीरणा 'उदीरणा' शब्दे द्वितीयभागे 665 पृष्ठे उक्ता) (4) कायस्थितिः / सम्प्रत्येकस्मिन् जीवे गुणस्थानेषु विभागेन कालमानमाहोइ आणाइ अणंतो, अणाइ संतो य साइसंतोय। देसूणपोग्गलद्धं, अंतमुहुत्तं, चरिममिच्छो॥३४॥ इह मिथ्यादृष्टि: कालतश्चिन्त्यमानस्विधा प्राप्यते / तद्यथाअनाद्यनन्तः, अनादिसान्तः, सादिसान्तश्च / तत्राभव्यो भव्यो वा कश्चित्तथाविधोऽप्राप्तव्यपरमपदोऽनाद्यनन्तः, तस्याऽनादिकालादारभ्याऽऽगामिनं सकलमपि कालं यावन्मिथ्यात्वापगमसंभवा भावात्, यस्तु भव्योऽनादिमिथ्यादृष्टिरवश्यमायत्यां सम्यक्त्वम वाप्स्यति स मिथ्यादृष्टिः कालमाश्रित्यानादिसान्तः, यस्तु तथा भव्यत्वशाददवाप्य सम्यक्त्वं, ततः केनापि कारणेन पुनः सम्यक्त्वात्परिभ्रष्टो मिथ्यात्वमनुभवति.स भूय: कालान्तरे नियमतः सम्यक्त्वमवाप्स्यति, ततः स मिथ्यादृष्टिः सादिसान्तः। तथाहिसम्यक्त्वलाभानान्तरं मिथ्यात्वमासादितमिति सादिः, पुनरपि कालान्तरे नियमतो मिथ्यात्वमपगमिष्यतीति सान्तः / एष एव सादिसान्तो मिथ्यादृष्टिर्जघन्यतोऽन्तर्मुहूर्त कालं यावद्भवति, सम्यक्त्वप्रतिपाताऽनन्तरमन्तर्मुहूर्तेनकालेन भूयोऽपि सम्यक्त्व प्राप्त:, उत्कर्षतो देशोनं किञ्चिन् न्यूनं पुद्गलपरावतीर्द्ध प्रतिपतित सम्यग्दृष्टः, देशोननपुद्गलपरावर्द्धिपर्यन्ते नियमतः सम्यक्त्वलाभ संभवात् अत एव साद्यनन्तरूपो मिथ्यादृष्टिर्न भवति, सादितायां सत्यामुत्कर्षतः किञ्चिदूनपुद्रलपरावर्द्धिपर्यन्ते नियमतो मिथ्यात्वापगमसंभवात् / / पं०सं०२ द्वार। तदेवमुक्तमेव जीवस्य मिथ्यादृष्टिगुणस्थानकालमानम् / सम्प्रति सास्वादन मिश्रगुणस्थानकयोरौपशमिकसम्यक्त्वस्य, क्षयिकसम्यक्त्वस्य च कालमानमाहआवलियाणं छक्कं, समयादाब्भ सासणो होइ। मीसुवसम अंतमुहू, खाइयदिड्डी अणंतद्धा / / 4 / / एकस्मात्समयादारभ्व यावदाबलिकानां षट्कं, तावत्सास्वादनो भवति / इयमत्र भावना-एकः सास्वादनो जीव: पूर्व गुणस्थानक विचाररनिर्दिष्टन्यायेन प्रप्तसास्वादनभावः कश्चित्समयेक-मवतिष्ठते अन्यस्तु द्वौ समयौ, अपरस्तु त्रीन् समयान् / एवं यावत्कोऽपि षडावलिका:,तत ऊर्द्धवमवश्यं मिथ्यात्वमुपगच्छति,तत एवमेक-स्य जीवस्य सास्वादनगुणस्थानककालो जघन्यतः समयः प्राप्यते, उत्कर्षतः षडावलिकाः, तथा मिश्रोपशमो मिश्रगुणस्थान-कौपशमिकसम्यक्त्व जघन्यत उत्कर्षतश्चान्तर्मुहूर्तप्रमाणम् / तथाहिसम्यग्मिथ्यादृष्टिगुणस्थानकं जघन्यत उत्कर्षतश्चान्त मुहूर्तप्रताणं सुप्रसिद्धम्, "सम्मामिच्छदिहि, अंतो मुंहूत्तं इत्यादि" वचनप्रमाण्यात्, केवलं जघन्यपदे तदन्तर्मुहूर्त लघु द्रष्टव्यम्, उत्कृष्टपदे तु तदेव बृहत्तरमिति, औपशमिकसम्यक्त्वमपि