________________ एसणा 67- अमिधानराजेन्द्रः - भाग 3 एसणा न भक्षणाय प्रधाबिता गृहगोधिका गृहगोधिकाया अपि विघाताय चलितः सरटः तस्यापि च भक्षणाय प्रधावतिस्म मार्जारी तस्या अपि च वधाय प्रधावितः प्राघूर्णकःश्वातस्यापि च प्रतिद्वन्द्वी प्रधावितोऽन्यो वास्तव्यश्वा ततो द्वयोरपितयोः शुनोरभूत्परस्परं कलहस्ततः स्वस्वसारमेयपराभवदूरनमस्कृतयोः प्रधावितयोर्द्वयोरपि तत्-स्वामिनोरभूत्परस्परं महद्युद्धम् / एतच सर्व वारत्तकामात्येन परिभावितं ततश्चिन्तयति स्वचेतसिघृतादेविन्दुमात्रेऽपि भूमौ निपतिते यतः एवमधिकरणप्रवृत्तिरत एवाधिकरणभीरुभगवान् घृतविन्दु भूमौ निपतितमवलोक्य भिक्षां न गृहीतवान् / अहो सुदृशे भवति प्राप्तधर्मा को हि नाम भगवन्तं सर्वज्ञमन्तरेणेत्थमनपायिनं धर्ममुपदेष्टुमीशो न खल्वन्धो रूपविशेष जानाति / एवमसर्वज्ञोऽपि नेत्थं सकलकालमनपायं धर्ममुपदेष्टुमलम्। तस्माद्भगवानेव सर्वज्ञः / एवं च मे जिनो देवता तदुक्तमेव वाऽनुष्ठानं मयाऽनुष्ठा-तव्यमित्यादि विचिन्त्य संसारविमुखज्ञो मुक्तिवनिताश्लेषसुखलम्पटसिंह इव गिरिकन्दरया निजप्रसादाद्विनिर्गत्य धर्मघोषस्य साधोरूपकण्ठं प्रव्रज्यामग्रहीत् / स च महात्मा शरीरेऽपि निःस्पृहो यथोक्तभिक्षाग्रहणा दिविधिसेवी संयमानुष्ठानपरायणः स्वाध्याये भावितान्तःकरणो दीर्घकालं संयममनुपाल्य जातप्रततकर्मा समुच्छलितदुर्निवार्यप्रसरः क्षपकश्रेणिमारुह्य धातितकर्मचतुष्टयं समूलघातं हत्या केवलज्ञानलक्ष्मीमासादितवान्, ततः कालक्रमेण सिद्ध इति। उक्तमेषणाद्वारम्। पिं०॥धादर्श० ग०।पं०व०॥ पंचा०ा महा० / स्था०। आचा०प्रव०। (एषणायाःशङ्कितादयोदशदोषास्तेचाचाराने पिण्डाधिकारे एवैषणादोषमधिकृत्यो-तास्ते च गोयरचरियाशब्दे व्याख्यास्यन्ते) (6) एतेषां शङ्कितादिदोषाणामपि बहुभेदत्वं यथा शङ्कितं शङ्कितदोषः अत्र चत्वारो भेदाः शङ्कितग्राही शङ्कितभोजी निशङ्कितग्राही शङ्कितभोजी 2 शङ्कितग्राही निःशङ्कितभोजी 3 निःशङ्कितग्राही निश्शङ्कितभोजी 4 मेक्षितं द्वेधा सचित्ताचित्तम्रक्षितं वा। आद्यं त्रिधा पृथिव्यव्वनस्पतिभेदात्। ततः पृथिवीम्रक्षितं चतुर्की सरजस्कं सचित्तं पृथिवीरजोगुण्ठितं तच तन्मक्षितं च सरजस्करक्षितं मिश्रसचित्तासचित्तरूपः कर्दमस्तेन म्रक्षितं मिश्रकर्दममक्षितं मिश्रोऽपरिणतसचेतनकर्दमस्तेन मृक्षितमिति मिश्रकर्दमम्र क्षितम् / ऊषमृत्तिका हरितालहिङ्कुलकास्ततः शिलाञ्जनलवणगैरिकाश्चेत्यादिका ऊषरकादि पृथ्वीकायम्रक्षितं च अप्कायम्रक्षितंपुरःकर्म पश्चात्कर्मसस्निग्धोदकार्द्ररूपंचतुर्भेदंदानात्पूर्व हस्तमात्रकायक्षालने पुरःकर्म दानानन्तरं क्षालने पश्चात्कर्म सम्निग्धमीषदुदकयुक्तमुदकामुदकविन्दुयुक्तम् / वनस्पतिम्रक्षितं द्विधा प्रत्येकानन्तभेदात् प्रत्येकं म्रक्षितं त्रिधा पृष्टं आमं तन्दुलक्षोदविकुकुसा प्रतीता उत्कृष्टकलिङ्गाम्रवालुक्या-दिफलागदीनां शुक्लीकृतानि खण्डानि अम्लिकापत्रसमुदायो वा ऊदूखलखरण्डितैक्षितं प्रत्येकवनस्पतिम्रक्षितं कुट्टितानन्तम्रक्षितं द्वितीयस्य पश्यतोऽपि भावापरिणतवेन / गृहीतभावापरिणतं तु अनन्तक्षितम् अचित्तम्रक्षितं द्विधा गर्हितागर्हितभेदात् गर्हि-तैमा सवसाशोणितसुरामूत्रोच्चारादिभिः शिष्टजनस्याभक्ष्या-पेयैक्षितं गर्हिताचित्तम्रक्षितम् संभजन्ति विगलन्ति सले-पत्वात्कीटिकामक्षिकादयो