SearchBrowseAboutContactDonate
Page Preview
Page 910
Loading...
Download File
Download File
Page Text
________________ गिलाण 856- अभिधानराजेन्द्रः - भाग 3 गिलाण पहृतचित्तस्य तस्य दर्पाव्यतिरेकज उन्माद: शाम्यति, संमानना यक्षाविष्टस्य तु यथायेगमपमानना वा विधेया, ज्वरादौ वा रोगविशेषणादिका क्रिया या यत्र विद्यते सा च तत्र विधयेति। (28) अथतुलनाद्वारमाहअपडिहणंता सोगं, कयजोगाऽलभितस्स किं देमो। जहविभवा तेगिच्छा, जालंभो ताव जूहंति॥ वैद्येन दीयमानमुपदेशमप्रतिध्नन्तस्तद्वचनमविकुट्टयन्तः श्रुत्वा आत्मानं तोलयन्ति-किमेतत् कलमशाल्यादिलप्स्यामहे, नवेति? यदि विज्ञायत-धुवं लप्स्यामहे ततो न किमपि भणन्ति। अथ न तस्य ध्रुवो लाभः, ततो भणन्ति-यथा युस्माभिरुपदेशा दत्तास्तथा वयं योगं करिष्यामः, परं यदि कृतेऽपि योगे न लभामहे, ततस्तस्य किं दद्म:? अपि च-वैद्यकशास्त्रे यथाविभवा यथाऽभुरूपा, चिकित्सा भणिता, यस्य यादृशी विभूतिस्तस्य तदनुरूपैरोषधैः पथ्यैश्च चिकित्सा क्रियते इत्यर्थः / अतो यूयमपिजानीथ-यथाऽस्माकं सर्वमपियाचितं लभ्यते, नाऽयाचितम् अतो यदा कलमशाल्यादियाच्यमानमपि न प्राप्यते, तदा किं दातव्यमिति? इत्येवं वैद्योपदेशमुपसर्पयन्तस्तावजूइन्तिअनयन्ति या वधस्य द्रव्यस्यको द्रव कूरादेः क्षीरशर्करा देवीलाभो भवति। तुलनामेव प्रकारान्तरेणाहनियएहि ओसहेहिं, का इ भणेज्जा करेमहं किरियं / तस्सऽप्पणो यथाम, नाउं भावं च अणुतन्ना / / ग्लानस्य कोऽपि संज्ञातको वैद्यो भणेत्-निजकैरौषधैरहं ग्लानस्य करोमि क्रियां, प्रेषयत मदीये गृहे ग्लानमिति। ततो गुरुभिः पृष्टेन ग्लानेन तस्यात्मनश्च स्थाम वीर्य तोलनीयम्। किमेष वैद्य औषधानि पूरियितुं समर्थो, न वा ? अहमपि किं धृत्वा बलवान् ? आहोस्विदबलवान् / भावो नाम किमेष धर्महेतोश्चिकित्सां चिकीर्षुः स्वगृहे मामाकारयति, उताहो निष्कामणाभिप्रायेणेति / यद्यसौ गृहस्थ ओषणपूरिणे समर्थो, यदिचस्वयं धृत्या बलवान्, यदि च धर्माहतो: संज्ञातकस्तस्मात्कारयति तत एवं तस्यात्मनश्च वीर्य भावं च ज्ञात्वा गुरूणामभुक्षा ग्रहीत्या तत्र गन्तव्यम्। अथ वैद्यो ब्रूयात्जारिसयं गेलन्नं, जाय अवत्था उ वट्ठए तस्स। अद्दगुण न सका, वोत्तुं तं वचिमो तत्थ।। यादृशं युष्माभिग्लनित्वमाख्यातं, या तादृशी तस्यावस्था वर्त्तते, तदेवददृष्ट्वा न शक्यते किमप्यौषधादि वक्तुं, उपदेष्टुं च, ततस्तत्रैव ग्लानसमीपे व्रजाम इति। (26) एवं भणित्वा प्रतिश्रयामागतस्य यो विधि: कर्त्तव्यस्त मभिधित्सुरिगाथामाहअब्भुट्ठाणे आण, दंसण भद्दे मितीय आहारो। गिलाणस्स आहारे,ननेयव्वो आणुपुटवीए।। प्रथमसभ्युत्थानविषयो विधिर्वक्तव्य, तत आसनविषय:, ततोग्लानस्य दर्शना यथा क्रियते, ततो (भद्दे त्ति) ऋ भद्रको वैद्यो यथा चिकित्सामेवमेव करोति, इतरस्य तुभृतिर्मजनादिकं, चिकित्सावितनम् आहारश्च तथा दातव्यः, ग्लानस्य च तथा आहारे यतना कर्तव्या। एवं | सर्वोऽपि विधिरानुपूर्व्या प्ररूप्य माणे ज्ञातव्यः / इति समुदायार्थः। अवयवार्थं तुप्रतिद्वारमभिधित्सुराह अब्भुट्ठाणे गुरुगा, तत्थ वि आणादिणो दोसा। मिच्छत्त राइयाणं, तस्स कुलस्स व विराहणया॥ अभ्युत्थाने गुरुकाः, तत्राप्याज्ञादयो दोषा भवेयुः, तथा मिथ्यात्व राजादयो व्रजेयुः, आदिग्रहणेन राजामात्यादिपरिग्रहः / ते हि चारपुरुषादिमुखादाखयं वैद्यस्याभ्युत्थितं श्रुत्वा स्वयं वा दृष्ट्वा चिन्तयेयु:-"अमी श्रमणा अस्माकमभ्युत्थानं न कुर्वन्ति अस्मद्धृत्यस्य तु नीचतरस्येत्थमभ्युत्तिष्ठन्ते, अहो ! दुर्दृष्टधर्माणोऽडी'इति प्रतिविद्विष्टा वा यत्त स्यैवाचार्यस्य, यदि वा कुलस्य, सङ्घष वा विराधनां कुर्युः, तन्निष्पन्नं प्रायश्चिचत्तम्। अब्भुट्ठाणे गुरुगा, तत्थ वि आणाइणो भवे दोसा। मिच्छत्त सोव अन्नो, गिलाणमादी विराहणया॥ अथैतद्दोषभयादाचार्यो नोत्तष्टति, तत्रापि च गुरुका:, तत्राप्याज्ञादयो दोषा भवेयुः, स च वैद्यऽन्यो वा दृष्ट्वा मिथ्यात्वं गच्छेत्-यथा अहो ! तपस्विनोऽपि गर्वमुद्वहन्ति, प्रद्विष्टो वा वैद्यो ग्लानस्य क्रियां न कुर्यात, अपप्रयोगे वा कुर्यात, एवं ग्लानविराधनाम्, आदिशब्दाचार्यादेर्वा राजवल्लभतया विराधनां कुर्यात्। यद्वा-युष्माकं देहे अमुको व्यधिर्वतते तचिकित्सार्थममुकमौषधं दास्यत इति भणित्वा विरुद्धौषधप्रदानेनाचार्यं विराधयेत्। यत एते दोषा अतोऽयं विधि: कर्त्तव्य:गीयत्थे आणयणं, पुट्विं उद्वित्तु होए अमिलावो। गिलाणस्स दंसणं धो-वणं च चुन्नादि गंधे य / / गीतार्थेवैद्यस्य प्रतिश्रये आनयनं कर्त्तव्यं, यदि ते पञ्च जनास्ततः संघटकप्रथमत एवागच्छमि। अथ त्रयस्तत एकस्तत एकस्तन्मध्यात्प्रथममागच्छिति, आगत्य च गुरूणां कथयति-वैद्य आगच्छतीति। ततो गुरुवो द्वे आसने तत्र साधुभिः स्थापयन्ति। स्वयं चहक्रमणलक्ष्येण पूर्व वैद्यागमाभावात् प्रागेवोत्थायँ स्थिता आसते, गीतार्थश्चाभिवेदायितव्यम्-एष वैद्य इति आचार्यश्च व पूर्वमनालपतोऽपि वैद्यस्याभिलाप कर्तव्यः / पूर्वन्यस्तेन चासनेनोपनिमन्त्रणीयः / तत्र आचार्यो वैद्यश्च द्वावप्यासने उपविशतः, ततो ग्लानस्य दर्शना कार्या। कथमिति ? आहग्लानस्य यदुपकरणे शरीरे वा अशुचिनोपलिप्तं तस्य धावनं प्रक्षालनं कर्त्तव्यं, चशब्दात् खेला कायिकीसंज्ञामात्रकाण्यैकान्ते स्थापनीयानि, भूमिकाय उपलेपनं सन्मार्जनं च विधेयम् / तथापि यदि दुर्गन्धो भवति ततः। पटकवासादिचूण्णादि तत्र विकीर्यते, आदिशब्दात् कर्पूरादिभिः सुगन्धिद्रव्यैः अशुभो गन्धोऽपनीयते, ततः प्रावृतशुष्कवासाः शुचीभूतो ग्लानो वैद्यस्य दय॑ते / यदि तस्य किञ्चिद्धोणादकं पाटयितव्यं तदा तस्मिन्पाटिते सति उष्णोदकादिप्राशुकं हस्ते दातव्यम् / अथोष्षेदकमसौ नेच्छति ततः पश्चात्कृतादयो मृत्तिकामुदकं वा प्रयच्छन्ति। गतमभ्युत्थानासनदर्शनाद्वारत्रयम्। (30) अथ भद्रकद्वारमाहचउपादाय तिदिच्छा, को भेसजाइ दाहिई तुन्भं / तहियं च पुथ्वपत्ता, भणंति पच्छाकडा अम्हे / / वैद्यो ब्रूयात्-चिकित्सा चतुष्पादा भवति / चत्वारः पादाश्चतुर्था शरूपा यस्यां सा चतुष्पादा। तद्यथा-आतुरः, प्रतिचरको, वैद्यो भेषजानि / अतः को नामास्य योग्यानि भेषजानि युष्माकं प्रदास्यति? ततस्तत्र दत्तसङ्केततया पूर्वाप्राप्ताः पश्चात्कृताइयो
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy