________________ गिलाण 881 - अभिधानराजेन्द्रः - भाग 3 गिलाण एवं ग्लान संबन्धि यल्लक्ष्यं मिषं तेन तत्र संस्थिताः सन्तः प्राघूर्णका इतिकृत्वा लोकादुत्कृष्ट स्निग्धमधुरद्रव्यं लभन्ते। अथन स्वयं लोकः प्रयच्छति, ततो मार्गयन्तः प्राघूर्णका वयमिति मिषेण च संभाषणास्तान क्षेत्रं चमढयन्ति। चमढिते च क्षेत्रे ग्लानप्रायोग्यं न लभ्यते, ततस्तेषामियं चतुर्विधा आरोपणा कर्तव्या। तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च / (16) प्रायश्चित्तम्। तत्र द्रव्यतस्तावदाह - फासुगमफासुगे वा, अचित्तचित्ते परित्तऽणंते या असिणेह सिणेहकए, अणहाराहार लहु गुरुगा।। क्षेत्रोद्वेजनादोषेण ग्लानप्रायोग्यमलभमाना यदि प्राशुकमवभायन्ते, परिवासयन्ति वा, ततश्चत्वारो लघुकाः, अप्राशुकडवभायन्ते, परिवासयन्ति वा, ततश्चत्वारो गुरुका: / इह च प्राशुकडेयणीयमप्राशुकडनेषणीयम्। आह च निशीथचूर्णिकृत्-इह फासुगं एसणिज्ज'। अचित्तं अवभाष्यमाणे, परिवास्यमाने वा चतुर्लघु, सचित्ते चतुर्गुरु, एवं परीते चतुर्लघु, अनन्तके चतुर्गुरु, अस्नेहे चतुर्लघु, सस्नेहे चतुर्गुरु, अनाहारे चतुर्लघु, आहारे चतुर्गुरु। उक्तं द्रव्यनिष्पन्नं प्रायश्चित्तम्। अक्षेत्रेनिष्पन्नमाह लुद्धरूयऽमंतरतो, चाउम्मासा हवति उग्घाता। वहिया य अणुग्गया, दव्वालंभे पसज्जया // उत्कृष्टद्रव्यलोमेन क्षेत्रमुद्वेजयतोलुब्धस्य क्षेत्रभ्यन्तरतो ग्लानप्रायोग्ये अलभ्यमाने चत्वारो मासा उद्धाता: / क्षेत्रस्य बहिरलभ्यमाने एवं चत्वारो मासा अनुद्धाता गुरवः / अत्रच ग्लानप्रायोग्यस्य द्रव्यस्यालाभे प्रसज्जना प्रायश्चित्तस्य वृद्धिः प्राप्नोति। कथमित्याहखेत्तवहि अद्धजोअण, वुड्डी दुगुणेण जाव बत्तीसा। चउगुरुगादी चरिडं, खित्त.....................|| क्षेत्रादहिरड़योजनं गत्वा ततो यदि ग्लानप्रायोग्यं द्रव्यमान यति तदा चतुगुरुवः / एवं योजनादानयति षट् लघवः। योजनद्वयादानयति षड् गुरव: / योजनचतुष्टयादानयति छेद: योजनाष्टकादानयति तदा मूलम् / योजनषोडशकादानयति अनवस्थाप्यम् / द्वात्रिंत् योजनानि गत्या ग्लानप्रायोग्यमानयति पाराञ्चिकम् / अत एवाह-क्षेत्रबहिरर्द्धयोजनादारभ्य द्विगुणेन परिमाणेन क्षेत्रस्य वृद्धिस्तावत् कर्तव्या यावद् द्वात्रिंशद्योजनानि / एषु च चतुर्गुरुकादिकं चरम पाराशिक यावत्प्रायश्चित्तम्। इत्थं क्षेत्रविषयं प्रायश्चित्तमुक्तम्॥ बृ०१ उ०। (17) सचित्ताऽचित्तचिकित्सातिविहे तेगिच्छम्मी, उज्जुय वाउलणसाहणा चेव। पण्णवणमणिच्छंते, दिलुतो भंडिपोएहिं / / त्रिविधे त्रिप्रकारे आचार्योपाध्यायभिक्षुलक्षणे विचिकित्स्ये चिकित्स्यमाने, गीतार्थे इति गम्यते। ऋजुकं स्फुटमेव, व्यापृतनसाधना व्यापृतक्रियाकथनम् / इयमत्र भावना-आचार्याणामुपाध्यायानां गीतार्थानां च भिक्षूणां चिकित्स्यामानानां यदि शुद्ध प्राशुकमेषणीयं न लभ्यते, तदा न तत्र विचारः / अथ प्राशुकमेषणीयं न लभ्यते, अथवा अवश्यं चिकित्सा कर्त्तव्या, तदा