________________ गिलाण 885 - अभिधानराजेन्द्रः - भाग 3 गिलाण कालन्नू देसन्नू, तस्साणुमए अपेसिञ्जा। वैद्येन दीयमानमुपदेशं ये झगित्येवावबुध्यन्ते, न चिरादपि विस्मारयन्ति, ते अवग्रहधारणाकुशला: तान्तथा दक्षान् शीघ्रकारिण: परिणामकान्यथास्थानमपवादपदपरिणमनशीलान् प्रियधर्मणो धर्म श्रद्धालून, कालज्ञान् वैद्यान्तेिके प्रविशतो य: काल: प्रस्तावस्तद्वेदिनो, देशज्ञान् यत्र प्रदेशे वैद्य उपविष्टस्तंप्रशस्तमप्रशस्तं वा ये जानते, तान्, तथा तस्य ग्लानस्य वैद्यस्य वा ये अनुमता अभिप्रेतास्तान् वैद्यसकाशं प्रेषयेत्। अत्रैव व्यतिरेकप्रायश्चित्तमाहएअगुणविप्पमुक्के, पेसिंतस्स चउरो अणुघाया। गीयत्थे हिय गमणं, गुरुगा य अमेहि ठाणहिं।। एते अवग्रहधारणाकुशलत्वादयो ये गुणास्तैर्विमुक्तान् प्रेषयत आचार्यस्य चत्वारो अनुद्घाताः प्रायश्चित्तम् / गीतार्थश्च तत्रागमनं कर्तव्यं, चतुर्गुरुकाश्च प्रायश्चित्तमेभिर्वक्ष्यमाणैर्मन्तव्यम्। (२३)तान्येवाभिधित्सु प्रमाणोपकरणद्वारद्वयमाहएक्कग दुगं चउकं, दंडो दूया तहेव नीहारी। किण्हे नीले मइले, चोल रय निसज्ज मुहपत्ती / / यद्येकः साधुवैद्यसमीपे प्रेष्यते ततः स वैद्ये यमदण्डोऽयभागत इति दुर्निमित्तं गृह्णीयात् अथ द्वौ प्रेष्यते ततो यमदूताविवतौ मन्येत, अथ चत्वारः प्रेष्यन्ते, ततो नीहारिण: शवस्य स्कन्धदायिनो अमी इति मनुष्यात्, एतावतां च प्रषणे चतुर्गुरुकम्। उपकरणद्वारे यदि कृष्णं नीलं मलिनं वा, उपकरणं चेह चोलपट्टको रजोहरणं निषधाद्वयोपेतं मुखवस्त्रिका, उपकरणत्वादौर्णिकसौत्रिकौ च कल्पविति मन्तव्यम् , ततः शुद्धं श्वेतं चोपकरणं गृहीतव्यम्। (24) अथ शकुनद्वारमाहमइल कुचेले अब्म-गीयल्ल एसण खुज वडभे य। कासायवत्थ उद्ध-लिया य कजं न साति॥ नंदी तूरं पुण्णस्स दसणं संखपडहसदो य / निगासछत्तचामर, एमादीइं पसत्थाई॥ अनयोगिया प्राग्वत्आवणामाइएK, चाउम्मासा हवंतऽणुग्घाया। एवं ता वचंते, पत्ते य इडे भवे दोसा॥ आपतनं द्वारादौ शिरसो घट्टनम्, आदिशब्दात्प्रपतनं, प्रस्खलनं वा संजातम् / अपरेण वा वस्त्रादौ गृहीत्वा पञ्चान्मुख आकृष्टः, कुत्र वा व्रजसीत्यादि भणितः, गच्छ तमेव वा केनापि कृतम् / एवमादिषु अपशकुनेषुसंजातेषु यदि गच्छतितदा चत्वारोमासाअनुदाता भवन्ति, एवं तावद्वजतोमन्तव्यम्। अथवैद्यगृहं प्राप्तस्तत इमे दोषा: परिहर्तव्या भवन्ति / (25) तानेव प्रतिपादयन्व्यापारद्वारमाहसाडन्मंग उवट्टण, लोय छारुकुरुडे छिंदभिदंतो। सुहआसणरोगविहिं,उवएसो वा वि आगमणं / / एकशाटकपरिधानो यदा वैद्यो भवति तदा प्रष्टव्यः, एवं तेलादिना अभ्यङ्गन, कल्कलोध्रादिनोद्धर्तनं, लोचकर्म वा कूर्चमुण्डनादि कारयेत् क्षारस्य भस्मनः, उत्कुरुटकस्य कचवरपुञ्जकस्य, उपलक्षणत्वाद् दुसादीनां वा समीपे स्थितः, स्फोटकादिना वा दूषितं कस्याप्यङ्गं छिन्दानो घटमलाबुकं वा भिन्दान: शिराया वा भेदं कुर्वाणो न प्रच्छनीयः / अथ ग्लानस्यापि किञ्चित् छेत्ततव्यं, भेत्तव्यम्, ततः छेदनभेदनयोरपि प्रष्टव्यः / अथासौ शुभासने उपविष्टो रोगाविधिं वैद्यशास्त्रपुस्तकं प्रसन्नमुख: प्रलोकयति, अथ वा रोगविधि: चिकित्सा, तां कस्यापि प्रयुञ्जान आस्ते, ततः प्रष्टव्यः। स च वैद्य: पृष्टः सन्नुपदेशं वा दद्यात्, ग्लानसमीपे वा आगमनं कुर्यात्। (26) अथ सङ्गारश्च गृहिणामितिद्वारं व्याख्यानयतिपच्छाकडे य सन्नी, दंसणगहा भद्द दाणसड्ढे य। मिच्छहिट्ठी संबंधिए अपरतित्थिए चेव // पश्चात्कृतश्चारित्रं परित्यज्य गृहवासं प्रतिपन्नः, संज्ञी गृहीताणुव्रतः, दर्शनसंपन्नो अविरतसम्यग्दृष्टिः, तथा भद्रकः सम्यक्त्वरहितः परं सर्वज्ञशासने, साधुषु च बहुमानवान्, दानश्रद्धो दानरुचिः, मिथ्यादृष्टिः शाक्यादिशासनस्य, संबन्धी स्वजन: परतीर्थिकः सरजस्कपरिव्राजकादिः, एतेषां संकेत: क्रियते / यथा-वैद्यस्य पार्श्व वयं गच्छामो भवद्भिस्तत्र संनिहितैर्भवितव्यम्। यदसौ ब्रूयात् तत् युष्मातिः सर्वमपि प्रतिपत्तव्यम्। ये वैद्यदसमीपे प्रस्थापितास्ते वैद्यस्येदं कथयन्तिवाहि नियाण विकारं, देसं कालं वयं च धातुंच। आहार अग्गि घिइबल, समुइंच कहिंति जा जस्स // व्याधिं ज्वरादिरोग, निदानं रोगात्थानकारणं, विकारं प्रवर्धमानरोगविशेष, देशं ग्लानत्वोत्पत्तिनिबन्धप्रवातादिप्रवेशं, कालं रोगोत्थानसमयं पूर्वाह्नादिके, वयश्च तारुण्यादिकं, धातुं च वातादीनां धातूनामन्यतो य उत्कटस्तम्, आहारमल्पभोजित्वादिलक्षणम, अग्निबलं जाठरो वह्निरस्य मन्द: प्रबलो वा, इत्येवं धुतिबलं सात्विकः, कातरो वा इत्येवं, तथा (समुइ त्ति) प्रकृतिः, साचया यस्य जन्मतः प्रभृति, तांच कथयन्ति। (27) वैद्यस्य उपदेशद्वारम्कलमोदणे उ खीरं, ससकर तूलिइया दवे / भूतिघरेहग खेत्ते, काले अडुगीइ वेलाए / / इच्छाणुलोम भावे, न य तस्स हिया जहिं भवे विसया। अहव ण दित्तादीसुं, पडिलोमा जा जहिं किरिया।। अनन्तरोक्तव्याधिनिदानादि श्रुत्वा वैद्यः स्वगृहस्थित एव द्रव्यादिभेदाच्चतुर्विधमुपदेशं दद्यात्। तद्यथा-द्रव्यतः कलमशालेरोदनं, तथा क्षीरं च सशर्करमस्य दातव्यं, तथा तूलिकायां शाययितव्य:, आदिशब्दात् गोशीर्षचन्दनादिना विलेपनीय इत्यादि। क्षेत्रतो भूमिगृहे, पक्केष्टकागृहे चाऽयं स्थापनीयः, कालतोऽमुकस्यां वेलायां प्रथमप्रहारादौ भोजनमयं कारणीयः; भावतो यदस्य स्वकीयाया इच्छाया अनुलक्षेपम-नुकूलं तदेव कर्त्तव्यं, नास्याऽऽज्ञा कोपनीया / तथा यत्र तस्यग्लानस्य विषया अहिताः अनिष्टाः क्रन्दितविलपितादिरूपा गीतवादित्रगोचरावा शब्दादयो न भवन्ति, तत्र स्थापनीय इति शेषः / (अह च ण त्ति) अथ वा-दृप्तादिषु दृप्तचित्तप्रभृतिषु प्रतिलोमा क्रिया कर्तव्य, तत्र दृप्तचित्तस्यापमानना, यथा-अपमानादिनाs