________________ द्राम ८६६-अभिधानराजेन्द्रः - भाग 3 गाम प्रतिभणति-एतदपि भूयस्तर क्षेत्रनग्रामसंज्ञांलब्धुमर्हति, अहंभणामियावदुदपानं तस्यैव ग्रामस्य संबन्धी कूपः तावद्ग्राम इति / ततोऽपि विशुद्धतरो व्रत-इदमप्यतिप्रभूतं क्षेत्रम्, अतो यावत् क्षेत्रं अव्यक्तानि चेटरूपाणि रममाणानि गच्छन्ति तावद् ग्रामः / ततोऽपि विशुद्धतरः प्रतिवक्ति-एतदप्यतिरिक्ततया न समीचानमाभाति, ततो यावन्तं भूभागमतिलघीयांसो बालका उत्क्रीडन्तो रिङ्गन्तः प्रयान्ति तावान् ग्राम इति। एव विसुद्धनिगमस्स वइपरिक्खेवपरिखुडा गामो। ववहारस्स वि एवं, संग्रह जहिँ गामसमवाओ॥ एवं विचित्राभिप्रायाणां पूर्वनैगमानां सर्वा अपि प्रतिपत्तोपोह्य सर्वविशुद्धनैगमनयस्य यावान् वृतिपरिक्षेपपरिवृतो भूभागस्तावान् ग्राम उच्यते। अथ संग्रह व्यतिक्रम्य लाघवार्थभत्रैव व्यवहारमतमतिदिशति(ववहारस्स वि एवंति) यथा नगमस्थाने के प्रतिपत्तिप्रकाराः प्ररूपितास्त्रथा व्यहारस्याप्येवमेव प्ररूपणीयाः, तस्य व्यवहाराभ्युपगमपरायणत्वात् / बालगोपालादिना च लोकेन सर्वेषाप्यनन्तरोक्तभेदानां यथावसरं ग्राम तया व्यवहरणीयत्वात् / संग्रहस्तु सामान्यग्रात्विाद्यत्र त्राम्स्य ग्रामवास्तव्यलोकस्य समवाय एकत्र मालनं भवति तद्वाणमन्तरदेवकुलादिक ग्राम इति व्रते। इदमेव प्रकारान्तरेणाऽऽहजं वा पढम काउं, सेसगगामां निवसई स गामो / तंदेउलं सभा वा, मज्झिमगोट्ठा पवा वा।। यद्धा प्रथमं कृत्वा निवेश्य, शेष: सर्वोऽपि ग्रामो निविशते, स संग्रहनयाभिप्रायेण ग्रामः। तच देवकुलंवा भवेत, समा वा ग्राममध्यमवर्ती वा गाष्ठः,प्रपा वा। अथावग्रहपदं विवृण्वन् ऋजुसूत्रनयमतमाहउज्जुसुयस्स नि ओओ, पतयघर तु हाइ एकेक / उद्देति वसति व वसेण जस्स भहस्स सो गामो।। ऋजुसूत्रस्त् स्वकीयार्थग्राहकत्वात् परकीयवसतोऽप्यनभ्युपगमात् यस्य यत्प्रत्येकमात्मीयावग्रहरूपमे कै कं गृहु तत् नियोग इति प्रतिपत्तव्यम् / नियोग इतिग्राम इति चैकोऽर्थः। आह च विशेषचूर्णिकृत्"गामो त्ति वा निओओ त्ति वाएगटुंततो अ आहिवई" इति व्याख्यानयन् शब्दनयमतमाह-'उढेइत्ति' इत्यादिशब्दस्य शब्दाख्यनयस्य कस्यापि वशेन ग्रम उत्तिष्ठते-उद्वशी भवति वा, वसति भूयोऽप्यवस्थानं करोति, स ग्रामस्याधिपतिर्दाम इति शब्दमुद्रोढुमर्हति, ये तु तत्र तदनुवर्तिनः शेषास्ते अशेषा अप्युपमसर्जनीभूतत्वान्न ग्रामसंज्ञां लभन्त इति भावः / चिन्तितं नयमार्गणया ग्रामरूपम्। अथ ग्रामस्यैव नयैः संस्थानचिन्तां चिकीर्षुराहतस्सेव उ गामस्सा, को किं संठाणमिच्छति न ओ उ। तत्थ इमे संठाण, हवंति खलु मल्लगावीया॥ तस्यैव ग्रामस्य संस्थान को नयः किमिच्छतीति चिन्त्यते, तत्र तावदिमानि मल्लकादीनि ग्रामस्य संस्थानानि भवन्ति। तान्येवाहउत्ताणग ओसंखिय, संपुडए खंडमल्लए तिविहे। मित्ती पडाल वलभी, अक्खाडग रुयग कासवए। अस्ति ग्राम उत्तानकमल्लकारः, आस्त ग्रामोऽवाखमल्लकाकार: एवं संपुटकमल्लकाकारः,खण्डमल्लकमपि त्रिविधं वाच्यम्। तद्यथाउत्तानकखण्डमल्लकसंस्थित:, अवामुखखण्डमल्ल-कसंस्थितः, संपुटकखण्डमल्लकसंस्थितश्च / तथा मित्तीसंस्थित:, पडालिकासंस्थितः, मलभीसंस्थितः, अक्षपाटकसंस्थितः, रुचकसंस्थितः, काश्यपसंस्थितश्चेति अथैषामेव संस्थानानां यथाक्रमं व्यख्यानमाहमज्झे गामस्सऽगढो, वुद्धिच्छेदा ततो उ रज्जूओ। निक्खम्म मलपादे, गिण्हतीओ वइं पत्ता॥ इह यस्य ग्रामस्य मध्यभागे अगमः कूपस्तस्य बुद्ध्या पूर्वदिषु दिक्षु च्छेदः परिकल्पते, ततश्च कूपस्याधस्तनतलाद् बुद्धिच्छेदेन रज्जवो दिक्ष विदिक्षु च निश्राम्य गृहाणां मूलपादानुपरिकृत्वा गृहत्यस्तिर्यक तावद्विस्तार्यन्ते यावत्तदामपयन्तवर्तिनी वृति प्राप्ता भवान्त, तत उभयभिमुखीभूय तावद्गतयो बहूच्छ्रयेण हर्म्यतलानां सीमीभूतास्तत्र च षटहच्छेदनों परताः, एष ईदृशउत्तानमल्लकसंस्थितो ग्राम उच्यते। ऊर्वाभिमुखस्य शरावस्यैतमेव वाच्यं, नवरं यस्य ग्रामस्य मध्ये देवकुलं वृक्षो वा उच्चस्तरस्तस्य देवकुलादेः शिखरात् रज्जवोऽवतार्थ तिर्यग तावन्नयन्ते यावद्वृत्रि प्राप्ताः, ततो अधोमुखीभूय गृहाणां मूलपादान गृहीत्वा पटहच्छेदेनोपरतः, एषोऽवामुखमल्लकसंस्थितो ग्रामः / तथा यस्य मध्यभागे कूपस्तस्य चोपर्युचतरो वृक्षस्ततः कूपस्याधस्तलात् रज्जवो विनिर्गत्य मूलपादानधोऽधस्तावद् गता यावद् वृति प्राप्ता ग्रामस्य, तत ऊर्वाभिमुखीभूय गत्वा हर्म्यतलानां समश्रेणीभूताः वृक्ष शिखरादप्यवतीर्य रज्जवस्तथैव तिर्यकृति प्राप्नुवन्ति, ततोऽधोमुखीभूय कूपसंबन्धिनीनां रजूनामग्रभागः समं संघटन्ते। अथैकसंपुटकमल्लकाकारो नाम ग्राम:जइ कूपाई पासम्मि होति तो खंडमल्लओ होई। पुवावररुक्खहिं, गामो जेहिं भवे मित्ती / / यदि कूपादीनि कपवृक्षतदुभयानि पार्वे एकस्या दिशि भवन्ति, ततः खण्डमल्लकाकारस्त्रियविधोऽप ग्रामो यथाक्रम मन्तव्यः / तत्र यस्य ग्रामस्रू वहिरेकस्यां दिशि कूपस्तामेवैका दिशं मुक्त्वा शेषासु सप्तसु दिक्षु रज्जवो निर्गत्य तिर्यक् वृति, प्राप्योपरि हर्म्यतलान्यासाद्य पटहच्छेदेनापरमन्ते, एष उत्तानकखण्डमल्लकाकारः / अवकुखखण्डमल्लकाकारोऽप्येवमेव, नवरं यस्यैकस्यां दिशि देवकुलमुच्चैस्तरो वा वृक्षः। संपुटकखण्डमल्लकाकारस्तु यस्यैकस्यां दिशि कूपस्तदुपरिष्टाच वृक्ष:, शेषं प्राग्वत् / 'पुव्वावर' इत्यादि / पूर्वस्यामपरसयां च दिशि समश्रेणिव्यवस्थितैर्वृक्षभित्ति संस्थितो ग्रामो वा भवेत्। पासहिए पडाली, वलभी चउकोणगेसुदीहा उ। चउकोणेसु जइ दुमा हवंति अक्खाडतो तम्हा / / पडालिकासंस्थितोऽप्येवमेव, नवरम् एकस्मिन् पार्वे वृक्षयुगलं समश्रेण्या व्यवस्थितम् / तथा यस्य ग्रामस्य चतुर्ध्वपि कोणेषु ईषद्दीर्घा वृक्षा व्यवस्थिताः स वलभीसंस्थित: / अथ वाम यद् मल्लानां युद्धाभ्यासस्थानम् / तद्यथा-समं चतुरस्रं भवति, एवं यदि ग्रामस्यापि चतुर्षु कोणेषु द्रमा भवन्ति ततोऽसौ चतुर्दिग्वतिभिर्वृक्षः समचतुरस्रतया परिछिद्यमानत्वादक्षवाटक संस्थितः /