________________ गुण 908 - अभिधानराजेन्द्रः - भाग 3 गुण भावगुणः, स चौदयिकपारिणमिक–योरेव संभवति, नान्येषां तत्रादयिकस्तावत् उदये भव औदयिक:, सचाजीवाश्रयोऽनया विवक्षया यदुत काश्चित् प्रकृतयः पुगलविपाकिन्य एव भवन्ति। का: पुनस्ता:?| उच्यन्ते-औदारिकादीनि शरीराणि पञ्चषट् संस्थानानि त्रीण्यङ्गोपाङ्गानि षट्संहननानि वर्णपञ्चक गन्धद्वयं पञ्च रसा अष्टौ स्पर्श अगुरुलघु नाम उपघातो नाम पराघातो नाम उद्योतो नाम आतपो नाम निर्माण नाम प्रत्येकं नाम साधारणं नाम, स्थिरं नाम अस्थिरं नाम शुभं नाम अशुभं नाम। एता: सर्वा अपिपुद्गलविपाकिन्यः, सत्यपि जीवसंबन्धित्वे पुद्गलविपाकित्वा-दासामिति पारिणामिकः, जीवगुणस्तु द्वेधाऽनादि पारिणामिकः, सादिपारिणामिकश्चेति / तत्रा नादिपाररिणामिको धर्माधर्माकाशानां गतिस्थित्यवगाहलक्षणः, सादिपारिणामिकस्त्वभेन्द्रघनुरादीनां परमाणूनां च वर्णादिगुणान्तरोत्पत्तिरिति गाथातात्पर्यार्थः। उक्ता गुणाः। आचा०१ श्रु०२ अ०१ उ०। (3) आवर्तरूपा गुणा:जे गुणे से आवट्टे जे आवट्टे से गुणे उड़े अहं तिरियं पाईणं पासमाणे रूवाइंपासति सुणमाणे सद्दाइंसुणेति उड्ढं अहं पाईणं मुच्छमाणे रूवेसु मच्छति सद्देसु आदि / यो गुणः स आवर्तः, आवर्तन्ते परिभ्रमन्ति प्राणिनो यत्र स आवर्तः संसार: / एकवचनोपन्यासात् पुरुषोऽत्र संवध्यते, य: शब्दादिगुणे वर्तते स आवर्ते, वर्तते यश्चावर्ते वर्तते स गुणे वर्तते इति / अथ य एते गुणा: संसारावर्तकारणभूताः शब्दादय: ते किं नियतदेशभाजः उत सर्वदिक्षु इत्यत आह--(उर्दू अधमित्यादि) प्रज्ञापकदिगङ्गीकरणादूर्द्धर्गिव्यवस्थितं रूपगुणं पश्यति, प्रज्ञादतलहादिषु अधमित्यधस्तात् गिरिशिखरप्रासादादिरू-ढोऽधोव्यवस्थितं रूपगुणं पश्यति अध:शब्दार्थे (अवामिल्ययं?) वर्तते। गृहाभित्त्यादिव्यवस्थित रूपगुणं तिर्यक् पश्यति, तिर्यक्शब्देन चात्र दिशोऽनुदिशश्च परिगृह्यन्ते। ताश्चेमा:-प्राचीनमिति पूर्वादिक्, एतचोपलक्षणम्-अन्या अप्येतदाद्यास्तिर्यग्दिशो द्रष्टव्या इति / एतासु दिक्षु पश्यन्चक्षुनिपरिणतो रूपादिद्रव्याणि चक्षुाह्यतया परिणतानि पश्यत्युपलभत इत्यर्थः। तथा तासु च शृण्वन् शृणोति शब्दानुपयुक्तः श्रोत्रेण, नान्याथेति / अत्रेोपलब्धिमात्रं प्रतिपादितं, न चोपलब्धि मात्रात्संसारप्रपातः, किंतु यदि मूच्छा रूपादिषु करोति ततोऽस्य बन्धः / इति दर्शयितुमाह-(उड्डमित्यादि) पुनरूद्धदिर्मुर्छासम्बन्धनार्थमुपादानम्, मुच्छीरूपेषु मूर्च्छति; रागपरिणाम यान् ज्यते रूपादिष्वित्यर्थः। एवं शब्देष्वपि मूर्च्छति, अपिशब्दः सम्भावनायां, समुच्येवा, रूपशब्दविषयग्रहणाच शेषा अपिगन्धस्पर्शा गृहीता भवन्ति। एकग्रहणात्तज्जातीयानां ग्रहणात्, आद्यन्त ग्रहणाद्वा तन्मध्यग्रहणमवसेयमिति। आख०१ श्रु०१ अ०५उ०। (4) मूलस्थानरूपा गुणा:जे गुणे से मूलट्ठाणे जे मूलट्ठाणे से गुणे इति से गुणट्ठी महया परितावेणं वसे पमत्ते। 'जे गुणे से मूलट्ठाणे'। आदिसूत्रसम्बन्धस्तु-"सुयं ते आउसंतेणं भगवयाएवमक्खायं"किं तत् श्रुतं भवता,यद्भगवता आयुष्मताऽख्यात मित्युच्यते ?