________________ गिलाण 880- अमिधानराजेन्द्रः - भाग 3 गिलाण दिटुंतो महिड्डिए, सवित्थरारोवणं कुन्जा॥ कोऽपि साधुर्वैयावृत्यकुशलः परम् अन्येनाभणित:-"आर्य ! एहि इच्छाकारेण म्लानस्य वैयावृत्तिं कुरु'' इत्यनुक्तः सन्नेच्छात वैयावृत्यं कर्तुं, स श्रुत्वाऽपिग्लानं तस्य समीपं गच्छति। कुलगणसङ्गस्थविराश्च ये कारणभूता: पुरुषा:, कुत्र सामाचार्यः सीदन्ति, कुत्र चोत्सर्पन्तीति प्रतिचरणाय गच्छान्तरेषु परिपृच्छन्ति, ते तत्र प्राप्ताः, तैश्च स पृष्ट आचार्यः, उत्सर्पन्ति ते ज्ञानदर्शनचारित्राणि, सन्ति वा केचित्प्रत्यासनपरिसहे साधवः, ग्लानो वा कुत्रापि भवता श्रुत इति? स प्राह इतः प्रत्याने एव ग्रामे सन्ति साधवः, तेषां चास्त्येको ग्लान इति / ततस्तैस्तस्योपालम्भ: प्रदत्तः यदि तेषां ग्लानो वर्त्तते ततस्त्वं तस्य प्रतिचरणायं कि न गतः?! सप्राहबहुसो पुच्छिज्जंता, इच्छाकारं न ते मम करिति। पडिमुंडणया दुक्खं, दुक्खं च सलाहि अप्पा / / बहुशो भूयो भूयः पृच्छमाना अपि ते साधव: कदापि ममेच्छाकारं न कुर्वन्ति / अन्यच-अहमभ्यर्थितस्तत्र गतस्तैश्च प्रतिमुण्डितोऽपि निषिद्धः, यथा पूर्णं भवता वैयावृत्या करणेनेति / एवं प्रतिमुण्डनया बहन्मानसं दुःखमुत्पद्यते, यादृशं चाऽऽहं ग्लानस्य वैयावृत्यं करोमि ईदृशमन्यः कोऽपि न वेति? एवमात्मानं श्लाघयितुंदु:खं दुष्करं भवति, अत: कथमनभ्यर्थितस्तत्र गच्छामीति ? / ततः स्थविरैस्तस्य पुरतो महर्द्धिको राजा तस्य दृष्टान्तः कृतः। यथा-"एगो राया कत्तियपुन्निमाए मरुयाणं दाणं देइ, एगो मरुगो वारसविनाठाणपारगो भोइयाए भणिओ तुमं सव्वमरुगाहिवो, वच रायासमीब, उत्तमं ते दाणं दाहिइ त्ति / सो मरुओ भणाइ-एगं ताव रायकिव्विसं गिण्हामि, विइयं अणिमतिओ | गच्छामि ! जइ से पितिपितामहस्स अणुग्गहेण पओअणं, तो में आगंतुं तत्थ नहिइ इह ट्ठियस्स वा मे दाहिइ। भोयाए भणिओ-तस्स अत्थि बहू मरुगा तुज्झ सरिच्छा अणुग्गहकारिणा, जइ अप्पणो तहविणेण कर्ज तो गच्छ / जहा सो मरुओ अब्भत्थणं मगंतो इहलोइयाणं कामभोगाणं अणाभागी जाओ, एवं तुमं पि अब्भत्थणं मगंतो निजरालाहस्स अणाभगी भविस्ससि।" इत्थमुपालभ्य चतुर्गुरुकारोपणां सविस्तार परितापनादिप्रायश्चित्तविस्तारयुक्तां तस्य प्रयच्छन्ति / गतमिच्छाकारद्वारम्॥ (12) अथाऽशक्तद्वारमाहकिं काहामि वराओ, अहं खु ओमाणकारओ होइं। एवं तत्थ भणंते, चाउम्मासा भवे गुरुगा। कोऽपि साधुः कुलगणस्थविरैस्तथैव पृष्टः प्राह-क्षमाश्रमण ! लोके यः सर्वथा अशक्तः पङ्कुप्राय: स वराक उच्यते। सोऽहं बराकस्तद्देशं गतः कि करिष्यामि ? नवरमहं तत्र प्राप्तोऽवमानकारको भविष्यामि एवं तत्र स्थविराणां पुरतो भणतस्तस्य चतुर्मासा गुरुवो भवन्ति। सच स्थचिरेरित्थमभिधातव्य:उवत्त खेल संथर जग्गणो पेस भावधारणया। तस्स पडिजग्गयाण य, पडिलेहेपि अस्सत्तो।। आर्य ! ग्लानस्योद्वर्त्तनमपि