येषु दध्यादिषु तानि संसक्तानि तैः 1 अगर्हितैरचित्तैम्रक्षितमर्हितसंसक्ताचित्तमूक्षितं २निक्षिप्तं सचित्तादौन्यस्तं 3 पिहितं सचित्तादिभिः स्थगितं 4 संहृतं येन हस्तमात्रा कणदात्री साधोरशनादिकं दास्यति तत्र शिष्यादिकं वा यदि स्यात्तदन्यत्र सचित्तेऽचित्ते वा क्षिप्त्वा तेन यद्ददाति तत्संहृतं 5 दायकदोषा बालादिभिर्दीयमाने 6 उन्मिभंसचित्तादिभिर्मिश्रितम्७। अपरिणतं द्वेधा द्रव्यभावभेदात् तत्र सचितं वस्तु दीयमान द्रव्यापरिणतं भावापरिणतं द्विधा दातृग्रहीतृभेदात् द्वयोः साधारणेऽन्नादावेकेन दीयमाने द्वितीयस्य भावोऽपरिणतो न दानपरिणामवान् तद्दातृभावापरिणतम् / अत्राह अनिसृष्टस्य भावापरिणतस्य चको विशेषः। उच्यते द्वितीयादीनां परोक्षमेकस्याददतो निसृष्टं भवति भावापरिणतं तु यत्र द्वयोः साध्वोर्भिक्षार्थ गतयोरेकस्य मनसि तदन्नादिकमशुद्धं परिणतम् अन्यस्य च तदेव शुद्धमिति 8 / लिप्त० दोषः दध्याद्युपलिप्तेन हस्तेन मात्रकेण चान्नादिषु ग्रहणे पश्चात् कर्मादिसंभवात् तथाचोक्तम् "चित्तव्वभिलेवकड-माहु पुरकम्मपच्छकम्माइनय रसगेहि पयं, सामुत्ते वत्तपीडाय"छर्दितम् दीयमानस्यान्नादेः पृथ्वीकायादिसंसत्कादि छर्दितम् 10 // जीत०। ग्रासैषणानिक्षेपे ग्रहणैषणां प्रतिपाद्योक्तम् / साप्रतं ग्रासैषणाउच्यते तथाचाह। दवे भावे घासे-सणा उदव्वम्मि मच्छआहरणं / गलमंसुंडगभक्खण, गलस्स पुच्छेण घट्टणया 815 / साच ग्रासैषणा द्विविधा द्रव्यतो भावतश्च तत्र द्रव्यतो भत्-स्योदाहरणम् "एगो किलमच्छबन्धोगुले मंसापिडं दाऊण दहेछड्डुति तंचएगो मच्छो जाणइ जहा एस गलो ति सो परिसरं तेण मंसं खाइ जेण ताहे पराहुतो घेप्पए गलमाहणइ मच्छबंधो जाणइएस गहिओत्ति। एवं तेण सव्वं खइयं मंसं सा य मच्छबंधो खइएण मंसेण अहिए लट्ठो अत्थइ तत्थ आहरणं दुविहं चरियं कप्पियं च। तं च मच्छबंधं ओहयमणसंकप्पं झायंतं दट्ठु मच्छो भणइ अहं पडत्तो चरतो गहिओवलाए गाहे ताएयहे सा उक्खित्ता पच्छा गिलइ ताहे अहं वा कातीसमूह पडिओ एवं विइयं पि तिइयं पि उग्गलित्तो ताहे मुक्को अनया समुद्दे अहं गओ तत्थ मच्छबंधा बलया महाइ करेंति कडएहिं ताहे समुद्दवेलापाणिएणं सह अहं तत्थ वंकीकए कडे पविट्ठो ताहे तस्स कडगस्स अणुसारेण अतिगतो एवंति निराबलया मुहाओ मुक्को जालतो एक्कवीसं वाराउ फिडिओ किहि पुण जाहे जाले बूड भवति ताहे हं भूमिं घेत्तूण अच्छामि तहा एक्कम्मि जिन्नोदयम्मि दहे अत्थिया अम्हे किं कह विण मायं जहा एसो दहे सुक्किहित्ति ताहे सो दहो सुक्को मच्छाणं धले गती णत्थि ते सव्वे सुक्कंते पाणिए मया केइजीमंति तत्थ कोइ मच्छबंधो आगओ सो हत्थेण गहाय सूलए पोएत्ति ताहे मएणं तेतं अहं पि अचिरा विज्झाहामि जाव ण विज्झामि ताव उवायं चिंतेमि ताहे तेसिं मच्छाणं अन्तरालं सूलं मुहे गहिऊण ठिओ सोजाणइएए सव्वे पोइल्लयासो गंतूण अन्नाहिं दोहंधोवइ।तत्थ अहं मच्छ्यं घयं करेंतो वे बुड्डाणोपाणिएपविट्ठोतंएयारिसं मनसत्तं च हाविइच्छसि गलेधित्तुं अहो ते निल्लज्जत्तणति" ओघ०॥ (7) विस्तरेण ग्रासैषणा निक्षेपादिकं तत्र। संयोजनादीनिद्वाराणिवक्तव्यानितानिच ग्रासैषणारूपाणीति प्रथमतो ग्रासैषणाया निक्षेपमाह। नामंठवणा दविए, भावे घासेसणा मुणेयवा। दव्वे मच्छाहरणं, भावम्मि य होइ पंचविहा।। ग्रासैषणा चतुर्दा / तद्यथा नामग्रासैषणा स्थापनाग्रासैषणा द्रव्ये