SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ गुण 907 - अभिधानराजेन्द्रः - भाग 3 गुण आह हि"दव्वं पज्जवविवउयं, दव्वविउत्ता य पज्जवा णऽत्थि। उप्पायट्टिइभंगा, हंदि दवियलक्खणं एवं"। "नयास्तव स्थात्पदलाञ्छना इमे, रसोपविष्टा इव लोहधातवः / भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः'। इत्यादि स्वयूथ्यैरबहु विजृम्भितमित्यलं विस्तरेण / एतदेव नियुक्तिकारः समस्तद्रव्यप्रधाने जीवद्रव्ये गुणमभेदेन व्यवस्थिमताह(संकुचियगाहा) जीवो हि सयोगिवीर्यसव्व्यतया प्रदेश संहारविसर्गाभ्यां आधारवशात्प्रदीपवत् संकुचति, विकसतिच, एष जीवस्यात्मभूतो गुणो, भेदं विनाऽपि तस्योलब्धेः / तद्यथा-राहोः शिरः। शिला पुत्रस्य शरीरमिति। तद्भव एव वा सप्तसमुद्धतवशात् संकुचति , विकसति च। सम्यग् समन्तत उत्प्राबल्येन हननमितश्चेतश्चात्मप्रदेशानां प्रक्षेपणं समुद्धातः / स च कषाय-वेदना-मारणान्तिक- वैक्रिय-तैजसाऽऽहारक केवलिसमुद्धात-भेदात्सप्तधा। तत्र कषाययसमुद्धातोऽनन्तानुबन्धी क्रेाधाद्युपहतचेतस आत्मप्रदेशानामिश्चतेश्च प्रक्षेपः, इत्येवं तीव्रतरवेदनोपहतस्याऽपि वेदना समुद्धातः / मारणान्तिकसमुद्धातो हि मुमूर्षारसुमत आदित्सितोत्पत्तिप्रदेश आलोकान्तादाऽ ऽत्मप्रदेशानां भूयो भूयः प्रक्षेपसंहाराविति / वैक्रियसमुद्धातो वैक्रियसमुद्धातो वैक्रियलब्धिमतो वैक्रियोत्पादनाय बहिरात्मप्रदेशप्रक्षेपः, तेज स समुद्धततस्तैजसशरीरनिमित्तं तेजोलेश्यालब्धिमतां तेजोलेश्याप्रक्षेपावसरे इति। आहारकसमु-द्धातश्चतुर्दशपूर्वविद: आहारकलब्धिमत: वचित्सन्देहाऽपगमनाय तीर्थंकरान्तिकगमनार्थमाहारकशरीरसमुपादातुंबहिरात्मप्रदेश प्रक्षेप: केवलि समुद्धातं तु समस्तलोकव्यापितयाऽन्तनीतान्य-समुद्धातं नियुक्तिकार: स्वत एवाचष्टे-पूरयति व्याप्नोति, 'हन्दी' त्युपप्रदर्शने, किं, लोकं चतुर्दशरज्यात्मकमाकाशखण्डं, कुतो बहुप्रदेशगुणत्वात् / तथा हि-उत्पन्नदिव्यज्ञान आयुषोऽल्पत्वमवधार्य वेदनीयस्य च प्राचुर्याद्दण्डादिक्रमेण लोकप्रमाणत्वादात्मप्रदेशानां लोकमापूरयति / तदुक्तम्-'दण्डकवाडे मंथतरे य' इति गाथाथः। गतो द्रव्यगुणः / क्षेत्रादिकमाह-(देवकुरुगाहा) क्षेत्रगुण: देवकुर्यादि, कालगुणे सुषमसुषमदि, फलगुणे सिद्धिः, पर्यवगुणे निर्भजना, गणनागुणे द्विकादि, करणगुणे कलाकौशल्यम्, अभ्यासगुणे भोजनादि, गुणा गुणे ऋजुता, अगुणगुणे वक्रता, भवगुणशील गुणयोर्भावगुणार्थमुपात्तेन जीवग्रहणेन गतार्थत्वाद्गाथायां पृथगनुपादानम् भिवगुणो जीवस्य नारकादिभवः, शीलगुणो जीव एव क्षान्त्यधुपेतो, भवगुणे जीवाजीवयोरिति / एवं संयोज्यैकैका व्याख्यायते-तत्र देवकुरुउत्तरकुरुहरिवर्षरम्यकहैमवतैरवतषट्-पञ्चाशदन्तरद्वीपका कर्मभूमिनामयं गुणो-यदुत तत्रत्यमनूजा देवकुमारोपमाः सदाऽवस्थितयौवना निरुपक्रमायुषो मनोज्ञशब्दादिविषयेपभोगिन: स्वभावमार्दवाऽऽर्जवप्रकृतिभद्र-कगुणासन्नदेवलोकगतश्च भवन्ति / कालगुणासन्नवलोकगत-सन्नदेवलोकगतश्च भवन्तिा कालगुणोऽपि भरतैरावतयोस्तिसृष्वप्येकान्तसुषमादिषु समासु स एव सदाऽवस्थितयौवनादिरिति, फलमेव गुणः फलगुणः, फलश्च क्रियाया भवति, तस्याश्च क्रियाया: सम्यग्दर्शनज्ञानचारित्ररहिताया ऐहिकामुष्मिकार्थं प्रवृत्तयोरनात्यन्तिकोऽनैकान्तिको भवन् फलगुणोऽप्यगुण एव श्रवति, सम्यग्दर्शनज्ञानचारित्रक्रिया