अशुद्धमप्यानीयते, तथाभूतं चानीय दीयमानं स्फुटमेव कथनीयम्-इदमेवभूतमिति गीतार्थत्वेनापरिणाम दोषस्य चासभवात्। अगीतार्थस्य पुनर्भिक्षो: शुद्धालाभे चिकित्सामशुद्धन कुर्वन्तो मुनिवृषभा यतनया कुर्वन्ति, नचाऽऽशुद्धं कथयन्ति। यदि पुनः कथयन्ति, अयतनया वा, तदा सोऽपरिणामित्वात् अनिच्छन् अनागाढादिपरितापनमनुभवति, तन्निमित्तं प्रायश्चित्तमापतति मुनिवृषभाणाम् / यदा अतिपरिणामतया सोऽतिप्रसङ्गं कुर्यात् तस्मान्न कथनीयं, नाप्ययतना कर्तव्या / अथ कथमपि तेनागीतार्थेन भिक्षुणा ज्ञातं भवति। यथा-अकल्पिकमानीय मह्यं दीयते, तदा तस्सिन्नेच्छति अगीतार्थे भिक्षी प्रज्ञापना क्रियते / यथा-प्लानार्थं यदकल्पिकमपि यतनया सेव्यते, तत्र शुद्धो ग्लानो यतनया प्रवृत्तेरल्पीयान् दोषोऽशुद्ध ग्रहणात् सोऽपि पश्चात्प्राश्चित्तेन शोधयिष्यते / एवंरूपा च प्रज्ञापना क्रियते तरुणे दीर्घायुषि / यस्तु वृद्धस्तरुणो याऽतिरोगग्रस्तो चिकित्सनीय: स भक्तप्रत्याख्यानं प्रति प्रोत्साह्यते / यदि पुनः प्रोत्साह्यमानोऽपिन प्रतिपद्यते, तदा भण्डीपोताभ्यां दृष्टान्तः कर्त्तव्यः। संप्रति भण्डीपोतावेव दृष्टान्तावाह-- जा एगदेसे अदढा उभंडी, सालिप्पए सा उ करेइ कल्लं / जा दुव्वला संठविया विसंती, नतं तु सीलंति विसन्नदारुं / / जो एगदेसे अदढो उ पोतो, सो लिप्पते सो उ करेइ कजं / जो दुव्वालो सो ठवितो वि संतो,नतंतु सीलंति विसन्नदारुं वृत्तद्वयमपि कण्ठ्यम्। एसेव गमो नियमा, समाणीणं दुगविवजितो होइ। आयरियादीण जहा, पवितिणिमादीणि वितहेव।। यो गमोऽनन्तरमूलसूत्रादारभ्य श्रमणानामभिहितः, एष एव गमो नियमात् संयतीनामापि वक्तव्यः। किमविशेषेण? नेत्याहद्विकवर्जितःपाराञ्चितानवस्थाप्यलक्षणद्विकवर्जितो भवति वक्तव्यः, तदापत्तावपि तासांतयोर्दानाभावात्। उपलक्षणमेतत्-परिहारतपः तासां न भवति। यथा च आचार्यादीनां त्रिविधो भेद उक्तस्तथा प्रवर्तिन्यादीनामपि त्रिविधो भेदोऽवसातव्यः / तद्यथा--प्रवर्तिनी, गणावच्छेदिनी भिक्षुकी च / तत्राचार्यस्थानीया प्रवर्तिनी, उपाध्यायस्थानीया गणावच्छेदिनी, भिक्षुस्थानी या भिक्षुकी च / तदेवं मूलसूत्रादारभ्य यत् प्रकृतं तत् परिसमाप्तम् / व्य०१ उ०ा नि०चू०। .....काले इमं होइ। काले कालविषयमिदं वक्ष्यमाणं भवति। तत्र तावत्प्रकारान्तरेण क्षेत्रनिष्पन्नमेवाहअंतो बहिं न लब्मइ, ठवणफासुग महयमुच्छकिच्छ कालगए। चत्तारि छच लहु गुरु छेदो मूलं तह दुगं च // क्षेत्रस्यान्तर्वा बहिवा ग्लानप्रायोग्यं न लभ्यते इतिकृत्वा प्रासुकस्य स्थापना परिवासनां करोति चतुर्लघु, तेन परिवासितेन भक्तेन ग्लानो यद्यनागाढं परिताप्यत ततश्चतुर्गुरुकं, महतीं दुष्कासिकामाप्रोति षट्लघु, मूर्छयां षट्शुरु, कृच्छ्रप्राणे छेदः, कृच्छ्रोच्छासे मूलं, समवहते. मारणान्तिकसमुद्घातं कुर्वाणे ग्लाने अनवस्याप्यं, कालगतेपाराश्चिकम्। अथ कालनिष्पन्नं प्रायश्चितमाहपढमं राइ ठविते, गुरुगा विइयादिसत्तहिं चरिमं /