________________ गिलाण 890- अभिधानराजेन्द्रः - भाग 3 गिलाण अथवैद्यस्य दानंदातव्यं, तत्र विधिमाहआगंतु पउणे जायण, धम्मावणे तत्थ कइयदिढतो। पासादे कूवादी, वत्थूकुरुमे तहा ओही॥ ग्लाने प्रगुणे जाते सति आगन्तुक्द्यो यदा दक्षिणां याचते तदा भण्यतेधम्मपिणो धर्मव्यवहरणहट्टोऽयमस्माकमतो यदत्र संभवति तदेव ग्रहीतव्यम् / क्रयिकदृष्टान्तश्च तत्रोच्यते-यथा केन चित् क्रयिकेण गाब्धिकापणे रूपकान् निक्षिप्प भणितम्-ममैतैः किश्चिद्भाण्डलजातं दद्याः, ततः सोऽन्यदा तत्रापणे मद्यं मार्गयितुं लनः / वणिजा प्रोक्तःममापणे गन्धपण्यमेव व्यवहियते, नास्ति मद्यम्, अतस्त्वं गन्धपण्यं गृहाणेति / एवमस्माकमपि धर्मापणाद् धर्म गृह्णातु भवान्, नास्ति द्रविणजातमित्युक्ते यदि नोपरमति, ततः शैक्षेण प्रव्रजता यन्निकुञ्जादिषु परिष्ठापितं तदानीय दीयते, तस्याभावे यदुत्सन्नस्वामिक क्वापि प्रायसदे, कूपे वा, आदिशब्दान्निर्द्धमनादिषु वा निधानं, तथा शटितपतितं यद्वास्तुगृहं तदुत्कटसमिवेतिकृत्वा वास्तुकुरुटमुच्यते, तत्र वा यन्निधानं तदवधिज्ञानिनः, उपलक्षणत्वाद्दशपूर्विप्रभृतीनां वा पार्श्वे पृष्ट्वा, ततः प्रासादादिस्थानादानीय वैद्यस्रू दातव्यम्। वास्तव्यवैद्यस्य दानविधिमाहवत्यव्व पउणें जीयण, धम्मादाणं पुणो अणिच्छंते। सव्वा वि होइ जयणा, रहिए पासायमाईया।। प्रगुणीभूतै ग्लाने वास्तव्यवैद्यो यदि याचनं कुरुते ततस्तस्याऽपि धर्म एवादानं द्रव्यं तदा दातव्यं (पुणो अणिच्छन्ते त्ति) पुनः भूयो भूयः प्रज्ञाप्यमानोऽपि यदि धर्मादानं नेच्छति तदा पश्चात्कृतादिर्भिगृहस्थै रहिते सैव प्रासादादिका यतना कर्तव्या याऽनन्तरगाथायामभिहिता। द्वयारण्यागन्तुकवास्तव्यवैद्ययोरुपधिं याचतोर्विधिमाहउवहिम्मि पडग साडग, संवरणं वा वि अत्थरणगं वा।। दुगभेदादाहिंडण,ऽणुसट्टि परलिंग हिंसाई।। उपधौ दपकरणे पटशाटकः परिधानं, संवरणं प्रच्छदपटः, आस्तरणं संस्तरणं, तूलि वा, यद्येतानि मार्गयत: ततस्तथैव धपिणदृष्टान्तः क्रियते। अथ नोपरमति, ततो द्विकं साधुयुगंतल्लक्षणो यो भेद: प्रकार:, तेनादिशब्दाढन्देन विहिण्डित्वा पटशाटकादिकमुत्पाद्य वैद्यस्य प्रयच्छन्ति, अथ नावाप्यते ततोऽनुशिष्टिातव्या, तथाऽप्यनु परतस्य परलिङ्गं कृत्वा हिंसादिप्रयोगेणोपाद्य प्रयच्छन्ति। द्वितीयपदे न दद्यादपि,यत आहबिइयपदे कालगए, दंसुट्ठाणे व बोहिगाईसुं। असिवाई असई वा, ववहारऽपमाणअदसाई।। द्वितीयपदेवैद्ये ग्लानेवा कालगतेसति, यद्धा-बोधिकाम्लेच्छास्तेषाम, आदिशब्दात्परचक्रेभ्यो वा भयेन देशस्योत्थाने उद्वशीभवने, अशिवेवा, आदिग्रहणाद् दुर्भिक्षे राजद्विष्टे वा संजाते सति, असति वा सर्वथैव वस्त्राणामलाभे, व्यवहारः