SearchBrowseAboutContactDonate
Page Preview
Page 913
Loading...
Download File
Download File
Page Text
________________ गिलाण 886- अमिधानराजेन्द्रः - भाग 3 गिलाण त तेच तन्दुला: कथमुपस्कर्तव्या इति? आहपुवाउत्ते अवचुल्ल चुल्लि सुक्खघणमसंसिर अविद्धे। पुवकय असइ दाणे, टवणा लिंगे य कल्लाणे / / पूर्व प्रथम गृहिभिः काष्ठप्रक्षेपणादायुक्तः पूर्वायुक्तः, तस्मिन् पूर्वायुक्ते, पूर्वतप्ते अक्षुल्लके प्रथमं तन्दुलानुपस्करोति, तदभावे पूर्वतप्तायां चुल्ल्याम्, अथ चुल्ल्यपि पूर्वतप्ता न प्राप्यते, तत ईदृशानि दारूणि प्रक्षिप्योपस्करोति, तद्यथा-शुष्काणि नाद्राणि, धनानि वंशवन्न रन्ध्रयुक्तानि, अशुषिराणि अस्फुटितानि , त्वचा रहितानिवा, अविद्धानि घुणैरकृतच्छिद्राणि, ईदृशानिदारूणि वक्ष्यमाणप्रमाणोपेतानि पूर्वकृतानि च ग्रहीतव्यानि / अथ पूर्वकृतानि न सन्ति ततः स्वयमपि तेषां प्रमाणोपेतत्वं कर्तव्यं, तथा याचमानस्य वैद्यस्य(दाणे त्ति) अथाजातदानं कर्त्तव्यम् / कथमिति ? अत आह-(ठवण त्ति) शैक्षेण प्रव्रजता यन्निकुञ्जादिषु द्रविणजातं स्थापितं तस्य दानं कर्त्तव्यम्। (लिंगि त्ति) स्वलिङ्गेन परलिङ्गेन गृहलिङ्गेन वा अर्थजातमुत्पादनीयम्। (कल्लाणे त्ति) प्रगुणभूतस्यग्लानस्य तत्प्रतिचरकाणां च पञ्चकल्याणकं दातव्यम् / अथ प्ररूप्यमाणदारूणां प्रमाणादिकमाहहत्थद्धमत्त दारुग, निच्छल्लिय अधुणिया अहाकडया। असई इ सयंकरणं, अघट्टणोवक्खडमहाऊ॥ हस्तार्द्ध द्वादशाकुलानि, तन्मात्राणि तावत्प्रमाणदैोपेतानि, निच्छल्लिकानिछल्लीरहितानि, अधुणितानि घुणैरविद्धानि, दारूणि भवन्ति। ईदृशानिच यथाकृतानिगृहीतव्यानि, यथाकृतानामसत्यभावे स्वयंकरणं आत्मनैव हस्तार्धप्रमाणानि क्रियन्ते, छल्लिश्चापनीयते इत्यर्थः / उपस्कृते च भक्ते उल्मुकानां धट्टना न कर्तव्या, किन्तु यथायुषमानुपाल्य स्वयमेव विध्यायते। अथपानकयतनामाहकंजिऐं चाउलउदए, उसिणे संसट्ठमेतरे चेव। ण्हाणपियणाइ पाणग, पादासद वोरेंददरए। पानीयं याचतो वैद्यस्य काजिक दातव्यं, यदि तन्नेच्छति ततः (चाउलउदकं) तन्दुलधावनं, तदप्यनिच्छति उष्णोदकं संसष्टं प्राशुकं वा (इतरं ति) प्राशुकमनिच्छति अप्राशुकमपि, यावत्कर्पूरवासितम् / एवं स्नानपानादिषु कार्येषु पानस्य दातव्यं, तच्च प्रथमतः पात्रके स्थाप्यते / अथनास्त्यतिरिक्तं पात्रकं,नचासौतत्र स्थापयितुंतंददाति ततो बारके स्थापयित्वा दर्दरयति, मुखे घनेन चीवरेण बधाति , येन कीटिकादयः सत्वा नाभिपतन्ति, भावितं भैक्षपदम्। अथ 'वसुकादित्ति' पदं भावयतिवडके सरावकंसिय-वंवकरयए सुवन्नमणिसेले। भोक्तुं सए व धोवइ, अणिच्छि किमि खुडुवसभा वा।। बटुकं कडठकं, तत्रासौ भोजनं कारयति। अथ तत्र नेच्छति ततः शरावे, तत्रानिच्छति कांस्यभाजने, तत्राप्यनिच्छति ताम्र भाजने, तत्राप्यनिच्छति रजतस्थाले