________________ गिलाण 888 - अभिधानराजेन्द्रः - भाग 3 गिलाण गमो द्रष्टव्यः, पश्चात्कृतादिभिररहिते रहिते वा योऽनन्तरमेव भणितः। अथात्रैवं यतनाविशेषमाहमजणगतिच्छंते, वाहिं अमितरं च अणुसही। धम्मकहविजमंते, निमित्त तस्सह अन्नो वा।। मज्जनं स्नानम्, आदिशब्दादभ्यङ्गनोद्वर्तनादिकं, वहिग्रामे आगाच्छन् अभ्यन्तरे प्राग् ग्लानसकाशे प्राप्ते यदाच्छति, ततः सर्व तस्या पश्चात्कृतादय: कुर्वते / तेषामभविऽनुशिष्टिः क्रियते / यथा यतीनां न कल्पते गृहिणः स्नपनादि कर्तुं, भवतश्च मुधा कुर्व तो बहु फलं भवति। अथ तथाऽपि नोपरमति, ततोधर्मकथा: कर्तव्याः, तथाऽप्यप्रतिपद्यमाने विद्यामन्त्रनिमित्तानि तस्य वैद्यस्य आवर्जनार्थं प्रयुज्यन्ते, अन्यो वा तानि प्रयुज्य वशीक्रियते , ततस्तस्य वैद्यस्यासौ मज्जनादि कार्यते। अथ धर्मकथापदं भावयतितह धम्म कहिंति जहा, होइ संजउ सन्नि दाणसड्डो व। वहिया उ अण्हायंते, करिति खुड्डा इमं अंतो॥ आक्षेपणीयप्रभृतिभिः तस्य तथा धर्म कथयन्ति यथाऽसौ संयतो भवति, संज्ञी गृहीताणुव्रतो, अविरतसम्यग्दृष्टिा, दानश्रद्धो मुधैव साधूनामारोग्यदानशीलो भवति / अथ धर्मकथालब्धिर्नास्ति ततो विद्यामन्त्रादयः प्रयुज्यन्ते, तेषामभावे तस्यामत्रका दीयन्ते, भण्यते चासौ-बहिर्गत्वा स्नानं कुरुत / अथ बहिः स्नातुं नेच्छति ततो बहिरस्नानि तस्मिन् क्षुल्लका इदं वक्ष्यमाणमन्तः पतिश्रयस्याभ्यन्तरे कुर्वन्ति। उसिणे संसट्टे ,भूमी फलगाइ भिक्ख वडुआइ। अणुसट्ठी धम्मकहा, विजनिमित्ते य वहि अंतो।। उष्णोकेन प्रतीतेन, संसृष्टन गोरसरसभावितेन अपरेण वा प्राशुकेन, क्षुल्लकास्तं स्नपयन्ति, शयनमश्रित्य भूमौ फलके, आदिशब्दात्यल्यकादिषु वा स शाय्यते, भोजनं प्रतीत्य भैक्षं भिक्षा पर्यटनेन लब्धमानीय तय दातव्यम्,(वडुआइ त्ति) बटुक मष्टकमयं भाजनम्, अदिग्रहणात्काम्यपात्रादिपरिग्रहः, एतेषु भोजनमसौ कारयितव्यः, हिरण्यादिकं द्रविणजातं याचमानस्य अन्तरिति वास्तव्यवैद्यस्य, बहिरित्यागन्तुक वैद्यस्योभयस्याप्यनुशिष्टिः, धर्मकथाविद्यानिमित्तानि, प्रयोक्तव्यानीति संग्रहगाथासमासार्थः / अथैनातेव भावयन्नाहतेलुवट्टणण्हावण, खुड्डासति वसभ अन्नलिंगेणं / पट्टदुगादी भूमी, अणिच्छि जा तूलिपल्लंके // क्षुल्लकास्तं वैद्यं तैलेनाभ्यङ्ग्य कक्लेनोद्वयोष्णोदकादिना प्राशुकेन एकान्ते स्नापयन्ति, अथ क्षुल्लका न सन्ति, स्नपयितुं वा न याचन्ते, ततो ये वृषभागच्छस्य शुभाशुभकारणे भारोद्वहनसमर्थास्तेऽन्यलिङ्गेन गृहस्थादिसंबन्धिना स्नानादिकं वैद्यस्य कुर्वन्ति, "पट्टदुगा' 'इत्यादि। स वैद्य:शयितुकामः प्रथमतो भूमौ संस्तारपट्टमुत्तरपट्टकं च प्रस्तार्य शाय्यते। अथनाऽसौ पट्टद्वये स्वतुमिच्छति, तत और्णिकसौत्रिको कल्पौ प्रस्तार्येते, तथापि यदि नेच्छति, ततः काष्ठफलके संस्तारोत्तर पट्टकावास्तीर्य शयनं कार्यते, तथाऽप्यनिच्छति उत्तरोत्तरं तावन्नेतव्यं यावत् तूलीपल्यङ्कावप्यानीय शाययितव्य इति। अथ भैक्षपदं भावयतिसमुदाणिओदणो मत्तओ व णिच्छंति वीसु तवणा वा। एवं पि णिच्छमाणो, होइ अलंभे इमा जयणा / / समुदानं नामोचावचकुलेषु भिक्षाग्रहणं, तत्र लब्ध: सामुदानिकः, "अध्यात्मादिभ्य इकण'६३७६। इति (हैम०)इकण् प्रत्यय: / स चासावोदनश्च सामुदानिकौदनः, सप्रथमतो वैद्यस्य दातव्यः, अथासौ तंभोक्तु नेच्छति, ततो मात्रकं वर्तापनीयं, तत्र प्रायोग्यं तदर्थ गृहीतमिति भावः / अथ तथाऽपि नेच्छति ततो (वीसुत्ति) पृथगोदनं, व्यञ्जनमपि पृथग ग्राह्यम्, अथ शीतलमिति कृत्वा तन्नेच्छति, तदा (तवण त्ति) तदेव यतनया तापपयितव्यम् एवमप्यनिच्छति अलभ्यमाने वा इयं यतना भवति। तामेवाहतिगसंवच्छर तिगद्ग-एगमणेगे य जेणिघए य। संसहमसंसट्टे, फासुयमफासुए जयणा / / येषां शालिव्रीहिभृतीनां संवत्सरत्रयादूर्द्धमागमे विध्वस्तयोनिकत्वमुक्त तेषां ये त्रिवार्षिकास्तन्दुलास्ते (तिगद्गएग त्ति) प्रथमतस्त्रिछटिता गृहीतव्याः, तदभावे द्विछटिता:, तेषामलाभे एकछटिता अपि / अथ त्रिवार्षिका न प्राप्यन्ते ततो द्विवार्षिकाः, तेषामलाभे एकवार्षिका अपि _व्युत्क्रन्तयोनिकाः सन्तस्त्रिोकछटिता: क्रमेण ग्राह्याः / तदलाभे (अणेगय त्ति) एषांधान्यानामनेकानि वर्षत्रयाहुतराणि वर्षाणि स्थितिः प्रतिपादिताः। यथा-तिलमुद्माषादीनां पञ्चवर्षाणि, अतसीकङ्गकोद्रवप्रभृतीनां सप्त वर्षाणीत्यादि तेषामपि तन्दुला: पञ्चवार्षिका: त्रिोछटिता: क्रमेण ग्रह्याः। अत्रापि वर्षपरिहाणित्युत्क्रान्तयोनिकत्वं च तथैव द्रष्टव्यम्। इह च येषां यावती स्थितिरुक्ता ते तावती स्थितिं प्रप्ता: सन्तो नियमाद् व्यत्क्रान्तयोनिकाः, ये त्वद्यापि न परिणतास्ते तु व्युत्क्रान्तयोनिका अव्युत्क्रान्तयोनिका वा भवेयुः, इति (जोणिघाए त्ति) व्युत्क्रान्तयोनिकानामभावे अव्युत्क्रान्तयोनिका अपि, ये योनिघातेन गृहिभि: साध्वर्थेमचित्तीकृतास्तेऽप्यवमेव गृह्यन्ते। तथा दध्यादिभाजनधावने संसृष्टपानकम; उष्णोदकं ,तन्दुलधावनादि वा असंसृष्टपानकम्, उभयमपि प्रथमतः प्राशुकं, तदभावे अप्राशुकमपि यतनया यत् त्रसविरहितं तत्तदर्थं गृहीतव्यम्। अथैनामेव नियुक्तिगाथां भावयतिवकंतजोणिछड्डा, दुएकछमणे वि होइ एस गमो। एमेव जोणिघाए, तिगाइ इतरेण रहिए वा॥ त्रिवार्षिकादयो ये व्युक्रान्तयोनिकास्ते त्रिछटिता ग्राह्या:, तेषामभावे देयकछटितानामप्येष एव गमो, यत्तेऽपि व्युत्कान्तयोनिका गृह्यन्ते / एवमेवव योनिघाते साध्वर्थं कृते (तिगाइति) त्रिबेयकछटिता गृहीतव्याः, तेषामभावे त्रिवार्षिकादयो यथाक्रमं कण्डापनीयाः / अथ नास्ति कोऽपि कण्डयिता, तत इतरेणाव्यक्तलिङ्गेन रहिते वा सागहरिकवर्जिते प्रदेशे स्वयं कण्डयति। यद्वा-(रहिए त्ति) पश्चात्क्रातादिभिर्गृहस्थैः रहिते एषा यतना कर्त्तव्या।