क्रियते, व्यवहारेण च निर्जितस्य तस्य न प्रयच्छन्ति, व्यवहारेण वा कारणिकैर्दाप्यमाने प्रमाणहीनानि अदशाकान वस्त्राणि दर्शयन्ति, अस्माक मीदृशान्येव स्वाधीननानि, अन्यानि न सन्ति / अथ द्रविणजातं मार्गयति वैद्ये विधिमाहकवडगमादी तंबे,रुप्पे ते तह व केत केवडिए। हिंडणअणुसिट्ठादी, पूईयलिंगे विविहभेदो। कपर्दादयो मार्गयित्वा तस्य दीयन्ते, ताम्रमयं वा नाणकं यद्व्यवह्रियते, तथा दक्षिणापथ काकिणीरूपं रूप्यमयं, तन्मयं वा नाणकं भवति / यथा भिल्लमाले 'द्रम्म' पीतं जाम सुवर्ण , तन्मयं वा नाणकं भवति / यथा पूर्वदेशे दीनार: कवडिको नाम। यथा तत्रैव पूर्वदेशे केतराभिधो नाणकविशेष: / एतेषामप्युत्पादनकं कुर्वता सङ्घाटकेन वृन्देन वा हिण्डनं तथैव कर्त्तव्यम्, अलब्धे अनुशिष्टयादीनि प्रयोक्तव्यानि। लिङ्ग मितिपदं व्याख्यायते-पूजितमर्चितं यल्लिङ्गं तत्र विविधो भेद: कर्तव्यः / किमुक्त भवति?-तस्मिन् देशे यत् त्रयाणां स्वलिङ्गगृहलिङ्ग कुलिङ्गानां मध्यात् पूजितं, तेन लिङ्गेन द्रविणजातमुत्पादयन्ति वैद्यं वा प्राज्ञापयन्ति। द्वितीयपदे द्रविणजातमपि न दद्यात् कथमिति? आह-- विइयपदे कालगए, देसुट्ठाणे च वोहियादीसु। असिवादी असई,वा ववहार हिरण्णगा समणा।। द्वितीयपदे वैद्ये ग्लाने वा कालगते, देशस्य वा वोधिकादिभयेनोत्थाने उदासने, अशिवादौ वा संजाते, असत्तायां वा सर्वयैवाऽलाभे अर्थजातं वैद्यस्य न दद्यात्, व्यवहारे च समुपस्थिते ब्रुवते-अहिरण्यका: श्रमणा भवन्तीति तावत् सर्वत्रापि सुभ्रतीतं, परं तथाप्सेतेनारब्धैरस्माभिद्रविणजातं गवेषयितुमारब्धं, ततो लोको ब्रवीति-- वर्तते शासन यतिभ्यो हिरण्यादि दातुम् / यत उक्तम्-'गृहस्थस्याऽन्नदानेन, वानप्रस्थस्य गोरसात् / / यतीनां च हिरण्येन, दाता स्वर्ग न न गच्छति' '1 // एवं व्यवहारो लभ्यते। अथकल्याणकपदं व्याख्यानयतिपउणम्मि य पच्छित्तं, दिजइ कल्लाणगं दुवण्हं पि। बूढे पायच्छित्ते, पविसंती मंडलिं दो वि॥ ग्लाने प्रगुणीभूते सति द्वयोरपि ग्लानप्रतिचरकवर्गयो: कल्याणक प्रायश्चित्तं दीयते, इहैवमविशेषेणोक्ते, ग्लानस्य पञ्चकल्याणकं, प्रतिचरकाणां त्वेककल्याणकं दातव्यम् / आदेशान्तरेण वा द्वयोरपि पञ्चकल्यणकं मन्तव्यं ततो व्यूढे प्रायश्चित्ते द्वावपि ग्लानप्रतिचरकवर्गी भोजनादिमण्डली प्रविशतः। अथोपसंहरन्नाहअणुत्तणा उएसा, दव्वे विजे य वनिया दुविहा। इत्तो चालणदारं, वुच्छं संकामणं चुभओ॥ ग्लानप्रायोग्यद्रव्यविषया वैद्यविषया चैषा द्विविधाऽनुवर्तना वर्णिता॥ (32) इत ऊ चालनाद्वारं, संक्रामणद्वारंच उभयतो ग्लानवैद्यद्वयविषयं वक्ष्येविजस्स वदव्वस्सव, अट्ठा इच्छिते होइ उक्खेवो। पंयो य पुय्वदिट्ठो, आरक्खिउ पुव्वभणिओ उ॥