________________ गिलाण 887 - अभिधानराजेन्द्रः - भाग 3 मिलाण भणन्ति-वयं दास्याम इति / एवं तावद्भद्रको वैद्य: क्रियां करोति न चान्यत्किमपि स्पृहयति। (31) यस्तु प्रान्तस्तमुद्दिश्य भूतिद्वारमाहारद्वारं चाहकोई मजणगविहि, सयणं आहार उवहि केवमिए। गीयत्थेहि य जयणा, अजयण गुरुगइ आणाई।। कश्चिद्वैद्यो ब्रूयात्-मज्जनं स्नानं तस्य विधिः प्रकारो मज्जनविधिः, तैलाभ्यङ्गनादिप्रक्रियापुरस्सरं स्नानमित्यर्थः। शयनं पल्यङ्कादि, आहारो भोजनम् उपधिर्वस्त्रादिरूप: (केवमिय त्ति) रूपका: / एतत्सर्व मम को नाम दास्यतीति ? ततः पश्चात्कृतादिभिरभ्युगन्तव्यम् / यद्ययतनया अभ्युपगच्छन्ति, प्रेषयन्ति वा, ततश्चत्वारो गुरुकाः, आज्ञादयश्च दोषाः / एषा पुरातनी गाथा। __ अथैनामेव विभावयिषुराहएयस्स नाम दाहिह, को मज्जणगाइ दाहिई मज्झं। ते चेव णं मणंती, जंइच्छसि अम्हें तं सव्वं // एतस्यग्लानस्य , नामेति संभावनायां, यद्यत्प्रायोग्यं भेषजादि, तत्सर्व दास्यथ, मे स पुनर्मजनकादि को दास्यति ? इत्युक्ते त एव पश्चातकृतादयो (णमिति) तं वैद्यं भणन्ति यद्यदिच्छसि तत्सर्व वयं दास्याम इति। जं एत्थ अम्हें सव्वं, पडिसेहे गुरुग आणादी। एएसिं असईए, पडिसेहे गुरुग आणादी। ये चैते पूर्व पश्चात्कृतादयः प्रज्ञापितास्तैर्यदत्र ग्लानस्य युस्माकं खोपयुज्यते तत्सर्वं वयं दास्याम इत्युक्ते सतिः यः साधुस्तानधिकरणभयात्प्रतिषेधयति, तस्य चत्वारो गुरुका:,आज्ञादयश्च दोषाः / अथ न सन्ति पश्चात्कृतादयस्तत एतेषां असत्यभावे यो वैद्यं प्रतिषेधयति, नवयं भवतो मञ्जनादि दास्याम इति तस्याऽपि चतुर्गुरुकाः, आज्ञादयश्च दोषः। पश्चात्प्रतिषेधमानेषु यद्वैद्यश्चिन्तयति तदाहजुत्तं सयं न दाउं, अग्निं देंति विऊ निवारिंति। न करिज तस्स किरियं, अवप्पओगं व से दिज्जा। युक्तममीषां स्वयमदातुम्, अपरिग्रहत्वात् यच्च पुनरन्यान् ददतो निवारयन्ति, तन्न युज्यते, उवं प्रद्विष्टः सन् तस्य ग्लानस्य क्रियां न कुर्यात् अपप्रयोग वा विरुद्धौषाधयोग 'से' तस्य दद्यात् प्रयुञ्जीत; तस्मादन्यान्न निवारयेदेति। दाहामो त्तिस्य गुरुगा, तत्थ वि आणाइणो भवे दोसा। संका व सूयएहि, हिऐं नहे तेणए वा वि॥ पश्चात्कृतादीनामभावे यदि साधवो भणन्ति–वयमूवश्यं ते सर्वमपि दास्याम इति, तदा चत्वारो गुरुकाः, तत्राप्याज्ञादयो दोषा भवेयुः। तथा कस्यापि हिरण्यादौ केनचित् हृतेऽन्यथा वानष्टे सति शङ्का भवतिअहिरण्यसुवर्णा अप्यमी यद्दास्याम इति भणन्ति, तन्नमेतैरेव गृहीतमिति / यदा-सूचकैरारक्षकादिभिस्तत् श्रुत्वा राजकुले गत्वा सूच्यते / यथा-स्तेनका एते श्रमणा ये वैद्यस्य हिरण्यादिकं दातव्यतया प्रतिपद्यन्ते, ततो ग्रहणाकर्षणादयो दोषाः। पडिसेह अजयणाए, दोसा जयणा इमेहि ठाणेहिं। भिक्खण इड्डि विइयपद, रहिए जं माणिहिसि जुत्तं / / पश्चात्कृतादीनामभावे यद्ययतनया प्रतिषेधयन्ति-नतव भृति या भक्त वा दास्याम इति, ततश्चतुर्गुरुका:, आज्ञादयश्च दोषाः / तस्माद्यतना एभिः स्थानः कर्तव्या (भिक्खण त्ति) भिक्षां कृत्वा वयं दास्यामः, (इड्डि त्ति) ऋद्धिमता या निष्क्रामता यत् क्वापि निक्षिप्तं तद् गृहीत्वादास्यामः, द्विजीयपदे या क्वचित्कारणे जाते सति तदर्थजातं गुहीतं तत इरित दास्यामहे (रहिए त्ति) पश्चात्कृतादिरहिते एवं भणन्ति-(जं भाणिहिसि जुत्तं ति) यत् त्वं भणिष्यसि तद्यथाशक्ति करिष्यामो, यद्धा अस्माकं युक्तमुचितं तद्विधास्याम इति। अथासौ वैद्यो ब्रूयात्अरिहण्णग त्थ भगवं ! सक्खी छावेह जे ममं देति। धंतं पि दुद्धकंखी, ण लभइ दुद्धं अधेणूतो॥ भगवन् ! अहिरण्यका: स्थ यूयमतः साक्षिणः स्थापयत, ये मम पश्चात्प्रयच्छन्ति। अमुमेवार्थं प्रतिवस्तूपमया द्रढयति (धत्तं पि त्ति) देशीवचनत्वादतिशयेनापि दुग्धकासी नलभते दुग्धमधेनोः सकाशात्। एवं वैद्येनोक्तेन किं कर्तव्यमिति ?आहपच्छाकमाइजयणा, दावणकजेण जा भाणिय पुट्विं / सद्धाविभवविहूणे, ते चिय इच्छंतगा सक्खी। पश्चात्कृतादिविषया मजनकादिदापनकार्येषु या पूर्व यतना भणिता सैव इह मन्तव्या, नवरं ये पश्चात्कृतादयः श्रद्धया, विभवेन च विहीनास्त एव इच्छन्तः सन्त इह साक्षिण: स्थाप्यन्ते। यथा-वयं भिक्षाटनं कृत्वा यथालब्धमतेस्यदास्याम इति। अथ ते साक्षीभवितुं, नेच्छन्तिततो य:. ऋद्धिमत्प्रदाजितः स इदं ब्रूयात्पंचसयदाणगहणे, पलालखेलाण छडणं च जहा। सहसं व सयसहस्सं, कोडी रखं व अमुगं वा / / एवं ता गिहिवासे, आसी व इयाणि किं भणिहामो। जं तुब्भ मह य जुत्तं, तं उग्गाढम्मि काहामो॥ यथा पलालखेलयोश्छईनं विधीयते तथा दीनानाथादिभ्यो वयं रूपकाणां पञ्चशतानि हेलयैव दानं दत्तवन्तः आर्जनामपि कुर्वाणा: पञ्चशतानां ग्रहणमेवमेव कृतवन्तः, एवं सत्रं, शतसत्रं, कोटी राज्यम्, अमुकम् अनिर्दिष्टसंख्यास्थानं, लीलयैव वयं दत्तवन्तः, स्वीकृतवन्तो वा, तदस्माकंगृवासे विभूतिरासीत्, इदानीं पुनरकिञ्चना: श्रमणाः सन्तः किं भणिष्यामः, किं करिष्याम इति भावः, परं तथाऽपि ग्लाने उद्राढे प्रगुणीभूते सति यत्तवास्माकं च युक्तमनुरूपं तत्करिष्याम इति / एवं तावत् स्वग्रामे वैद्यविषया यतमा भणिता / अथ स्वग्रामे वैद्यो न प्राप्यते ततः परग्रामादप्यानेतव्यः। तत्र विधिमाहपाहिजे नाणतं, वहिं तु भईऐं एस चेव गमो। पच्छाकडाइएसुं, अरहिएँ रहिए उजो भणिओ। पाथेयं नाम कण्टकमनवेतनं यत्तस्य भक्तादि दीयते तत्र नानात्वं विशेषः, वास्तव्यवैद्यस्य स न संभवति, अस्य तु भवतीति भावः / तत्र च बहिर्गामादागतस्य भृतौ मज्जनादौ वेतने एष एव