कर्तुं न शक्नोषि, एवं खेलमल्लकस्य भस्मना भरणं भस्मपरिष्ठापनं वा, संस्तारकस्य रचनं, जागरणं रात्री प्रहरकप्रदानं, पेषणमौषधीनां चूर्णनं भाण्ड धारणं सपानभोजनानां धारणं, तस्थ ग्लानस्य प्रतिजागरकाणां , साधूनामुपधिमपि प्रत्युपेक्षितुमशक्तः? येनेदं ब्रवीषि-किं करिष्यामि वराकोऽहमिति? (13) अथ सुखितद्वारमाहसुहिय मो ति य भणती, अत्थह वीसत्थया सुहं सवे / एवं तत्थ भर्णते,प्रायच्छित्तं भवे तिविहं।। एकत्र क्षेत्रे मासकल्पस्थितैः साधुभिः श्रुतम्-अमुकत्र ग्लान इति।तत्र केऽपि साधवो भणन्ति-ग्लानं प्रति जागरका व्रजामो वयम्। इतरः कोऽपि भणति-सुखितानस्मान् मा दुःखितान् कुरुत, यूयमपि सर्वे विश्वस्ता निरुद्विग्नाः सुखं सुखेन तिष्ठत। तत्र गत्वा मुधैवदुःखस्यात्मानं प्रयच्छामः / किं युष्माकमयं श्लोको न कर्णकोटरमुपागमत् ? यथा "सर्वस्य कार्यकारी, स्वार्थविघाती परस्य हितकारी / सर्वस्य च विश्वासी, मूर्योऽयं नाम विज्ञेयः ||1||" एवं तत्राप्रशस्य भणतस्त्रिविधं प्रायश्चित्तं भवति। तद्यथा-यद्याचार्य एवं ब्रवीति ततश्चतुर्गुरु, उपाध्यायो व्रवीति चतुर्लघु, भिक्षुत्रवीति मासगुरु। . (14) अथापमानद्वारमाह-- भत्तादिसंकिलेसो, अवस्स अम्हे वि तत्थन तरामो। काहिंति केत्तियाणं, ते तेणेव तेसु अद्दत्ता। अम्हेहि तहिं गएहि, ओमाणं उग्गमाइणो दोसा। एवं तत्थ भयंते, चाउम्मासा भवे गुरुगा। तथव ग्लानं श्रुत्वा केचिद्भ्णन्ति-व्रजामोग्लानप्रतिजागरणा-र्थम्। अपरे ब्रुवते-तत्रान्येऽपि ग्लानं श्रुत्वा बहवः प्रतिचरका: समायाता भविष्यन्ति, ततो महान् भक्तपानादिसंक्लेशो भविता, अवश्यमसंदिग्धं वयमपि तत्र गता न तरामो न निर्वहामो ग्लानप्रतिचरणार्थमागतानां कियतां ते वास्तव्यविश्रामणादिप्राघूक कर्म करिष्यन्ति ? यतस्ते तेनैव ग्लानेन तेषु कार्येषु अदत्ता आकुलीभूताः / तथा अस्माभिरपि तत्र गतैर्नियमादवमानम् अवश्यमृद्गमदोषाश्चाधाकर्ममिश्रजात-प्रभृतयः। आदिशब्दा-देषणादोषाश्च भविष्यन्ति / एवं तत्र तेषां भणतां चत्वारो मासा गुरुका भवेयुः। (15) अथ लुब्धतासमाहअम्हे निजही, अत्थह तुम्मे वयं सें काहामो। अस्थि य अभाविया णं ते, विय णाहिंति काऊण / / मासकल्पस्थितैः साधुभिः श्रुतम्-यथाऽमुकत्र ग्रामे ग्लानः संजातोऽस्ति। तच क्षेत्रं वसतिपानकगोरसादिभिः सर्वैरपि गुणैरुपेतं, ततस्ते लोभाभिभूत चेतसचिन्तयन्तिग्लानमन्तरेण न शक्यते क्षेत्रमिदं प्रेरयितुम् / अथो गच्छामो वयमिति चिन्तयित्वा तत्र गत्वा भणन्तिवयं निर्जरार्थिनो ग्लानवैयावृत्त्यकरणेन कर्मक्षयमभिलषमाणा इहायाताः स्म, अतो यूयं तिष्ठत, वये 'से' तस्य ग्लानस्य वैयावृत्यं करिष्यामः / सन्ति च अस्माकमभाविता: शैक्षा:, तेऽप चास्मान् वैयावृत्त्यं कुर्वतो दृष्ट्वा ज्ञास्यन्ति। एवं गिलाणलक्खे-ण संठिया पाहुण त्ति उक्कोसं। मग्गंताचमढ़ती, तेसिंचारोवणा चउहा।।