प्राथमिक मुपशमश्रेणिसंभवं वा जघन्यत उत्कर्षतश्चान्तमुहूर्तप्रमाणं, तत्र प्राथमिकमन्तर्मुहूर्तप्रमाणं प्रतीतम् / तथाहि-यदि तदानीं देशविरत्यादिकमपि स्पृशति, तथापि तस्या ऽन्तर्मुहूर्तमेव कालं यावदवस्थानं, ततः परं क्षायोपशमिकसम्यक्त्वभावात्, देशविरत्यादिप्रतिपत्त्यभावे तु कोऽपि सास्वादनभावं गच्छति, कोऽपि क्षायोपशामिकं सम्यक्त्वम् उपसमश्रेणिसंभवमप्यौपशमिकं सम्यक्त्वमान्तर्मोहूर्तिकमुपशमश्रेणेरन्तर्मुहमतप्रमाणत्वात् / तथा क्षायिक दृष्टिः क्षायिकसम्यग्दृष्टिरनन्ताद्धा अनन्तकालं यावद्भवति, क्षायिकं हि सम्यक्त्वं प्रादुर्भूतं न कदाचिदप्यपैति, जीवस्य तथा-स्वभावत्वात्। ततस्तत्सम्यक्त्ववान्सकलमपि पर्यवसितं कालं यावद्भवति॥४०॥ वेयग अविरयसम्मो, तेत्तीसयराइ साइरेगाई। अंतमुहुत्ताओं पुटवकोडिदेसो उदेसूणी // 41 // वेदकाऽविरतसम्यग्दृष्टिः क्षायोपशमिकाऽविरतसम्यग्दृष्टिः जघन्यतो ऽन्तर्मुहूर्त यावद्भवति, ततोऽन्तर्मुहूर्तीदारभ्य तावल्लभ्यन्ते यावदुत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि सातिरेकाणि भवन्ति, कथं सातिरेकाणि त्रयस्त्रिंशत्सागरोपमाणि यावद्वेदकाऽविरतसम्यग्दृष्टि लभ्यते? इति चेत्। उच्यते-इह कश्चिदितः स्थानादुत्कृष्टस्थिति-ष्वनुत्तरविमानेषूत्पन्न:, तत्र चाऽविरतसम्यग्दृष्टित्वेन त्रयस्त्रिंशत्सा-गरोपमाणि स्थितिः, ततस्तस्मात्स्थानात्च्युत्वा अत्राप्यायातो यावदद्यापि सर्वविरत्यादिकं न प्रतिपद्यते, तावदविरत एवेत्येकस्य वेदकाविरतसम्यग्द्रष्टर्मनुष्यभवसंबद्ध इति कतिपयवर्षाणिकानि त्रयस्त्रिंशत्सागरोपमाणि प्राप्यन्ते। तथा(पुव्वकोडीदेसो उदेसूणा) देशसंयतः पुनः, तुक्यिभेदे। उक्तंच "तुः स्वाद्भेदेऽवधारणे / " जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटि, तत्रान्तर्मुहूर्त्तभावना इयम् कोऽप्यविरतादिरन्तर्मुहूर्तमेकं देशविरतिं प्रतिपद्य पुनरप्य विरतादित्यमेव प्रतिपद्यते / देशोनपूर्वकोटिभावना त्वेषा-इह किलकोऽपि पूर्वकोट्यायुष्को गर्भस्थो नवमासान्सातिरेकान् गमयति, जातोऽप्यष्टौ वर्षाणि यावद्देशविरतिं सर्वविरतिं वान प्रतिपद्यते, वर्षाष्टकादधो वर्त्तमानस्य सर्वस्यापि तथास्याभाव्यात् देशतः सर्वतो वा विरतिप्रतिपत्तेरभावात् / भगवद्वजस्वामिना व्यभिचार इति चेत् / तथाहि--भगवान्वज्रस्वामी षाण्डासिकोऽपि भावतः प्रतिपन्नसर्वसावद्यविरतिः श्रूयते / तथा च सूत्रम् "छम्मासियं छसु जयं, माऊण समन्नियं वंदे'' इति सत्यमेतत्। किं त्वियं शैशवेऽपि भगवद्वजस्वामिनो भावतश्चरण-प्रतिपत्तिराश्चर्यभूता कादाचित्कीतिन तथा व्यभिचारः / अथ कथमवसीयते? येयं