________________ गिलाण 582- अभिधानराजेन्द्रः - भाग 3 गिलाण परितावणाइभावे, अप्पत्तियकूयणाईया। प्रथमां रात्रि परिवासयतश्चतुर्गुरुका:, द्वितीयां रात्रिमादौ कुत्या सप्तमी रात्रिभिश्चरमम् / तद्यथा-द्वितीयां रजनी परिवासयति षट् लघव:, तृतीयास्यांषट्गुरवः, चतुर्थ्यां छेदः, पञ्चम्यांमूलं, षष्ठ्यामनवस्थाप्यम्, सप्तम्यां पाराशिकम् / अथ भावनिष्पन्नमाह-"परितावणाइ" इत्यादि पश्चार्द्धम् / परितापनादिभावनिष्पन्नं मन्तव्यम्। तथा स परितापपित: सन्नप्रीतिकं करोति चतुलघु, कूजनं सशब्दाक्रन्दनम्, आदिग्रहणादनाथोऽहं, न किमप्यमी मह्यं प्रयच्छन्तीत्येवमुड्डाहं कुर्यात्ततश्चतुर्गुरुकम्। अथ परितापनादिपदं व्याख्यानयतिअंतो वहिं न लन्मइ, परितावणमहयमुच्छकिच्छकालगए। चत्तारि छच लहु गुरु, छेदो मूलं तह दुगं च // क्षेत्रस्यान्तर्बहिर्वा न लभ्यते इतिकृत्वा ग्लानस्यानागाढा परितापना भवति चतुर्लघु, आगाढपरितापनायां चतुर्गुरु, दुःखदुःखे षट्लघु, मूर्छामूर्छ षट्गुरु, कृच्छ्रमाणे छेद:, कृच्छ्रोच्चासे मूलं, समवहते अनवस्थाप्यं, कालगते पाराञ्चिकम् / एवं तावदाहारविषयमुक्तम्। अथोपधिविषयमभिधीयतेअंतो वहिं न लब्मइ, संथारगमहयमुच्छकिच्छकालगए। चत्तारि छच लहु गरु छेदो मूलं तह दुगं च / / अतिचमढिते क्षेत्र अन्तर्वा बहिर्वा संस्तारको न लभ्यते, ततो ग्लानस्थानागाढपरितापनादिषु चतुर्लधुकादिकं तथैव प्रायश्चित्तं द्रष्टव्यम्। अत्रपरिष्ठापत्तापदं समुद्धातपदं च गाथायां साक्षान्नोक्तं ततोमा भून्मुग्धविनेयवर्गस्य व्यामोह इतिकृत्वा साक्षादभिधानार्थमिमांगाथामाहपरितावमहादुक्खे, मुच्छामुच्छे य किच्छपाणगते। किचुस्सासे य तह, समुघ ए चेव कालगते॥ गतार्था / उक्तं लुब्धकद्वारम्। वृ०१ उ०ा नि०चू०। (18) अथानुवर्तनाद्वारमाह-- अणुयत्तणा गिलाणे, दवट्ठा खलु तहेव वेजहा। असतीइ अन्नओवा, आणेउं दोहि वी कुजा / / ग्लानप्रायोग्यं यत् भक्तपानादि द्रव्यं, स एवार्थः प्रयोजनं द्रव्यार्थस्तमुत्पादयद्भिग्लानस्यानुवर्तना कर्तव्या (तहेव वेजट्ठत्ति) तथैव वैद्यस्यार्थमुत्पादयद्भिग्ानस्यानुवर्त्तना विधेया / यदि स्वग्रामे द्रव्यवैद्ययोरभास्ततोऽन्यग्रामादपि द्रव्यवैद्यवानीय द्वाभ्यामप्यनुवर्तनां कुर्यात्। अथैनामेव गाथांव्यचिख्यासुराहजाचंते उ अपत्थं, भणंति जायाम तं न लब्मइ णे। विणियट्टणा अकाले, जा वेल न विंति उन देमो // ग्लानो यद्यपथ्यं द्रव्यं याचते ततः साधवो भणन्तिवये याचाम:, परं किं कुर्महे भवतामभिप्रेतं भूयो भूयः पर्यटद्भिरपि न लभ्यते ‘णे' अस्माभिः, इत्थं भणद्भिग्लनिोऽनुवर्तितो भवति। यद्वारलानस्याग्रतः पात्रकाण्युद्ग्रह्य प्रतिश्रयान्निर्गत्यापान्तरालपथाद्विनिवर्त्तनां प्रत्यागमनं कुर्वन्ति, तस्य | पुरमश्चेत्थंब्रुवते-वयं गता अभूम परंन लब्धम्, अकाले वागत्वा याचन्ते तेन न लभ्यते, अकाले च याचमानं ग्लानं वते-यावद्वेला भवति तावत्प्रतीक्षस्व, ततो वयमानीय दास्याम इति / न पुनर्ववते-न दद्यावयमिति। अथ क्षेत्रे ग्लानस्यानुवर्तनामाहतत्थेव अन्नगामे, वुच्छंतरऽसंथरंत जयणाए। संथरणेसणमादिच्छन्नं कडजोगि गीयत्थे। प्रथमतस्तत्रैव ग्रामे प्रायोग्यमन्वेषणीयम्, तत्र यदि न लभ्यते तदा अन्यग्रामेऽपि अथासावन्यनामो दुरतरस्ततो (वुच्छंतर त्ति) अन्तराले अपान्तरालग्रामे उषित्वा द्वितीये दिने आनयन्ति, अथैवमप्यसंस्तरण भवति, ततः (संथरंतजयणाद त्ति) अकारप्रश्लेषादसंस्तरतो ग्लानस्यार्थाय यतनया पश्चकपरिहाण्या गृह्णन्ति / अथ ग्लानार्थ व्यापूतानां परिचरकाणां संस्तरणं तत (एसण्माह त्ति) एषणादोषेषु, आदिशब्दादुद्रमादिदोषेषु च, पञ्चकपरिहाण्या यतितञ्यम् / अथ प्रतिदिवसंग्लानप्रायोग्यं न लभ्यते ततश्छन्नप्रकट कृतयोगी, गीतार्थी वा तत् प्रायोग्यं द्रव्यं परिवासयन्ति / यथाकर्णितक्ष्छेदश्रुतार्थः प्रत्युचारणासमर्थः कृतयोदी, यस्तुच्छेदश्रुतार्थं श्रुत्वा प्रत्युचारयितुमीश: सगीतार्थ उच्यते। एष द्वारगाथासमार्थः। अथैनामेव विववरीषुराहपडिलेह पोरसीओ, वि अकाउं मग्गणा उ सग्गामे। खित्तंतो तद्दिवस, असइ विणासे वतत्थ वसे / / अपिशब्द: संभावनायाम्, यदि सुलभं द्रव्यं ततः प्रत्युपेक्षणां, सूत्रार्थपौरुष्यौ च कृत्वा स्वग्रामे अनवभाषितस्य मार्गणा कर्त्तव्या, अर्थव नलभ्यतेऽतोऽर्थपौरुषीं हापयित्वा, यद्येवमपि नलभ्यते, तत: सूत्रपौरुषीं परिहाप्योत्पादनीयम् / अथ तथापिन लभ्यते, दुर्लभं वातत् द्रव्यं, ततः प्रत्युपेक्षणां, द्वे अपि च पौरुष्यौ अकृत्वा स्वग्रामे अनवभाषितं मार्गयन्ति, स्वग्रामे अनवभाषितं न लभ्यते, ततः क्षेत्रान्तः सक्रोशयोजन क्षेत्राभ्यन्तरे परनामे पौरुषीद्वयमपि कृत्वा अनवभाषितमुत्पादयन्ति; अत्राप्यर्थपीरुष्यादिहापना तथैव द्रष्टव्या / अथ तत्राप्यनवभाषितं न लभ्यते, ततः स्वक्षेत्रस्वग्रामयोरवभाषितमुत्पाद्यतदिव समानयन्ति, अथ स्वक्षेत्रे तद्विवसं न प्राप्यते, ततः परक्षेत्रादपि तद्दिवसमानेतव्यम् / अथ क्षेत्रबहिर्वतिनो यतो ग्रामादेरानीयते तत्र प्रत्यासन्नं, किं तु दूरतरं, न तद्विवसं न प्राप्यते, ततः परक्षेत्रादपि तद्दिवसप्रानेतव्यम् / अथ क्षेत्रबहिर्वर्ति प्रत्यायातुं शक्यते, विनाशि वा तद् द्रव्यं दुग्धादिकं ततः प्रत्यासन्न-ग्रामस्यासति, विनाशिनि वा द्रव्ये गृहीतव्ये अपराह्न गत्वा तत्र रात्रौ वशेत् उषित्वा च सूर्योदयवेलायां गृहीत्वा द्वितीये तत्रानयन्ति। अथ दवयितरं तत् क्षेत्रम्, अविनाशि द्रव्यं च, ततोऽपान्तरालग्रामे रजन्यामुषिता: सूर्योदये तत्र गत्वा तद् गृहीत्वा भूयः समागच्छन्ति। एतदेवाहखित्तवहिया व आणे, विसोहिकोडिं, तिन्नितो काढे। पइदिवसमभंते, कम्मं समइच्छिओठवए॥ क्षेत्रबहिर्वा गत्वा प्रथममनवभाषित ततोऽवभाषितं पूर्व तदिवसे अनन्तरोक्तया नीत्या यथायोगमानयेत् / एष विधिरेषणी