(जे गुणे से मूलट्ठाणे) य इति सर्वनाम प्रथमान्तं मागधदेशीवचनत्वादेकारान्तंसामान्योद्देशार्थाभिधायीति। गुण्यते भिद्यते विशिष्यतेऽनेन द्रव्यमिति गुणः। स चेह शब्दरूपरसगन्धस्पर्शादिकः, स इति सर्वनामप्रथमान्तमुद्दिष्ट निर्देशार्थाभिधायीति। मूलह मिति निष्पन्न कारणं प्रत्यय इति पर्याया:, तिष्ठन्त्यस्मिन्निति स्थानं, मूलस्य स्थान मूलस्थानम्, "व्यवच्छेदफलत्वाद्वाक्यानामिति' न्यायात् / य एव शब्दादिकः कामगुणः स एव संसारस्य नारकतिर्यग्नराऽमरसंस्थितिलक्षणस्य यन्मूलं कारणं कषायास्तेषां स्थानमाश्रयो वर्तते, यस्मान्मनोज्ञेतर शब्दाद्युपलब्धौ कषायोदयस्ततोऽपि संसार इति / अथवा मूलमिति कारणं, तयाष्टप्रकारं कर्म, तस्य स्थानमाश्रयः कामगुण इति / अथवा-मूलं मोहनीयं तद्भेदो वा कामस्तस्य स्थान शब्दादिका विषयगुणः / अथ वा-मूलं शब्दादिको विषयगुणस्तस्य स्थान-मिष्टानिष्टविषयगुण इति / अथ वा-मूलं मोहनीयं तद्भेदो वा कामस्तस्य स्थानं शब्दादिव्यवस्थितो गुणरूप: संसार एव आत्मा वा शब्दाधुपयोगानन्यत्वाद् गुणः / अथ वा मूलं संसारस्तस्य शब्दादयः स्थानं, कषाया वा, गुणोऽपि शब्दादिकः,कषाय परिणतो वाऽऽत्प्रेति। यदि वा-मूलं संसारस्य शब्दादिकषायपरिणतः सन्नात्मा,तस्य स्थान शब्दादिकं,गुणोऽप्यसावेवेति। ततश्च सर्वथा य एव गुणः स एव मूलस्थानं वर्तते / ननु च वर्तनक्रियायाः, सूत्रेऽप्यनुपादानात् कथं प्रक्षेप इति? उच्यते यत्र हिकाचिद्विशेषक्रिया नैवोपादायि,तत्र सामान्यक्रिया अस्ति, भवति, विद्यते, वर्तत इत्यादिकामुपादाय वाक्यं परिसमाप्ते। एवमन्यत्रापि द्रष्टव्यमिति / अथ वा-मूलमित्याद्यं प्रधानं वा स्थानमिति कारणं, मूलं चतत्कारणं चेति विगृह्य कर्मधारयः। ततश्च य एव शब्दादिके गुण: स एव मूलस्थानं संपाद्यं प्रधानं वा कारणमिति; शेषं पूर्ववदिति। साम्प्रतमनयोरेव गुणमूलस्थानयोर्नियम्यनियामकभावं दर्शयंस्तदुपात्तानांविषयकषायादीना बीजाङ्करन्यायेन परस्परत: कार्यकरणभावं सूत्रैणैव, ततश्च दर्शयति (जे मूलट्ठाणे से गुणे त्ति) यदेव संसारमूलानांवा कषायाणां स्थानमाश्रयः शब्दादिका गुणोऽप्यसावेव / अथवा-कषायमूलानां शब्दादीनां यत् स्थानं कर्म संसारो वा तत् तत् स्वभावापत्तेर्गुणोऽप्यसावेवेति / अथवा शब्दादिकषायपरिणाममूलस्य संसारस्य कर्मणो वा यत् स्थानं मोहनीयं कर्म शब्दादिकषायपरिणतो वाऽऽत्मेति तद्गुणावाप्तेर्गुणोऽप्यसावेव / यदि वा संसारकषायमूलस्याऽऽत्मनो यत्स्थानं विषयाभिष्वङ्गोऽसावपि शब्दादिविषयत्वाद् गुणरूपं वेति। अत्र च विषयोपादानेन विषयिणोऽप्याक्षेपात् सूचनार्थत्वाच सूत्रस्येत्येवमपि द्रष्टव्यम् / यो गुणेषु वा वर्तते स मूलस्थाने, मूलस्थानेषु वा वर्तते; यो मूलस्थानादौ वर्तते स एव गुणादौ वर्तत इति / य एव जन्तुः शब्दादिके प्राग्व्यावर्णितस्वरूपे वर्तते स एव संसारमूलकषायादिस्थानादौवर्तते। एतदेव द्वितीयसूत्रापेक्षया व्यत्ययेन प्राग्वदायोज्यम्, अनन्तगमपर्यायत्वात् सूत्रस्येवमपि द्रष्टव्यम्। यो गुणस्स एव मूलं, स एव च स्थानं, यन्मूलं तदेव गुण:, स्थानमपि तदेव, यत् स्थानं तदेव गुणो, मूलमपि तदेवेति, यो गुण: शब्दादिकोऽसावेव संसारस्य कषायकारणत्वान्मूलं, स्थानमप्यसावेत्येवम्, एवमन्येष्वपि विकल्पेषुयोज्यम्। विषयनिर्देशे च विषय्यप्याक्षिप्तः, यो गुणे वर्तते स मूले स्थाने चेत्येवं सर्वत्र द्रष्टव्यम् / इह च सर्वज्ञप्रणीतत्वादनन्तार्थता सूत्रस्यावगन्तव्या। तथाहि मूलमत्र कषायादिकमुप