________________ गाढदुक्खा 565 - अभिधानराजेन्द्रः - भाग 3 गाम गावपेल्लण न०(गाढप्रेरण) अत्यर्थप्रेरणे, प्रश्न०३ आश्र० द्वार। गावसह त्रि०(गाढरुष्ट) अत्यर्थक्रुद्धे, प्रश्न०३ आश्र० द्वार। गाढालवणलग्ग त्रि०(गाढालम्बनलग्न) एकालम्बने स्थिरतया व्यवस्थिते, आव०५ अग गाढीकय त्रि०(गाढीकृत) शणसूत्रगाढबद्धसूचाकलापवत् आत्मप्रदेशैः सह गाढबद्ध कर्माणि, भ०६ श०१ उ०। गाढोवणीय त्रि०(गाढौपमीत) गाढमत्यर्थमुपनीतंढौकितंदुष्कृतकर्मकारिणां यत्स्थानंतत्। सूत्र०१ श्रु०५ अ०१3०1"गाढावणीयं अतिदुक्खधम्म" सूत्र०१ श्रु०५ अ०१ उ०। दृढनिधत्तानिकाचिकावस्थैः कर्मभिदौकिते, सूत्र०१ श्रु०५ अ०२ उ०। गाणन०(गान) गीते, जी०३ प्रति०। "गीयं विततंधणं भुसिणं अप्पेचउव्हिं गायंति"आ०चू०१ अ० गाणंगणिय पुं०(गाणङ्गणिक) गणागणंषण्मासाभ्यान्तर एव सङ्क्रामतीति गाणङ्गणिक इत्यागभिकी परिभाषा / उत्त०१७ अ०। षण्मासाभ्यन्तरं एव गणाद्भान्तरं सङ्क्रामति, उत्त०१७ अ० गाणङ्गणिकमतऊर्द्धं वक्ष्ये, तमेवाह छम्मास अपूरित्ता, गुरुणा वारससमासु चउलहुगा। तेण परं मासलह, गाणंगणि कारणे भइतं // उपसंपन्नः साधुः कारणाभावे षण्मासानपूरयित्वा यद्येकस्माद्दणादपरं गणं संक्रामति तदा तस्य चत्वारो गुरुका:,षण्मास्या: परतो यावत्द्वादश समा वर्षा णि, ता अपूरयित्वा गच्छतश्चतुर्लघका: ततः परं द्वादशभ्यो वर्षेभ्य ऊर्द्ध निष्कारणं गणागणं संक्रमतो मासलधु, "गाणंगणि त्ति' भावप्रधानो निर्देश:, ततो गणं गणिकत्वं, कारणे ज्ञानदर्शनचारित्राणामन्यतरस्मिन्पुष्टालम्बने समुत्पन्नेभाज्यं सेवनीयम्। किमुक्तंभवति? कारणे मध्ये द्वादशमन्तः षण्मासं वा गणागणं संक्रामन्नापि न प्रायश्चित्तभाग भवतीति / गतं गाणङ्गणिकद्वारम् / वृ०१ उ०। नि००। गाम पुं०(ग्राम) गम्यो गमनीयोऽष्टादशानां शास्त्रे प्रसिद्धानां कराणामिति व्युपत्त्या, ग्रसते वा बुद्ध्यादीन् गुणानिति व्युत्पत्त्य वा पृषोदरादित्वान्निरुक्तविधिना ग्रामः। बृ०१ उ०। रा०ा व्याजी०। प्रश्नवादशा०नि०चू०। आचा०। अनु० उत्ता पा०। प्राचुर्येण ग्रामधर्मोपेतत्वात् करादिगम्यो वा ग्रामः / आचा०२ श्रु०१ अ०२ ए01 करवति, कल्प०४ क्षण / जगपदाध्यासिते, औ० / जननिवासलक्षणे, अष्ट०१८ अष्ट। सन्निवेशविशेषे, प्रश्न 3 आश्र० द्वार / भ०। ज्ञा०। कण्टकवाटकावृते जनानां निवासे, उत्त०२ अ०। सूत्र०। ग्रामपदनिक्षेपमाहनामं ठवणा गामो, दव्यग्गाओ अभूतगामो य। आउजिंदियगामो, पिउगाभो भावगामो य॥ नामग्राम:, स्थापनाग्रामो द्रव्यग्रामश्च, भूतग्रामश्च, आतीद्यग्रामः, | इन्द्रियग्रामः, पितृग्रामो, भावग्रामश्चेति गाथासमुदयार्थः। अथावयवार्थमभिधित्सुर्नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यग्राम व्याचष्टेजीवाजीवसमुदओ, गामो को वा नओ कहं इच्छे। आदिनयोऽणगविहो, तिविकप्पो अंतिम नओ उ॥ जीवानां गोमहिषीमनुष्यादीनामऽजीवानां च गृहादीनां य: समुदय: स द्रव्यात उच्यते। इह च सर्वज्ञोपज्ञप्रवचने प्राय: सर्वमपि सूत्रतर्थश्च नयैर्विचार्यते। यत उक्तम्-"नत्थि नएहि विहूणं सुत्तं अत्थो य जिणमए किंचि। आसज्ज उसोयारं, नएन य विसारओ वूया''||१| अत एषोऽपि द्रव्यग्रामो नयैर्विचार्यते-को नाम नयः कं द्रव्यग्रामं कथतिच्छतीति ? तत्र नया: सामान्यतः सप्त, नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवं भूतभेदात् / इह तु समभिरूदैवंभूतयोः शब्दप्राधान्याभ्युपगमपरतया शब्दनये एवान्तर्भावो विवक्ष्यते, ततश्चादिनयो नैगमः, सोऽविशुद्धशुद्धविशुद्धतरादिभेदादनेकविध:, अन्तिमनयस्तु शब्दः, स त्रिविध; शब्दसमभिरूदैवंभूतभेदात्। तत्रानकेविधनैगमानामन्यन्यप्यपिपक्षाणियानि वक्तव्यानितानि नामग्रार्ह संगृह्णन्नाहगावो तणाइ सीमा, आरामुदपाणचेडरूवाणि। वाही य वाणमंतर, उग्गह तत्तो य आहिपवती॥ गावः 1 तृणानि 2 उपलक्षत्वात्तृणाहारकादयः। सीमा 3 आरामम् / उदपानं कूपः 5 चेडरूपाणि 6 वाहितिः 7 वाणमन्तरं देवकुलम् 5 अवग्रहः / ततश्चाधिापतिः 10 इतिनियुक्तिगाथाऽक्षरार्थः / अथ भावार्थउच्यते-प्रथमं नैगमः प्राह या-वन्तं भूभागं गावश्चरितुं व्रजति तावान् सर्वोऽपि ग्राम इति व्यपदेशंलभते ततो विशुद्धनगमः प्रतिभणतिगाओ वयंति दूर, पिजंतु तणकट्ठहारगादीया। सूरुजिते गताएं-ति अत्थ संते ततो गामो॥ परिस्थूरमपि परग्राममपि चरितुं व्रजन्ति, ततः किमेवं सोऽप्येक एव ग्रामो भवतु ? अपि च एवं व॒वतो भवतोभूयसामपि परस्परमतिदवीयसां ग्रामाणामेकग्रामतैव प्रसज्जति, न चैतदुपपन्नं, तस्मान्नैतावान् ग्रामः, किं तु यत्यावन्मात्रं क्षेत्रं तृणाहारककाष्ठहारकादयः सूर्ये उस्थितेतृणाधर्थ गता: सन्तः सूर्ये अस्तमयतितृणादिभारकंबद्धवाः पुनरायान्ति, एतावत् क्षेत्रं ग्रामः। परसीमं पिवयंति हु, सुद्धतरो भणति जा ससीमा नु / उखाण अवत्तावा, उझीलंता उसुद्धयरो॥ शुद्धतरो नैगमो भणति-यद्यपि गवां गोचरक्षेत्रादासन्नतरं भूभागं तृणकाष्ठाहारका व्रजन्ति, तथापि ते कदाचित्परसोमानमपि व्रजन्ति, तस्मान्नैतावान् ग्राम उपपद्यते / अहं ब्रवीमियावत् स्या आत्मीया सीमा एतावान् ग्रामः / ततोऽपि विशुद्धतरः प्राह-मैवम्। अतिप्रचार क्षेत्रं ग्राम इति वोच:, किं तु यावत्तस्यैव ग्रामस्य संबन्धी कूपः तावद् ग्राम इति / ततोऽपि विशुद्धतरो ब्रूते-उद्यानमारास्तावद्ग्राम इति भण्यते। विशुद्धतमः