त्वैकान्तिकात्यन्तिकानावाधसुखाऽस्या: सिद्धिःफलगुणेऽवाप्यते / एतदुक्तं भवति-सम्यग्दर्शनादि कैव क्रिया सिद्धिफलगुणेन फलवती, अपरा तु सांसरिक सुखफलाभास एव / फलाध्यारोपानिप्फलेत्यर्थः / पर्यायगुणो नाम द्रव्यस्यावस्थाविशेषः। पर्याय: स एव गुणः पर्यायगुणः, गुणपर्याययोनयवादान्तरेणाभेदाभ्युपगमात्, स च निर्भजनारूपो, निश्चिता भजना निर्भजना, निश्चितो भाग इत्यर्थः / तथाहि-स्कन्धद्रव्यं देशप्रदेशेन भिद्यमानं परडाण्वन्तं भेदं ददाति, परमाणुरप्येकगुणकृष्णद्विगुणकृष्णादिना अनन्तशोऽपि भेद्यमानो भेददायीति। गणनागुणो नाम द्विकादिकः, तेन च सुमहतोऽपि राशेर्गणना गुणेनेयत्ताऽवधार्यते / करणगुणो नाम कलाकौशलं, तथायुदकादौ करणपाटवार्थ गात्रोत्क्षेपादिकां क्रियां कुर्वन्ति। अभ्यासगुणो नाम भोजनादिविषयः। तद्यथा-तदहतिबालकोऽपि भवान्तराभ्यासात्स्तनादिकं मुख एव प्रक्षिपति,उपरतरुदितश्च भवति / यदि वा अभ्यासवशात्संतमसेऽपि, कंवलादेर्मुखविवरे प्रक्षेपाद्याकुलितचेतसोऽपि च तुद्गात्रकण्डू-यनमिति गुणागुणो नामतत्र गुण एव कस्यचिदगुणत्वेन विपरिणमते / यथा-जीवोपेतस्य ऋजुत्वाख्यो गुणो मायाविनः प्रत्यगुणो भवति। उक्तं च"शाठ्यं ह्रीमति गण्यते व्रतरुचौ दम्भः श्रुतौ कैतवं, शूरे निघृणता ऋजौ विमतिता दैन्यं प्रियाभाषिणि / तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे, तत्को नाम गुणो भवेत् स विदुषां यो दुर्जनैर्जर्नाङ्कितः॥१॥ अगुणगुणो नामाऽगुण एव कस्य चित् गुणत्वेन विपरिणमते, स वक्रविषयो, यथा-गौर्गलिरसंजातकिणस्कन्धो गोगणस्य मध्ये सुखेनैवाऽऽस्ते। तथा च"गुणानामेव दौर्जन्या-द्धरि धुर्यो नियुज्यते। असंजातकिणस्कन्धः, सुखं जीवति गौर्गलिः"।।१।। भवगुणो नाम भवत्युपपद्यते तेषु तेषु स्थानेष्विति नारकादिर्भवः, तत्र तस्य वा गुणो भवगुणः, स च जीवविषयः / तद्यथानारकास्तीअतरवेदनासहिष्णवस्तिलशश्छिन्नसन्धानिनो अवधिमन्तश्च भवगुणादेव भवन्ति, तिर्यञ्चश्च सदसद्विवेकविकला अपि सन्तोगगनगमलनलब्धिमन्तो गवादीनां च तृणादिकमप्यशनं शुभानुभावेदनापद्यते, मनुजानां वा शेषकर्मक्षयो, देवानां च सर्वशुभानुभावो भवगुणादेवेति। शीलगुणो नामऽपरैराकृश्यमानोऽपि शीलगुणादेवन क्रोधवशो भवति / अथवाशब्दादिके शोभने अशोभने वा स्वभावापदेव विदितवेद्यवन्माध्यस्थमवलम्बते। भावगुणो नाम भावा औदयिकादय:, तेषां गुणो नाम भावगुणः, सच जीवाजीवविषय:,सचजीवविषय: आदयिकादि:षोढा। तत्रौदयिक: प्रशस्तश्च, तीर्थकराऽऽहारक शरीरादिप्रशस्तः, अप्रशस्तस्तु षब्दादिविषयोपभोगहास्यरतीत्यादि, औपशमिक उपशमश्रेण्यन्तर्गतायुष्क-क्षयानुत्तरविमानप्राप्तिलक्षणः, तथा सत्कर्मानुदयलक्षणश्चेति। क्षयिकभावगुणश्चतुर्दा / तद्यथा-क्षीणसप्तकस्य पुनर्मिथ्यात्वागमनं क्षीणमोहनीयस्यावश्यंभाविशेषधातिकर्मक्षयः क्षीणघातिकर्मणोऽनावरणज्ञानदर्शनाविर्भावोपगताशेषकर्मणोऽपुनर्भवस्थाऽऽत्यन्तिकैकान्तिकानाबाधपरमानन्दलक्षण: सूखावाप्तिश्चेति क्षायोपशमिकदर्शनावाप्तिरिति पारिणामिको भव्यत्वादिरिति सान्निपातिकस्त्वौदयकादिपञ्चभावसमकालनिष्पादितः। तचथामनुष्यगत्युदयादौदयिकः संपूर्णपञ्चेन्द्रियत्वावाप्ते: क्षायोपशमिकः, दर्शनसप्तकक्षयात् क्षायिकः, चारित्रमोहनीयोपशमादौपशमिकः, भवत्वात्पारिणामिक इति / उक्तो जीवभावगुणः / सांप्रतमजीव
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy