________________ गुण 606- अभिधानराजेन्द्रः - भाग 3 गुण न्यस्तं, कषायाश्च क्रेाधादयश्चत्वारः, क्रोधोऽप्यनन्तानुबन्धादिभेदन चतुर्द्धा अनन्तानुबन्धिनोऽप्यसंख्येयलोकाकाशप्रदेशमाणानि बन्धाध्यवसायस्थानि, अनन्ताश्च तत्पर्याथाः, तेषां च प्रत्येक स्थानगुणनिरूपणमनन्तार्थता सूत्रस्य संपद्यते / सा च छद्मस्थेन सर्वायुषाऽप्यविषयत्वाचाऽशक्या दर्शयितुम् दिग्दर्शनं तु कृतमेवासऽतोऽनया दिशा कुशाग्रीयशेमुष्या गुणमूलस्थानानां परस्परतः कार्यकारणभाव:, संयोजना चकार्येति। तदेवंयएव गुण: सएवमूलस्थानं, यदेव मूलस्थानं स एव गुण इत्युक्तम्। ततः किमिति? अत आह(इति से गुणही महया इत्यादि) इतिहेतोर्थस्माच्छब्दादिगुणपरीतआत्मा कषायमूलस्थाने संवर्तते, सर्वोऽपि च प्राणी गुणार्थी गुणप्रयोजनी गुणानुरागील्यस्तेषां गुणानामप्राप्तौ प्राप्तिनाशे वाऽऽकासाशोकाभ्यां स प्राणी महताऽपरिमितेन परि समन्ततो य: परितापस्तेन शारीरमानस स्वभावेन दुःखेनाभिभूतः सन् पौन:पुन्येन तेषु तेषु स्थानेषु वसेत्तिष्ठेदत्पद्येता किंमतः सन-प्रमत्तः,प्रमादश्च रागद्वेषात्मको, द्वेषश्च प्रायां न रागभृते, रागोऽप्युत्पत्तेरारभ्यानादिभवाभ्यासात् / आचा०१ श्रु०२ अ०१ उ०। सूत्र०ा वैशेषिकसम्मतगुणा: गुणाश्चतुर्विंशतिः। तद्यथा "रूपरसगन्धस्पर्श संख्यापरिमाणानि पृथक्त्वं संयोगविभागौ परत्वाऽपरत्वे बुद्धिः सुखदुःखे इच्छाद्वेषौ प्रयत्नश्च'' इति सूत्रोक्ता: सप्तदश। चशब्दसमुचिताश्च सप्त द्रवत्वं गुरुत्वं संस्कार: स्नेहो धर्माधर्मी शब्दश्चेत्येवं चतुर्विंशतिर्गुणा: / संस्कारस्य वेगभावनास्थितिस्थापकभेदात्वैविध्येऽपि संस्कारत्वजात्यपेक्षया एकत्वाच्छौ-दार्यादीनां चात्रैवान्तर्भावान्ना धिक्यम् / स्या०। आ०म०। आव०। आ०चू०। द्रव्यगणानां परस्परमभेद:। सम्म 3 काण्ड / नित्यस्य चाकारणत्वान्न चतुःसङ्ख्यं परमाण्वात्मकं नित्यद्रव्यं सम्भवति(इत्यन्यत्र प्रत्यपादि) सम्म०३ काण्ड / (5) न सन्ति गुणा इति द्रव्यार्थिक:-गुण: खल्वौपचारिकत्वादसन्त एव द्रव्यव्यतिरेकेण तेषामनुपलम्भात्। ततश्च न्यग्भूतगुणग्रामो जीव एव मुख्यवृत्त्या सामयिकं न तु पर्यया इति द्रव्यार्थिकनयो मन्यते / आह-ननु रूपादयो गुणा यदि न सन्ति, तर्हि कथं लोकस्य द्रव्ये तत्प्रतिपत्तिः? उच्यते-भान्तवेयम् चित्रे निम्नोन्नतप्रतिपत्तिवदित्यस्य नयस्याऽभिाप्रायः / स एव सामायिकादिगुण: पर्यायार्थिकनयस्य परमार्थतोऽस्ति, न तु जीवद्रव्यं, यस्माजीवस्यैष गुणो जीवगुण इति, तत्पुरुषोऽयं, स चोत्तरपदप्रधानः / यथा तैलस्य धारा तैलधारेति, न चात्र धाराऽहतिरिक्तं किमपि तैलमस्ति / एवं ज्ञानादिगुणातिरिक्तं जीवद्रव्यमपि नास्तीति पर्ययार्थिकनयाऽभिप्राय: / इति नियुक्तिकाराशयः / अत्र भाष्यम्इच्छइ जं दध्वनओ, दव्वं तच मुवयारओ य गुणे। सामइयगुणविसिट्ठो, तो जीवो तस्स सामइयं // 2644 // पञ्जाओ चिय वत्थु, तत्थं दव्वं च तदुवराओ। पज्जवनयस्स जम्हा, सामइयं तेण पञ्जओ / / 2645 / / यद्यस्मा व्यार्थिकनयस्तथ्यं सत्यं द्रव्यमेवेच्छति, गुणांस्तूपचारत एव मन्यते, न तु सत्यान्, ततस्तस्मात्सामायिकगुणविशिष्ट उपसजनीभूतसामायिकादिगुणो मुख्यतया जीव एव, तस्य द्रव्यार्थिकनस्य सामायिकमिति / यस्मात्पर्यायार्थिकनयस्य मतेन पर्याय एव तथ्यं निरुपचरितं वस्तु,द्रव्यं पुनस्तेष्वेव पूर्वापरीभूतपर्यायेषूप-चारतो व्यवहियते, न तु परमार्थतस्तदस्ति, तेषु पर्यायेषु उपचारस्तदुपचारस्तस्मादिति समास: / तेन तस्मात्कारणात्पर्याय एवाऽस्य मुख्यतया सामायिकम्, न तु जीवद्रव्यमिति।। इदमेव पर्यायाधिकनयमतंयुक्तितः समर्थयन्नाहपज्जायनयमयमिणं, पजायत्थंतरं कओ दव्वं / उवलंभव्ववहारा भावाओ खरविसाणंद॥२६४६।। जह रूवाइविसिट्ठो, न घडो सव्वप्पमाणविरहाओ। तह नाणाइविसिट्ठो, को जीवो नामऽणक्खेओ ?||2647 / / पर्यायनयस्येदं मतम्-पर्यायेष्वेव पूर्वापरीभावतः सदैव साततत्येन प्रवृत्तेषु भ्रान्त्या द्रव्योपचार: क्रियते, न पुनः पर्यायभ्योर्थान्तरं भिन्नं द्रव्यमस्ति / प्रयोग: नास्ति परकल्पितं द्रव्यं, पर्याभ्योऽर्थान्तत्वात्, खरविषाणवदिति / अथ वा नास्ति परपरिकल्पितं द्रव्यं, पर्यायेभ्यो भेदेनानुपलभ्यमानत्वात्, व्यवहारेऽनुपयुज्यमानत्वात्वा खरविषाणवदिति / यथा वा रूपरसगन्धस्पर्शभ्यो विशिष्टो भिन्नो घटो नास्ति, सर्वप्रमाणाविरहात्, सर्वप्रमाणैः ग्रहणाभावादित्यर्थः,खरविषाणवदिति। तथा तेनैव प्रकारेणाऽनाख्येय: पर्यायविरहेण सर्वेपाख्यारहितो ज्ञानादिभ्यो विशिष्टो व्यतिरिक्तः को नाम जीव:?, पूर्वोक्तभ्यः एव हेतुभ्यस्तद्यदतिरिक्तो नास्ति कश्चनाप्यसाविति भावः / / 2646 // 2647 // अथेदमेव पर्यायार्थिकमतं नियुक्तिकारोऽपि किञ्चित्समर्थयन्नाहउप्पजंति वियंति य, परीणामंति य गुणा न दवाई। दव्वप्पभवा य गुणा, न गुणप्पभवाई दव्वाइं // 2648 / / उत्पद्यन्ते व्ययन्ते च, तथा अनेनोत्पादव्ययरूपेण परिणमन्ति गुणा:। चशब्द एवकारार्थः। तस्य चैवं प्रयोग: गुणा एवोत्पादव्ययरूपेण परिणमन्ति, न तु द्रव्याणि, अतस्त एव सन्ति, उत्पादव्ययपरिणाम वत्त्वात्, पत्रनीलरक्तादिवत्, तद्यतिरिक्तस्तुगुणीनास्त्येव, उत्पादव्ययपरिणामरहितत्वाद्वन्ध्यासुतादिवदिति / किञ्च (दव्यप्पभवाय गुणा न त्ति) द्रव्यात्प्रभवो येषां ते द्रव्यप्रभवा गुणा न भवन्ति, चशब्दोऽप्यर्थे / तस्य चैवं संबन्ध नापि गुणेभ्यः प्रभवो येषां तानि गुणप्रभवानिद्रव्याणि भवन्ति, नकारस्योभयत्राऽपि संबन्धात् / ततश्च न कारणत्वं नापि कार्यत्वं द्रव्याणामतस्तेषाम-भाव: सतः कार्यकारणरूपत्वादिति। अथ वा अन्यथा व्यख्यायतेद्रव्यप्रभवाश्च गुणा न भवन्ति, गुणप्रभवानि तु द्रव्याणि भवन्ति, पूर्वापरीभावेन प्रतीत्य समुत्पादसमुत्पन्नगुणसमुदाये द्रव्योपचारप्रवृत्तेः / तस्माद् गुण एव सामायिकमिति नियुक्तिगाथार्थः / / २६४८॥विशे। (6) गुणलक्षणम्गुणः सहभावी धर्मो, यथाऽऽत्मनि विज्ञानव्यक्तिशक्त्यादिरिति॥७॥ सहभावित्वमत्र लक्षणं, यथेत्यादिकमुदाहरणं, विज्ञानव्यक्तिर्य-त्किञ्चिद् ज्ञानं तदानीं विद्यमान, विज्ञानशक्तिरुत्तरज्ञानपरिणाम योग्याता / आदिशब्दात् सुखपरिस्पन्दयौवनादयो गृह्यन्ते॥७॥ रत्ना०५ परि०। (7) गुणपर्याययोर्भदेविचार:-येसहभाविनःसुखज्ञानवीर्यपरिस्पन्दयौवनादयस्तेगुणा:, येतुक्रमवृत्तय: सुखदुःखहर्षविषादादयस्तेपर्याया: / नन्वेवं तएव गुणास्तएवपर्याया इतिकथांतेषां भेद इतिचेत?, मैवम, कालाभेदवि