सुवर्णस्थाले मणिशैलमये भाजने भोजयितव्यः / भुक्त्वा चाऽसौ स्वयमेव तद्भजनं धावति / अथ नेच्छति धावितुं ततः 'किटी' स्थविरश्राविका सा प्रक्षालयति, तस्या अभावे क्षुल्लकाः, क्षुल्लकाणामभावे वृषभाः। शिष्य:पृच्छति-कथमसंयतस्य संसृष्टभाजनं संयतः प्रक्षालयति?, किं निमित्तं वा वैद्यस्य मज्जनादिकमियत्परिकर्म क्रियते ? / उच्यतेपूयाईईणि वि मग्गइ, जह विजो आउरस्स भोगट्ठी। तह विजे पडिकम्म, करिति वसभा वि मुक्खट्ठा। यथा वैद्यो भोगार्थी आतुरस्य रोदिण: पूयं पक्करक्तं, तदादीनि आदिशब्दात् शोणितप्रभृतीन्यप्यशुचिस्थानानि मार्जयति शोधयति, तथा वृषभा अपि मोक्षार्थं वैद्यस्य सर्वमपि प्रतिकर्म मज्जनादिकं कुर्वन्ति / यस्तुन कुर्यात्तस्य प्रायश्चित्तमाहतेइच्छियस्स इच्छा-णुलोमगं जो न कुन्ज सइ लामे। अस्संजमस्स भीतो, अनसपमादीच गुरुगा से॥ चिकित्सया चरति जीवति वा चिकित्सिको वैद्यः, तस्य या मजनादाविच्छा, तस्या अनुलोममनुकूलं प्रतिकर्म, सति लाभे लाभसंभवे (अस्संजमस्स भीओ त्ति) पञ्चम्यर्थे षष्ठी / असंयमादसंयतवैयावृत्यकरणलक्षणागीतोऽलस: प्रमादी च यो न कुर्यात, तस्य चत्वारो गुरुकाः। अथग्लानवैद्ययोर्वयावृत्यकरणान्युपवदर्शयतिलोगविरुद्धं दुपरिचओ उ कयपडिकिई जिणाऽऽणा य। अतरंतकारणा जे, तदट्ट ते चेव विजम्मि।। ग्लानस्य यदि वैयावृत्त्यं न क्रियते, ततो लोकविरुद्धं भवति / लोको ब्रूयात्-धिगमीषां धर्म, यत्रैवं मान्द्यसंभवेऽपि ईदृशमनाथत्वमिति तथा परस्परमेकवचनप्रतिपत्यादिना यः कोऽपि लोकोत्तरक: संबन्धः,स दुःपरित्यजो दुःपरिहर इतिग्लानस्य वैयावृत्यं कार्यम्। कृतप्रतिकृतिश्चैवं भवति, ग्लानेन पूर्व दृष्टेन सता यदात्मनि उपकृतं तस्य प्रत्युपकारः कृतो भवतीति भावः। जिनानां या आज्ञा-अग्लान्या ग्लानस्य वैयावृत्यं कुर्यादित्यादिलक्षणा सा कृता भवति / एतानि अतरो ग्लानस्तस्य वैयावृत्यकरणानि, तदर्थ ग्लानार्थं यद्वैद्यस्य वैयावृत्यकरणं, तत्राऽपि तान्येव लोकविरुद्धपरिहारादीनी कारणानि द्रष्टव्यानि। अथग्लानस्य मज्जनादिविधिमतिदिशन्नाहएमेव गिलाणम्मी, विगमो उखलु होइ मजणाईओ। सविसेसो कायव्वो, लिंगविवेगेण परिहीणो। एष एव ग्लानेऽपि मजनादिका गमः प्रकारो भवति, यथा वैद्यविषय उक्तः, नवरं सविशेषो भत्किबहुमानादिविशेषसहितो, लिङ्ग विवेकेन परिहीण: सर्वोऽपि कर्तव्यः। ___अथग्लानवैद्ययोरनुवर्तनायां महार्थत्वं दर्शयन्नाहको वोच्छइ गेलने, दुविहं अणुअत्तणं निरवसेसं / जह जायइ सो निरुओ, तह कुन्जा एस संखेवो / / ___ ग्लाने सति द्विविधा अनुवर्तनाग्लानविषया, वैद्यविषया च / तां निरवशेषां सम्पूर्णी को नाम शेषं वक्ष्यति ?, बहुवक्तव्यत्वात्र कोऽपीत्यभिप्राय: / अतो यथाऽसौ ग्लानो निरुग्जायते तथा कुर्यादेष संक्षेप: संग्रहः, उपदेशसर्वसमितियावत्।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy