SearchBrowseAboutContactDonate
Page Preview
Page 907
Loading...
Download File
Download File
Page Text
________________ गिलाण ८५३-अभिधानराजेन्द्रः - भाग 3 गिलाण यविषयो भणितः / अथेषणीयेन नासौ ग्लान: संस्तरति ततः सक्रोशयोजनक्षेत्रस्यान्तः स्वग्रामपरग्रामयोः पञ्चकपरिहाण्या तदप्राप्तौ क्षेत्रबहिरपि पञ्चकपरिहाण्या तद्दिवसंग्लानप्रायोग्यमुतदयन्ति। एवं यदा प्रायश्चित्तानुलोम्येन क्रीतकृताभ्यां हृतादिकं विशेधिकोटिमतिक्रान्तो भवति, तदा (काढे त्ति)ग्लानप्रायोग्यमौषधादिकमन्येन स्वयं वा यतनया क्वायेत् / एवं प्रतिदिवसमलभ्यमाने यदा आधाकर्मापि समतिक्रान्तः, तदपि तदिवसं न प्राप्यत इत्यर्थः। ततो विशुद्धमविशुद्धं वा ग्लानप्रायोग्य द्रव्यमुत्पाद्य स्थापयेत् परिवासयेत्, ये तु ग्लानस्य प्रतिचरकास्ते यदि ग्लानकार्यव्यापृता: परक्षेत्रं वा व्रजन्तः स्वार्थमहिममाना न संस्तरन्ति, तत एषणादिदोषेषु पञ्चकपरिहाणियतनया गृह्णन्ति। यत्तु ग्लानार्थं परिस्यते तत् कीदृशे स्थाने स्थाप्यते इति? आहउव्वरगस्स उ असती, चिलिमिलि उभयं च जह व नो पासे। तस्सऽसइ पुराणादिसु, ठविंति तद्दिवस पडिलेहा। कृतयोगिना, गीतार्थेन वा तदन्यस्मिन् गृहापवरके स्थापनीयम्। अथ नास्ति पृयगपवरकः, ततो वसतावेव योऽपरिभोव्यकोणकस्तत्र चिलिमिलिकयाआवृत्त्य उभयंग्लानागीतार्थलक्षणं यथा न पश्यति तथा स्थाप्यम्, यदि ग्लानस्तत्पश्यति तदा स यदा तदा तस्याभ्यावहारं कुर्यात् / अगीतार्थस्य तु तत् दृष्ट्वा विपरिणामत्ययादयो दोषा भवेयुः / (तस्सऽसइत्ति) तस्या परिभोग्यस्थानस्याभावे पुराण: पश्चात्कृतः तस्य गृहे,आदिशब्दात् मातापित्रसमानेषु स्थापयन्ति, तस्य च तदिवस प्रत्युपेक्षणा कर्तव्या। तदिवसं नाम प्रतिदिनम्। यदुक्तं देश्याम्-"तदिवसं अणुदिअहे इत्तिअए अण्णे उ दोहि वी कुञ्जा।" इत्यस्य व्याख्यानमाहफासुगमफसुगेण च, अचित्तेतर परित्तऽणंतेणं। आहार तद्दिणेतर, सिणेह इयरेण वा करणं / / प्राशुकेन, अप्राशुकेन वा, अचित्तेन, इतरेण वा सचित्तेन, अनन्तेन व, आहारेण अनाहारेण वा तदैवसिकेन, इतरेण वा परिवासितेन, सस्नेहेन, इतरेण वा अस्नेहेन, ग्लानस्य चिकित्साया: करणमनुज्ञातम् / गता ग्लानानुवर्त्तना। बृ०१ उ०। कल्पा ओघा पु०चू०। (१६)अथवैद्यानुवर्तनामभिधित्सुः प्रस्तावना रचयन्नाहविजं न चेव पुच्छइ, जाणंता विंति तस्स उवदिटुं। पिलगाइएसु च तहा अजाणगा पुच्छए विजं // ग्लानो ब्रूयात यूथं वैद्यं नैव पृच्छथ, आत्मच्छन्देनैव प्रतिचरणं कुरुथ। ततो यदि ते साधवो जानन्त: चिकित्सायां कुशलास्ततो ब्रुवन्तिअस्माभिवैद्य: प्रागेव पृष्टस्तस्यैवायमुपदेश इति। यद्वा-प्रतिश्रयन्निर्गत्य कियन्तमपि भूभोगं गत्वा मुहूर्त्तमात्रं तत्र स्थित्वा समागत्य ब्रुवते अयं वैद्यनोपदेशो दत्त इति। पिलगंगण्डकः, आदिग्रहणेन शीतलिका, दुष्टवातो वेत्यादिपरिग्रहः / एतेष्वपि यदि ज्ञास्ततः स्वयमेव कुर्वन्ति, अथाऽज्ञास्ततो 'विजं वैद्यं पृच्छन्ति। अत्र शिष्यः पृच्छति किह उप्पन्नों गिलाणो, अट्ठम उण्होदगाइया वुड्डी। किंचि बहु भागमद्धे, आमे जुत्तं परिहरंते // कथं केन हेतुना ग्लान उत्पन्न इति? सूरिराह-भूयांस: खलु रोगातङ्का यद्वशाद्ग्लानत्वमुपजायते, "तच्छुष्यत् त्रीणिशुष्यन्ति, चक्षुरोगो ज्वरो व्रण.'' इति वचनात्। यदि ज्वरादिको विशेषेण साध्योऽन्यरोगतः ततो जघन्येनाप्यष्टमं कारयितव्यः। यच यस्य रोगस्य पथ्य तत्तस्य कार्यम्। यथा-वातरोगिणो घृतादिपानं, पित्तरोगिण: शर्कराधुपयोजन, श्लष्मरोगिणो नागरादिग्रहणमिति। (उण्होदगाइया बुड्डि ति) उपवासं कत्तुंमसहिष्णुर्यदिरोगेणामुक्तः पारयति, तत एष क्रम:-उष्णोदकं प्रक्षिप्य कूरसिक्यानि अमिलितानि, ईषन्मिलितानि वा सप्त दिनानि, एकं वा दिनं दीयते, ततः किञ्चित् उष्णोदकेन मधुरोल्ल्वणं स्तोक प्राक्षिप्य तेन सहौदनं द्वितीये द्वितीयसप्तके दिने वा दीयते, एवं तृतीये (बहुत्ति) बहुतरं मधुरोल्ल्वण उष्णोदके प्रज्ञिप्य दीयते / (भागि ति) चतुर्थे त्रिभागो मधुरोल्ल्वल्लवणस्य, द्वौ भागावुष्णोदकस्य (अर्द्ध त्ति) पञ्चमे अर्द्ध मधुरोल्ल्वणस्य, अर्द्धमुष्णोदकस्य / षष्ठ(ओमे)त्रिभाग उष्णोदकस्य, द्वौ भागो मधुराल्ल्वणस्य, सप्तमे सप्तके दिने वा युक्तं किञ्चिन्मात्रं उष्णोदकं, शेषं तु सर्वमपि मधुरोल्ल्वणमित्येवं दीयते / तदनन्तरं द्वितीयाङ्गै रपि सहापथ्यान्यवगाहिमादीनि परिहरन् समुद्दिशति यावत्पुरातनमाहारं परिणमथितुं समर्थः सपन्नः, एषा उष्णोदकादिवृद्धिर्द्रष्टव्या / इह च सर्वोऽप्येकदिनं बृहद्भाष्याभि-प्रायेण, दिनसप्तकं तु चूर्ण्यभिप्रायोणेति मन्तव्यम्। . अथ'अट्ठम त्ति' पदं व्यख्यानयन्नाहजाव न मुक्के ता अण-सणं तु मुक्के विऊ अभत्तट्ठो। असहुस्स अट्ठ छटुं, नाऊण रुथं च जं जोंग्गं / / यावदसौज्वरचक्षुरोगादिना रोगेण नमुक्तस्तावदनशनम-भक्तार्थलक्षणं कर्तव्यं, मुक्तेनाऽपि चैकं दिवसमभक्तार्थो विधेयः / अथासावसहिष्णुस्ततोऽष्टमं वा षष्ठं करोति, ज्ञात्वा रुजं रोग विशेषं यदेव योग्य शोषणमशोषण वा तत्र कार्यम्, यद्येवं कुर्णिनासौ रोग दपशाम्यति ततः सुन्दरम्। (20) अथ नोपशाम्यति ततः को विधिरिति? आहएवं पि कीरमाणे, विजं पुच्छे अठायमाणम्मि। विजाण अट्टगं दो, अणिड्डि इड्डिअणिड्डियरे॥ एवमपि क्रियमाणे यदि रोगो न तिष्ठति नोपशाम्यति ततस्तस्मिन्नतिष्ठति वैद्य पच्छन्ति। अथ कियन्तो वैद्या भवन्तीति? आह-वैद्याना एतच्चाष्टकं मन्तव्यं, तत्र द्वौ वैद्यो नियमादनृद्धिको ऋद्धिरहितो, इतरे षट् वैद्या ऋद्धिमन्तोऽनृद्धिमन्तो वा। तदेव वैद्याष्टकं दर्शयतिसंविग्गमसंविग्गे, दिलुत्थे लिंगि सावए सण्णी। अस्सण्णि इड्डि गइरा-गई य कुसलेण तेदिच्छं। संविग्न उद्यतविहारी 1 असं विग्नस्तद्विपरीत: 2, लिङ्गविशेषमात्र: 3, श्रावक: प्रतिपन्नाणुव्रतः 4, संज्ञी अविरतसम्यदृष्टिः 5, असंज्ञी मिथ्यादृष्टि : 6 / स च त्रिधा-अन्येन गृहीतमि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy